पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५११

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७९
एकोनविंशः सर्गः ।

   पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
   आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥४७॥

 पुर इति ॥ तद्युद्धं पुरः प्रयुक्तैः गजादिभ्यः प्राक् प्रवर्तितैः । अन्यत्र गानात्पूर्वमुच्चारितैः चलितैः मण्डलचारिभिः । अन्यत्र मुहुरावर्तितैरित्यर्थः । लब्धशुद्धिभिः । कातर्यकपटादिदोषरहितैरित्यर्थः । अन्यत्रावृत्तैः । रागानुगुणैरित्यर्थः । पदातिभिः पत्तिभिः करणैः गान्धर्वं गानमालापैरालापिभिरिवाक्षरविशेषैरिवादीप्यताशोभत ॥ ४७ ॥

   केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
   प्रापे कीर्तिप्लुतमहीमण्डलाग्राऽनवद्यता ॥ ४८ ॥

 केनचिदिति ॥ स्वासिना स्वखङ्गेन अन्येषां मण्डलाग्रानवद्यता खण्डयता । द्यतेर्लटः शत्रादेशः । केनचिद्वीरेण कीर्तिप्लुतं यशोव्याप्तं महीमण्डलाग्रं भूपृष्टं यस्याः सा कीर्तिप्लुतमहीमण्डलाग्रा अनवद्यता अनिन्द्यता प्रापे प्राप्ता ॥ ४८ ॥

   विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
   परिवारात्पृथक्कक्रे खड्गश्चात्मा च केनचित् ॥ ४९ ॥

 विहन्तुमिति ॥ केनचिद्वीरेण विद्विषो विहन्तुं तीक्ष्णो निशितः परिच्छेत्ता च खड्गः सुसंहतेः सुघटितात्सुष्टु सङ्घीभूताच्च । परिवारात्कोशात्, परिजनाच्च । 'परिवारः परिजने खगकोशे परिच्छदे' इति विश्वः । सममेव पृथक् चक्रे उद्धृतः । आत्मा च पृथक् चक्रे विभक्तः । खड्गमुत्कृष्य स्वसैन्यान्निर्गत्यारिमध्ये पपातेत्यर्थः । अत्र खड्गात्मनोः प्रकृतयोः समानक्रियायोगात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ १९॥

   अन्येन विदधेऽरीणामतिमात्रा विलासिना ।
   उद्गूर्णेन चमूस्तूर्णमतिमात्राविलाऽसिना ॥५०॥

 अन्येनेति ॥ अन्येन वीरेण विलासिना विलसनशीलेन' उद्गूर्णेनोद्यतेन असिना खङ्गेन मात्रं मानमतिक्रान्तातिमात्रा अपरिमिता अरीणां चमू: सेना तूर्णं शीघ्रमतिमात्रमत्यन्तमाविला कलुषा अतिमात्राविला अत्याविला विदधे कृता ५०

   सहस्रपूरणः कश्चिल्लूनमूर्धाऽसिना द्विषः ।
   ततोर्ध्व एव काबन्धीमभजनर्तनक्रियाम् ॥५१॥

 सहस्रेति ॥ पृणातीति पूरणः । 'पॄ पालनपूरणयोः' कर्तरि ल्युट् । सहस्राणां

[* असाद्धातोर्ल्युटि इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' इति वार्तिकाद्गुणस्यैव न्याय्यत्वात् क्युन्युत्त्वेऽपि दीर्घस्याप्राप्रोश्चिन्त्यमिदम् । तस्मात् 'पूरी आप्यायने' इति धातुर्बोध्यः । अत एव 'पूरणी' इति पदव्याख्यायाम् 'पूरयति' इति स्वामिनोक्तम् ।

अत एव वल्लभेनापि 'पूर्धन्ते आप्यायन्ते' इति विवरणं कृतम् । ]