पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८१
एकोनविंशः सर्गः ।

   दन्तैश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
   परनिस्त्रिंशनिक्षूनकरवालाः पदातयः ॥ ५५ ॥

 दन्तैरिति ॥ परेषां निस्त्रिंशैः खड्गै: निर्लनकरवालाः छिन्नखड्गाः पादाभ्याम- तन्तीति पदातयः पत्तयः । 'अज्यतिभ्यां पादे च' (उ० ५७०) इत्यौणादिक इण्, 'पादस्य पदाज्यातिगोपहतेषु' (६।३।५२) इति पदादेशः । कोपात् गजा इव प्रतिपक्षं शत्रुं दन्तैर्दशनैर्विषाणैश्च चिच्छिदिरे चिच्छिदुः ॥ ५५ ॥

   रणे रभसनिर्भिनद्विपपाटविकासिनि ।
   न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥५६॥

 रण इति ॥ रभसेन वेगेन 'रभसो वेगहर्षयोः' इति विश्वः । निर्भिन्नद्विपाः पाटितगजाः पाटविकानां पाटववतामसयो यस्मिन् । पाटवशब्दान्मत्वर्थीयष्ठ- क्प्रत्ययः । विकासिनि प्रवृद्धे तत्र तस्मिन् रणे गतभीर्निर्भीकः । अत एव कश्चित् कोऽपि न विपपाट न पाटयामास न पलायत । अत्र गतभीकत्वस्य विशेषण- गत्या अपलायनहेतुत्वात्काव्यलिङ्गम् । द्विपदलनेऽपि रणे निर्भीक इति विरो- धश्च यमकेन संसृज्यते ॥ ५६ ॥

   यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
   अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥ ५७ ॥

 यावादेति ॥ सत्कृतैः स्वस्वामिना पूर्वसंमानितैः । अत एव भर्तुः स्नेहस्य स्वामिप्रेम्ण आनृण्यमनृणत्वमिच्छुभिः । योधैरिति शेषः । युधि जीवितं यावन्न तत्यजे त्यक्तं तावदितरैरसत्कृतैरमर्षादसत्कारक्रोधाज्जीवितं तत्यजे । अथ वास्मान्पश्येति स्वामिनमुपालभ्य स्वयमेव प्राक्प्राणान्प्रजहुरित्यर्थः । सत्कारा- दिविशेषणोत्थकाव्यलिङ्गं सुगमम् ॥ ५७ ॥

॥ समुद्ग्यमकम् ॥

 अथैवंविधानां मरणस्यैव कर्तव्यतामुपपादयति-

   अयशोभिदुरालोके कोपधाम-रणादृते ।
   अयशोभिदुरा लोके कोपधा मरणादृते ॥ ५८ ॥

 अयश इति ॥ 'अयः शुभावहो विधिः' इति अयशोभी भाग्यवान् स चासदुरालोकस्तेजस्वित्वाद्दुर्दर्शश्चेति विशेषणसमासः । तस्मिन्नयशोभिदुरालोके कोपधाम कोपाश्रयः । कुपित इत्यर्थः । अथाप्यकोपे भीरुत्वापातात् । अत एव रणमादृतः रणादृतः । रणार्थीत्यर्थः । कर्तरि क्तः । कोपधाम चासौ रणादृतश्च तस्मिन् कीर्तिनिवर्तिका । 'विदिभिदिच्छिदेः कुरच्' । (३।२।१६२) उपधा उपायोमरणादृते । प्राणत्यागं विनेत्यर्थः । का । न कापीत्यर्थः । 'अन्यारादितरते-'(२।३।२९) इति पञ्चमी । अत्रायशोभित्त्वादीनां लोकविशेषणद्वारा तद्वर्तिना


शिशु० ४१