पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५०५

पुटमेतत् सुपुष्टितम्
४७३
एकोनविंशः सर्गः ।

नीचतुरङ्गया । चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तया चतुरङ्गया वाहिन्या करणेन अहितानभि शत्रून्प्रति चचाल । कलभसमेत्युपमा यमकेन संसृज्यते ॥ २५ ॥  अथ कलापकेन सेनां वर्णयति-

   ततस्ततधनुर्मौर्वीविस्फारस्फारनिःस्वनैः ।
   तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ २६ ॥

 ततस्ततेत्यादि ॥ ततश्चैद्यचलनानन्तरं ततानामाकृष्टानां धनुर्मौर्वीणां विस्फारैः स्फाराः प्रभूता निःस्वना येषां तैस्तूर्यैः युगक्षये कल्पान्ते क्षुभ्यन्तमुद्देल्लन्तमकूपारं समुद्रमनुकरोतीति तदनुकारिणी सा सेनेत्युत्तरेणान्वयः । उपमा॥२६॥

॥ सर्वतोभद्रः॥

का ना ना का
का सा सा का
सा वा वा सा
ना वा वा ना ॥ २७ ॥

 सकारेति ॥ पुनः कीदृशी । 'कारो वधे निश्चये च बले यत्ने रतावपि' इति विश्वः । सकाराः सयत्नाः सोत्साहाः नाना नानाविधाश्च ये आरा अरीणां समूहाः । 'भिक्षादिभ्योऽण्' (४।२।३८) । तेषां कासा गतिभेदाः काया विग्रहाश्च तेषां सादं ददतीति साददाः नाशकारकाः सायका यस्यां सा तथोक्ता । रसेन रागेणाहवो यस्याः सा रसाहवा । रणरागिणीत्यर्थः । वाहसाराणां वाहश्रेष्टानां ये नादा ह्रेषादिघोषास्तेषां वादं कलहं ददतीति वाददानि तैः सह कलहायमानानि वादनानि वाद्यानि यस्यां सा वाहसारनादवाददवादना । तूर्यतुल्यवाहघोषेत्यर्थः । अत एव तेषां तुल्यतोक्तेरतिशयोक्तिः । सर्वतो भ्रमणात् सर्वतोभद्राख्यश्चित्रबन्धः । अत एव दण्डी - 'तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुःषष्टिकोष्ठे चतुरङ्गबन्धे क्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्कं विलिख्यानन्तरं पङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु प्रथमपादः सर्वतो वाच्यते । एवं द्वितीयादिषु द्वितीय इत्यादि ॥ २७ ॥

   लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।
   चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ २८ ॥

 लोलेति ॥ लोलान्यसीनामेव कालियानां कृष्णसर्पविशेषाणां कुलानि यस्यां सा उल्लसद्भिर्लोहवर्मभिरयःकञ्चुकैः श्यामा अत एव यमस्यान्तकस्य सहायतां भ्रातृस्नेहादस्मिन्सेनासंहारे साहाय्यं चिकीर्षुः स्वयं साक्षात्स्वसा तस्यैव भगिनी यमुनैव स्थितेत्युप्रेक्षा ॥ २८॥