चेदिराट् । संपदादिभ्यः क्विप् । यद्वा चेदीनां राट् चेदिराट् । 'अन्येभ्योऽपि दृश्यते' (३।२।१७८) इति क्विप् । 'राजा राट् पार्थिवः क्ष्माभृत्' इत्यमरः । गतभीर्निर्भीकः सन् मुरारि हरिं आह्वत । अयमहं क्वासि मामभ्युपैहि इति स्पर्धया अमर्षादाकारयामासेत्यर्थः । विनाशकाले विपरीतबुद्धेर्दुर्वारत्वादिति भावः । 'स्पर्धायामाङः' (१॥३॥३१) इति ह्वयतेर्लुङि 'आत्मनेपदेप्वन्यतरस्याम्' (३।१।५४) इति च्लेरङादेशः । अत्रामर्षस्य विशेषणगत्या आह्वानहेतुत्वात्काव्यलिङ्गम् । सर्गेऽस्मिन्नौपच्छन्दसिकं वृत्तम् । वैतालीये गुर्वाधिक्यात् । तदुक्तं 'वैतालीयं द्विःस्वरा अयुक्पादे युग्वसवोऽन्ते गः', 'गौपच्छन्दसकम्' इति ॥१॥
शितचक्रनिपातसंप्रतीक्षं वहतः स्कन्धगतं च तस्य मृत्युम् ।
अभिशौरि रथोऽथ नोदिताश्वः प्रययौ सारथिरूपया नियत्या २
शितेति ॥ अथ आह्वानानन्तरं शितचक्रनिपातं शितसुदर्शनप्रहारं संप्रतीक्षत इति शितचक्रनिपातसंप्रतीक्षम् । ईक्षतेः कर्मण्यण् । स्कन्धगतं मृत्युं वहतः तस्य चैद्यस्य रथः सारथिरूपया नियत्या विधिनेति रूपकम् । 'भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । नोदिताश्वः प्रेरिताश्वः सन् अभिशौरि शौरिमभि । आभिमुख्येऽव्ययी- भावः । 'अव्ययादाप्सुपः' (२।४।८२) इति सुपो लुक् । प्रययौ प्रतस्थे ॥२॥
अभिचैद्यमगाद्रथोऽपि शौरेवनि जागुडकुङ्कुमाभिताः ।
गुरुनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥ ३ ॥
अभीति ॥ अथ शौरेः कृष्णस्य रथोऽपि जागुडो देशविशेषः, तत्र यत्कुङ्कुमं तद्वदभिताम्रररुणैरित्युपमा । यावकेति पाठे यावकश्च कुङ्कुमं च ताभ्यामभि- ताम्ररित्यर्थः । गुरूणां नेमीनां चक्रधाराणां निपीडनेन नोदनेनावदीर्णेभ्यो व्यसूनां विगतप्राणानां देहेभ्यः स्रुतैः शोणितैरसृम्भिरवनिं विलिम्पन्नुपदिहानः सन् अभिचैद्यं चैद्यमभि । समासो व्यासो वा विकल्पात् अगात् । 'इणो गा लुङि' (२०४५) इति गादेशः ॥३॥
स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।
विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः वयं नु मृत्युः॥४॥
स इति ॥ निरायतोऽतिदीर्घः केतनांशुकान्तः ध्वजपटाञ्चलो यस्य सः कलनिक्वाणैः मधुरस्वरैः करालाः कुशलाः प्रगल्भाः किङ्किण्यः क्षुद्रघण्टिका यस्य स तथोक्तः । 'नवृतश्च' (५।४।१५३) इति कप् । 'किङ्किणी क्षुद्रघण्टिका' इत्यमरः । स कृष्णस्य रथः रिपुक्षयस्य शिशुपालवधस्य प्रतिज्ञया मुखरो वाचालः अत एव मुक्तशिखो मुक्तकेशः विरराज । नाहमेनमहत्वा शिखाबन्धं करिष्यामी- त्युद्धोषयन्नित्यर्थः । स्वयं साक्षान्नु मृत्युरन्तकः किमित्युत्प्रेक्षा ॥ ५ ॥
सजलाम्बुधरावानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।
प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयांबभूवे ॥५॥