॥ मुरजबन्धः॥
सा | से | ना | ग | म | ना | र | म्भे | |
र | से | ना | सी | द | ना | र | ता | । |
ता | र | ना | द | ज | ना | म | त्त | |
धी | र | ना | ग | म | ना | म | या | ॥ २९ ॥ |
सा सेनेति ॥ तारोऽत्युच्चैर्नादः सिंहनादो येषां ते जना यस्यां सा तारनादजना अनामया अव्यथा सा पूर्वोक्ता सेना मत्ता धीरा अदुष्टाश्च नागा गजा यस्मिन्कर्मणि तत्तथा गमनारम्भे रसेन रागेण अनारता अविरता आसीत् । अविच्छिन्नरणरागाभूदित्यर्थः । मुरजबन्धः । तस्योद्धारस्तु-'तिर्यग्रेखा लिखेत्पञ्च नवोर्ध्वास्तत्र पङ्तयः । अष्टकोष्टाश्चतस्रः स्युस्तासु श्लोकं लिखेत्क्रमात् ॥ तत्राद्यद्वित्रितुर्यासु तुर्यत्रियाद्यपङ्तिषु । आद्यद्वित्रिचतुःपञ्चषट्सप्ताष्टमकोष्टगः । दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि । चतुर्थपङ्तिप्राथम्यात्प्रथमावधिवीक्षणात् । द्वितीयादावाद्यद्वित्र्योर्द्वितुर्ये त्रितुरीयके । तुर्यत्रियोस्तृतीयाद्ये द्रष्टव्योऽनिर्द्वितीयकः ॥ तृतीयोऽङ्घ्रिर्द्वितीयान्त्ये आद्यसप्तमषष्ठयोः । द्वित्रिपञ्चमयोस्तुर्यषष्ठसप्तमयोः क्रमात् । तृतीयान्त्ये च लक्ष्योऽयमथान्यः क्रम उच्यते ॥ आद्यन्त्ययुग्मयोः पपङ्तयोश्चिन्त्यो गोमूत्रिकाक्रमः । कृत्वैकं द्वितयं द्वे च द्वयमेकमिति क्रमात् ॥ यद्वा द्वितयमेकं च द्वयमेकं द्वयं पुनः । स्वपङ्तिप्रक्रमादेव विन्यासद्वितयं भवेत् । यद्वा प्रथमतुर्याङ्घ्री स्वपङ्तयोस्तदनुक्रमात् । द्वितीयोऽङ्घ्रिर्द्वितीयस्यां क्रमादाद्यचतुष्टये ॥ व्युत्क्रमाच्च तृतीयस्यामाद्यमेव चतुष्टये । व्युत्क्रमेण द्वितीयस्यां तृतीयस्यां क्रमेण च ॥ द्रष्टव्यो हि तृतीयोऽङ्घ्रिरन्त्यकोष्ठचतुष्टये । विन्यासभेदास्त्वन्येऽपि सन्त्येव बहवोऽत्र हि ॥ विस्तरात्तु न लिख्यन्ते स्वयमूह्या विचक्षणैः ॥' इति कलापकम् ॥ २९ ॥
धूतधौतासयः प्रष्ठाः प्रातिष्ठन्त क्षमाभृताम् ।
शौर्यानुरागनिकषः सा हि वेलानुजीविनाम् ॥ ३० ॥
धूतेति ॥ क्षमाभृतां राज्ञा प्रतिष्ठन्त इति प्रष्ठा अग्रेसराः । 'सुपि स्थः' (३।२।४) इति कप्रत्ययः । 'प्रष्ठोऽग्रगामिनि' (३९२) इति षत्वे ष्टुत्वम् । धूताः कम्पिता धौता उत्तेजिता असयो यैस्ते धूतधौतासयः सन्तः प्रातिष्ठन्त प्रस्थिताः । 'समवप्रविभ्यः स्थः' (१।३।२२) इति तङ् । सा वेला अनुजीविनां शस्त्रजीविनां शौर्यानुरागयोः पुरुषकारस्वामिभक्त्योर्निकषः परीक्षास्थानं हि । अतोऽग्रे स्थातव्यम् । अन्यथा भीरुत्वं स्वामिद्रोहश्च स्यातामिति भावः । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३०॥
दिवमिच्छन्युधा गन्तुं कोमलामलसंपदम् ।
दधौ दधानोऽसिलतां कोऽमलामलसं पदम् ॥ ३१ ॥
दिवमिति ॥ युधा युद्धेन कोमलाश्चारवः अमलाः शीतोष्णादिदोषरहिताः संपदो यस्यां तां कोमलामलसंपदं दिवं स्वर्ग गन्तुमिच्छन् कः पुमान् अमलां