पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९९
विंशः सर्गः ।

 सत्त्वमिति ॥ भव्यः कल्याणमूर्तिः लब्धोऽघक्षयः शुद्धिश्च येन स लब्धावक्षयशुद्धिः श्रीवत्सस्य लाञ्छनविशेषस्य भूमिर्वक्षः सा उद्धुरतरा उन्नततरा यस्य स उद्धरतरश्रीवत्सभूमिः काममपास्तभी: निर्भीकः परे शत्रवस्त एव मृगास्तेषां व्याधः मृगयुरित्यश्लिष्टरूपकम् । 'व्याघो मृगवधाजीवो मृगयुर्लुब्धकोऽपि च' इत्यमरः । उदयी नित्याभ्युदयवान् । नित्ययोगे मत्वर्थीयः । स हरिः पुरः पूर्वं आजिरभसाद्रणरागात् मानविशिष्टमहंकारोद्धरं सत्त्वं बलमालम्ब्यास्थाय मुदा उत्साहेन हरेः सिंहस्य नादं मुक्त्वा । सिंहनादं कृत्वेत्यर्थः । समकालमेककालम् । अत्यन्तसंयोगे द्वितीया । एक ओघो येषां तैरेकोधैः एकप्रहारै रोपैरिषुभिरभ्रमाकाशं तदा तस्मिन्काले आतस्तरे आच्छादयामास । 'ऋच्छत्यॄताम्' (७४।११) इति गुणः । चक्रबन्धाख्यश्चित्रविशेषोऽलंकारः पूर्वोक्तरूपकेण संसृज्यते । चक्रबन्धोद्धारस्तु-दशमण्डलरेखात्मके नवमण्डलान्तरालवति चक्रे नाभिस्थानेन सहैकोनविंशतिकोष्ठं प्रत्येकं द्व्यक्षगतं पतित्रयं समरेखया लिखित्वा तत्रैकस्यां पतौ वामपार्श्वप्रक्रमेण आद्यपादमालिख्य तथा प्रादक्षिण्येन द्वितीयतृतीययोर्द्वितीयतृतीयौ लिखित्वा नेमिस्थाने बाह्यवलये साक्षरकोष्ठषट्केन सहाष्टादशकोष्टावति तृतीयपादान्तकोष्ठवर्तिवर्णमारभ्य प्रादक्षिण्येन चतुर्थपादं लिखित्वा तत्रैव समापयेत् । तत्र तत्राद्यन्तवर्णैः सह चतुर्थपादोद्धारः । तत्र नाभिस्थाने आद्यपादत्रयदशमाक्षरसंवादः । तृतीयान्तकोष्ठे चतुर्थाद्यन्तवर्णयोः संवादः । तृतीयवलये 'माघकाव्यमिदं' षष्ठे 'शिशुपालवधः' इति कविकाव्यनामोद्धारः । शार्दूलविक्रीडितं वृत्तम् ॥ १२० ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवधकाव्यव्याख्यायां
सर्वकषाख्यायां एकोनविंशतितमः सर्गः ॥१९॥


विंशः सर्गः।

 अथ हरिशिशुपालयोयुद्धं वर्णयितुमुपोद्धातं करोति-

 मुखमुल्लसितत्रिरेखमुचैर्भिदुरभ्रूयुगभीषणं दधानः ।
 समिताविति विक्रमानमृष्यन्गतभीराहत चेदिराण्मुरारिम् ॥१॥

 मुखमिति ॥ इतीत्थं समितावाजौ । 'समित्याजिसमिद्युधः' इत्यमरः । विक्रमान्मुरारेः पराक्रमान् अमृष्यन्नसहमानः अत एव तिस्रो रेखास्त्रिरेखाः । 'दिक्संख्ये संज्ञायाम्' (२।१५०) इति समासः । ता उल्लसिताः क्रोधादुद्भूता यस्मिंस्तदुल्लसितत्रिलेखम् । क्वचित् 'त्रिलोकम्' इत्यपि पाठः । तथा भिदुरेण ग्रन्थिलेन भूयुगेन भीषणं भयंकरं उच्चैरुन्नतं मुखं दधानः चेदिषु राजते