पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८०
शिशुपालवधे

पूरणः पालयिता पूरयिता सहस्रपूरणः सहस्ररक्षी सहस्रहन्ता वा कश्चिद्भटः । कबन्धस्तु सहस्रपूरणः सहस्रसंख्यापूरकः । सहस्रादेकः कबन्धो नृत्यतीति प्रसिद्धिः । असिना स्वासिना द्विषो लूनमूर्धा लूनशत्रुमूर्धा । सापेक्षत्वेऽपि गमकत्वात्समासः । कबन्धस्तु द्विषोऽसिना लूनमूर्धा तथा कबन्धवदेवोर्ध्व एव तिष्ठति । कबन्धस्येमां काबन्धी नर्तनक्रियामभजत् । विजयहर्षात्स्वयमपि कबन्धवन्ननर्तेत्यर्थः । अत एव सादृश्याक्षेपादसंभवद्वस्तुसंबन्धाख्यो निदर्शनाभेदः । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः ॥ ५ ॥

   शस्त्रव्रणमयश्रीमदलंकरणभूषितः ।
   ददृशेऽन्यो रावणवदलङ्करणभूषितः॥ ५२ ॥

 शस्त्रेति ॥ शस्त्रव्रणमयानि तद्रूपाणि । स्वार्थे मयट् । तैरेव श्रीमद्भिः शोभावद्भिरलंकरणैरलंकारैर्भूषितोऽलंकृतः । शस्त्रव्रणालंकृत इत्यर्थः । अन्यः कश्चित् , अविद्यमाना लङ्का यस्याः सा अलङ्केति बहुव्रीहिः । अत एव 'स्त्रियाः पुंवत्-' (६।३।३४) इत्यादिना पुंवद्भावः । सा रणभूश्च तस्यामुषितः स्थितो- ऽलङ्करणभूषितः । वसेर्निवासार्थात्कर्तरि क्तः 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । रावणवद्ददृशे दृष्टः । सर्वाङ्गीणव्रणभूषणत्वेन रावण एवायं लङ्कासंबन्धविरहात्तु व्यतिरेक इत्यर्थः । उपमाव्यतिरेकयमकानां संकरः ॥ ५२ ॥

   द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः ।
   सिक्तश्चास्रैभरूयथा बभूवारुणविग्रहः ॥ ५३ ॥

 द्विषदिति ॥ द्विषद्विशसनम् । 'निर्वापणं विशसनं मारणं प्रतिघातनम्' इत्यमरः । तस्मिंश्छेदेनारिशस्त्रप्रहारेण निरस्तमूरुयुगं यस्य सः अत एवात्रैरसृग्भिश्च सिक्तोऽपरो वीरः उभयथा उभाभ्यां प्रकाराभ्याम् । 'प्रकारे गुणवचनस्य' (८1१।१२) इति थाल् । अरुणस्यानूरोरिव अरुणोऽरुणवर्णश्च विग्रहो यस्य सोऽरुणविग्रहो बभूव । 'अरुणोऽर्कार्कसारथ्योररुणो लोहितेऽन्यवत्' इति विश्वः । अत्रोरुच्छेदास्रसिक्तयोर्विशेषणगत्योभयथारुणविग्रहभावहेतुत्वात्काव्यलिङ्गमुपमाश्लेषाभ्यां संकीर्यते ॥ ५३ ॥

   भीमतामपरोऽम्भोधिसमेऽधित महाहवे ।
   दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ ५४॥

 भीमेति ॥ अम्भोधिसमे सागरसदृशे महानाहवस्तस्मिन्महाहवे सम्यगेधितमहाः संवर्धिततेजाः अपरो वीरः दक्षप्रजापतेरयं दाक्षस्तस्मिन्दाक्षे हवे यज्ञे । 'हवो यज्ञे तथाह्वाने' इति विश्वः । समेधितमहाः संदीपिततेजाः शिवस्य कोप इव । वीरभद्र इवेत्यर्थः । भीमतां भयंकरतामधित धृतवान् । बिभ्यत्यस्मादिति भीमः । 'भियः षुग्वा' (उ० १४५) इत्यौणादिके मप्रत्यये भीमो भीष्मश्च 'भीमादयोऽपादाने' (३।४।७४) इति निपातनादपादानार्थता । उपमायमकयोः संसृष्टि ॥ ५४॥