पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

शिशुपालवधे महत्सद्मेव सदनमिवेत्युत्प्रेक्षा । समं युगपत्समन्तात्तेने । कृतमित्यर्थः । तनोते: कर्मणि लिट् ॥ १६ ॥ इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य । वयसामिव चक्रमक्रियाकं परितोऽरोधि विपाटपञ्जरेण ॥१७॥ इतीति ॥ इतीत्थं चेदिमहीभृता चैद्येन तदानीं तत्काले दनुसूनुसूदनस्य दानवान्तकस्य हरेस्तदनीकं बलम् । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । वयसां चक्रं पक्षिसङ्घ इव अक्रियाकं निश्चेष्टं यथा तथा विपा- टयन्तीति विपाटाः शराः । पचाद्यच् । तैरेव पारेण परितः सर्वतः अरोधि रुद्धम् । रुधेः कर्मणि लुङ् । उपमा ॥१७॥ इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषकैः । अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥१८॥ इष्विति ॥ अथानीकरोधनानन्तरं एकवीरो महाशूरोऽच्युतो हरिररिप्रच्युतं शत्रुगलितं तदनेकमपरिमितमिषुवर्ष पृषकैर्बाणैः वादिकृतं वादिना प्रयुक्तं प्रमाणमनुमान अन्यैः प्रमाणैः प्रत्यनुमानैः प्रतिवादीव निराकरोत् । 'इवेन सह समासो विभक्त्यलोपश्च' इति समासात्समासगता श्रौती पूर्णोपमा ॥ १० ॥ प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् । ध्वनति स धनुर्धनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ।। १९ ॥ प्रतीति ॥ प्रतिकुञ्चितकूपरेण कुञ्चितकफोणिना । 'स्यात्कफोणिस्तु कूर्परः' इत्यमरः । तेन हरिणा श्रवणोपान्तिकं नीयमाना आकृष्यमाणा गव्या ज्या यस्य तत् । 'गव्यं गवां हिते गव्या ज्यायां क्षीरादिके त्रिषु' इति विश्वः । धनुः शार्ङ्गं घनान्ते शरदि ये मत्ताः प्रचुरा भूरयः क्रौञ्चास्तेषां रवमनुकरोतीति तदनुकारम् क्रौञ्चकूजितसदृशं यथा तथेत्यर्थः । 'कर्मण्यण्' । (३।२।१) उच्चैस्तारं ध्वनति स दध्वान । 'लट् स्मे' (३।२।११८) इति भूते लट् । स्वभावोक्त्युपमयोः संकरः॥१९॥ उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् । क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥२०॥ उरसेति ॥ तदानीं धनुष्कर्षणसमये विततेन विस्तारितेनोरसा उपलक्षितः पातितांसो नमितस्कन्धः मयूरवदञ्चितं मनोहरं मस्तकं यस्य सः । उन्नमितमूर्धेत्यर्थः । स्थिरौ दृढौ पूर्वापरौ अग्रिमचरमौ मुष्टी गृहीतलस्तकमौर्वीकौ पाणी यस्य स हरिः । सुष्टु भावः सौष्ठवं तेन सौष्ठवेन स्थानकपाटवेन हेतुना क्षणमालिखितो नु लिखित इव आबभौ वा बभासे किम् । नुशब्दो वितर्कार्थे । 'नु पृच्छायां वितर्के च' इत्यमरः । वाशब्दोऽपि तादृश इत्युत्प्रेक्षालंकारोऽयम् ॥२०॥ ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः ।

-