पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७७
एकोनविंशः सर्गः ।

  बाणाहिपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
  गोधाश्लिष्टभुजाशाखैरभूद्धीमा रणाटवी ॥ ३९॥

 बाणेति ॥ रणमेवाटवी रणाटवी बाणैरिवाहिभिः पूर्णा तूणीरा निषङ्गा एव कोटराः कुहरा येषां तैः गोधास्तलानि, निहाकाश्च । 'गोधा तले निहाकायाम्' इति विश्वः । तलं ज्याघातवारणम् । ततो गोधा एव गोधा इति श्लिष्टरूपकम् । ताभिराश्लिष्टा भुजा एव शाखा येषां तैर्धन्विभिर्धानुष्कैरेव शाखिभिर्वृक्षैर्भीमा भयंकरा अभूत् । समस्तवस्तुवर्णनात्सावयवरूपकम् ॥ ३९ ॥

॥ प्रतिलोमानुलोमपादः॥

  नानाजाववजानाना सा जनौघघनौजसा ।
  परानिहाऽहानिराप तान्वियाततयाऽन्विता ॥ ४०॥

 नानेति ॥ इहास्यां नानाविधायामाजौ चित्रयुद्धे ओजसा तेजसा अवजानाना अवज्ञां कुर्वती । 'अकर्मकाच्च' (१॥३।२६) इत्यात्मनेपदम् । जनौघैर्घना सान्द्रा जनौघघना । बहुजनेत्यर्थः । अहानिरभया वियाततया वैयात्येन धाष्ट्येना- न्विता । पृष्टेत्यर्थः । 'धृष्टो धृष्णुर्वियातश्च' इत्यमरः । सा चैद्यसेना तान्परानरीनाप प्राप । अत्र प्रतिपादं पादार्धस्यैवावृत्तेरर्धपादप्रतिलोमयमकम् ॥ ४० ॥

  विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।
  श्लोकैरिव महाकाव्यं व्यूहैस्तदभवलम् ॥ ४१॥

 विषममिति ॥ तद्वलं चैद्यसेना सर्वतोभद्रचक्रगोमूनिकादिभिः । आदि- ग्रहणान्मुरजबन्धादिसंग्रहः । श्लोकैर्महाकाव्यं शिशुपालवधादिकमिव व्यूहैः सर्वतोभद्रादिभिरेव बलविन्यासैः । 'ब्यूहस्तु बलविन्यासे' इत्यमरः । विषमं दुरवग्रहमभवत् । नगनगरादिवर्णनयुक्तलक्षणं महाकाव्यम् ॥४१॥

  संहत्या सात्वतां चैधं प्रति भास्वरसेनया।
  ववले योद्धुमुत्पन्नप्रतिभा स्वरसेन या ॥ ४२ ॥

 संहत्येति ॥ भास्वरा तेजिष्ठा सेना यस्यास्तया भास्वरसेनया सात्वतां यदूनां संहत्या सङ्गेन चैद्यं प्रति ववले प्रचेले । 'वल चलने' इति धातोर्भावे लिट् 'न शसददवादि ' (६।४।१२६) इति वकारादित्वादेत्वाभ्यासलोपयोः प्रतिषेधः । या यदूनां संहतिः स्वरसेन स्वभावेन योद्धुमुत्पन्नप्रतिभा संजातप्रतिभा या स्वयं रणकण्डूला सा पराहूता कथं निवर्तत इति भावः ॥ ४२ ॥  अथ यदुसेनायाः प्रतिबलाभियोगं युग्मेनाह-

  विस्तीर्णमायामवती लोललोकनिरन्तरा ।
  नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥ ४३ ॥

वेस्तीर्णमित्यादि ॥ आयामवती द्राघीयसी लोललोकनिरन्तरा चल-