पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
प्रथमः सर्गः ।

 सलीलेति ॥ संयति युद्धे । 'समुदायः स्त्रियां संयत्समित्याजिसमिद्युधः इत्यमरः । येन रावणेन अनुद्रुतोऽनुधावितः बलस्य शत्रुरिन्द्रः अभ्रमोर्भर्तुरैरा- वतस्य सलीलयातानि सभङ्गीकगमनानि न प्रशशंस । तथा उच्चैःश्रवसः स्वाश्वस्य चित्रं नानाविधं पदक्रमं पादविक्षेपम् । अर्धपुलायितादिगतिविशेषमित्यर्थः । न प्रशशंस । किंतु केवलं शीघ्रतां शीघ्रगामित्वमेव प्रशशंस । अन्यथा शीघ्रं मामास्कन्द्य ग्रहीष्यतीति भयादिति भावः ॥ ५२ ॥

अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ५३

 अशक्नुवन्निति ॥ अधीरलोचनोऽस्थिरदृष्टिः कौशिको महेन्द्रः, उलूकश्च । 'महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः' इत्यमरः । सहस्ररश्मेः सूर्यस्येव यस्य रावणस्य विक्रमकर्मणो दर्शनं सोढुमशक्नुवन् । हेमाद्रेर्गुहैव गृहं तस्यान्तरं प्रविश्य बिभ्यत्तत्रापि वेपमान एव । बिभीतेः शतरि 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । दिवसानि वासराणि निनाय । 'वा तु क्लीबे दिवसवासरौ' इत्यमरः । यथा पेचकः सूर्योदये भीतः सन् तिष्ठति तथा सोऽपीति भावः । कौशिक इत्य- भिधायाः प्रस्तुतैकगोचरत्वेनोभयश्लेषेऽपि विशेष्यश्लेषासंभवात् उलूकविषयशब्दश- क्तिमूलो ध्वनिः । सहस्ररश्मेरिवेत्युपमाननिर्वाहकत्वाद्वाच्यसिद्ध्यङ्गम् ॥ ५३ ॥

बृहच्छिलानिष्ठुरकण्ठघट्टनाद्विकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकंधरम् ॥५४॥

 बृहच्छिलेति ॥ बृहति शिलेव निष्ठुरे कण्ठे घट्टनादभिघाताद्विकीर्णा विक्षिप्ताः लोलाश्चाग्निकणाः स्फुलिङ्गा यस्य तत् । अत एवाप्रसहिष्णु अनभिभावकम् । 'प्रसह- नमभिभवः' इति वृत्तिकारः । 'अलंकृञ्-' (३।२।१३६) इत्यादिना इष्णुच् । वैष्णवं चक्रं सुदर्शनं जगत्प्रभोः सकललोकैकस्वामिनः । अस्य सुरद्विषो रावणस्य कंधरायामधि अधिकंधरमधिग्रीवम् । विभक्त्यर्थेऽव्ययीभावः । 'अव्ययीभावश्च' (२।४।१८) इति नपुंसकत्वात् 'ह्रस्वो नपुंसके प्रातिपदिकस्य' (१।२।४७) इति ह्रस्वत्वम् । 'कण्ठो गलोऽथ ग्रीवायां शिरोधिः कंधरेत्यपि' इत्यमरः । नाक्रमता- प्रतिहतं न क्रमते स्म न प्रवर्तते स्म । किंतु प्रतिहतमेवेत्यर्थः । 'वृत्तिसर्गतायनेषु क्रमः' (१॥३॥३८) इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः ॥ ५४ ॥

विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः॥५५॥

 विभिन्नेति ॥ स रावणो मदेन दर्पण, इभदानेन च । 'मदो दर्पेभदानयोः’ इति विश्वः । दन्तीव गज इव विभिन्नो विघट्टितः शङ्खो निधिभेदः, कम्बुश्च येन सः सन्। 'शङ्खो निध्यन्तरे कम्बुललाटास्थिनखेषु च' इति विश्वः । अकलुषं

कलुषं क्षुब्धमाविलं च भवत् कलुषीभवत् । निरस्तं गाम्भीर्यमविकारित्वं, अगाधत्वं