पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१४
विंशः सर्गः ।

विंशः सर्गः। खचरैरिति ॥ खे चरन्तीति खचरैर्वैनतेयैः । चरेष्टः 'तत्पुरुषे कृति बहु- लम्' (६।३।१४) इति लुग्विकल्पः । अक्षये अनन्ते अहिसैन्ये सर्पसङ्घे सुकृतैः हरिस्मरणादिपुण्यैर्दुष्कृतवद्ब्रह्महत्यायेनोवत् । 'तत्र तस्येव' (५।१।११६) इति तत्रार्थे वतिप्रत्ययः । क्षयमुपनीते नाशं गमिते सति तदा तत्काले रुषा पौरुषवैफल्यरोषेण अयुगार्चिः सप्ताचिरिव ज्वलन्दीप्यमानः असौ रिपुश्चैद्यः । उदर्चिष इममौदर्चिषम् आग्नेयं मन्त्रमाजुहाव आहूतवान् । जजापेत्यर्थः । ह्वयतेर्लिद । 'अभ्यस्तस्य च' (६।१॥३३) इति द्विर्वचनात्प्रागेव संप्रसारणम् । दुष्कृत वदिति तद्धितगता श्रौती पूर्णोपमा ॥ ५९॥ सहसा दधदुद्धताट्टहासश्रियमुत्रासितजन्तुना खनेन । विततायतहेतिवाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥६०॥ सहसेति ॥ अथाग्नेयास्त्राद्वानानन्तरम् उत्रासितजन्तुना भीषितप्राणिकेन स्वनेन ध्वनिना उद्धताट्टहासश्रियं महाट्टहाससंपदं दधत् तेनैवाट्टहासवान् । तत्तुल्यनादवानित्यर्थः । वितताः प्रसारिताः आयता दीर्घाः हेतयो ज्वाला बाहव इव हेतिबाहवो यस्य स वह्नितालो भूतविशेषः स इव सहसा झटिति उच्चैरूर्ध्वमुत्पपात उत्तस्थौ । उपमा ॥ ६० ॥ चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः । द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥ ६१॥ चलितेति ॥ चलितश्चलंश्च उद्धत उन्नतश्च धूम एव केतनं केतुर्यस्य स रभसाद्वेगादम्बररोहिणो रोहिता वाहनमृगा अश्वा इव यस्य सः द्रुतमारुताः शीघ्रवाता एव सारथिर्यस्य सः कनकस्यन्दनसुन्दरः कनकद्रववगम्य इत्युपमा । असौ शिखा ज्वाला अस्य सन्तीति शिखावानाशुशुक्षणिश्चचाल ॥६१ ॥ ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् । परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥ ६२ ॥ ज्वलदिति ॥ जातं वेदो धनं यस्माजातवेदास्तनूनपात् । अम्बरं कोटरमिव तस्यान्तरालमभ्यन्तरं ज्वलद्यस्य तत् । बहुलाः सान्द्रा आर्द्राम्बुदाः पत्राणीव तेषु बद्धधूमम् । परिदीपिताः प्रज्वलिताः काष्ठा दिशः काष्टानीव यस्य तदुच्चै- रुन्नतं विश्वं जगत् । तरुणा तुल्यं तरुवत् । तरुमिवेत्यर्थः । तुल्यार्थे वतिप्रत्ययः । उवोष ददाह । 'उष दाहे' लिट् । लघूपधगुणे पश्चाविर्भावः । 'अभ्यासस्यासवर्णे ' (६।४७८) इत्युवडादेशः अनादिष्टादच इति गुणस्य स्थानिवत्वाभावात् । तरुवदिति स्पष्टोपमालिङ्गात् । सर्वत्रोपमितसमासः ॥ ६२ ॥ गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालमकृशानुताम्रभासः । स्वमसारतया मषीभवन्तः पुनराकारमवापुरम्बुवाहाः ॥ ६३ ॥ गुर्विति ॥ गुरुतापेनातिदाहेन विशुष्यदम्बवः क्षीयमाणोदकाः अत एव शुभ्राश्चेति विशेषणसमासः। ततः क्षणमालग्नेन कृशानुना ताम्रभासो लोहितवर्णाः

पाठा०-१ "उच्छूित'.