पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६१
अष्टादशः सर्गः ।

 वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम ।
 त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था॥६०॥

 वृत्तमिति ॥ काचिदमरनारी युद्धे वृत्तं मृतम् । 'वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि वृते मृते' इति विश्वः । शूरमाश्लिष्य रन्तुं तूर्णं मेरोः कुञ्जं गह्वरं जगाम । यावत्तद्वियोगासमर्था तद्विरहासहा पत्नी सद्योऽग्नौ देहं त्यक्त्वा नैति स्म नाजगाम । अत्र मेरुकुञ्जासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ६० ॥

 त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः ।
 प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वेव कंचित्पुरंध्री ॥६१॥

 त्यक्तेति ॥ संयुगे युद्धे त्यक्तप्राणं कंचिद्वीरं हस्तिन्यां तिष्ठतीति हस्तिनीस्था करिणीमारूढा सती वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुर्गतप्राणा स्वैव पुरंध्री स्वभा- यैव सतीत्वात्पतिव्रतात्वादखण्डमक्षयं देवभूयं देवत्वम् । 'भुवो भावे' (३।१। १०७) इति क्यप् । प्राप्याशिश्लेष । स्त्रीणां पातिव्रत्यमेव पतिसालोक्यनिदानं नाग्निप्रवेशादिकमिति भावः । अत्र सतीत्वस्य विशेषणगत्या देवभूयहेतुत्वानुक्तेर्न काव्यलिङ्गम् । अतिशयोक्त्यादिकं तु यथासंभवमूह्यम् ॥ ६१ ॥

 खर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।
 कश्चिद्भेजे दिव्यनार्या परसिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥६२॥

 स्वर्गवासमिति ॥ कश्चिद्वीरश्चिराय चिरकालं स्वर्गेवासम् । 'शयवासवासि- ष्वकालात्' (६।३।१८) इति विकल्पादलुक् । कारयन्त्या अनुभावयन्त्या अहन्यहनि प्रत्यहम् । 'नपुंसकादन्यतरस्याम्' (५।४।१०९) इत्यव्ययीभावे समासान्तष्टच्प्रत्ययः । 'अव्ययानां भमात्रे टिलोपः' (वा०) इत्युक्तम् । प्रत्यग्रत्वं नूतनत्वं धारयन्त्या । परप्रेमास्पदत्वादिति भावः । लोकं प्रीणयन्त्या अद्भुतत्वं प्रापयन्त्या । प्रीञो ण्यन्ताल्लटः शतरि ङीप् 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा०) इति नुगागमः । दिव्यनार्या, परस्मिंल्लोके इह लोके कीर्त्या च भेजे प्राप्तः । भजेः कर्मणि लिट् । रणमरणाल्लोकद्वयमपि जिगायेत्यर्थः । अत्र दिव्याङ्गनाकीर्त्योः प्रकृतयोरेव तुल्यधमसंबन्धात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ६२ ॥

 गत्वा नूनं वैबुधं सद्म रम्यं मूर्छाभाजामाजगामान्तरात्मा ।
 भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥६३॥

 गत्वेति ॥ मूर्छाभाजामन्तरात्मा जीवः रम्यं वैबुधं सद्म दिव्यभवनं गत्वा आजगाम मूर्छासमये सुरलोकरामणीयकं दृष्ट्वा आजगाम । नूनमुत्प्रेक्षायाम् । कुतः ।यद्यस्मात्प्राप्तसंज्ञा लब्धबोधाः सन्तः दृष्टप्रत्ययाः दृढविश्वासाः भूयः पुनरपि साधीयो गा(बा)ढतरम् । गा(बा) ढादीयसुनि 'अन्तिकबाढयोर्नेदसाधौ' (५।३।६३) इति साधादेशः । रणाय रणं कर्तुमाद्रियन्ते । उत्सेहिर इत्यर्थः । कर्तरि लट् श्यन्प्रत्ययः । कथंचिदुज्जीवितानां पुनर्मृत्युप्राप्तिः श्रेयोदर्शनहेतुकेति भावः ॥६३॥