पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१९
विंशः सर्गः ।

विंशः सर्गः। संतापितस्तापं प्रापितः स चासौ पायितः पानं कारितः । पिबतेर्ण्यन्तात्कर्मणि क्तः । 'शाच्छासाह्वाव्यावेपां युक्' (७।३।३७) इति युगागमः । तस्य तापितपायितस्य तप्तसिक्तस्यासेः खड्गस्य लक्ष्मी प्रपेदे प्रापे । इति निदर्शनालंकारः अम्बुधरव्रणेति रूपकसंकीर्णः ॥ ७५ ॥ इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् । भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ ७६ ॥ इतीति ॥ इतीत्थं क्षिप्रं करोतीति क्षिप्रकारी शीघ्रप्रयोक्ता, अन्यत्र विकारकारी नरपतिश्चैद्यः प्रकुपितः प्रक्षुभितः सन् यद्यदस्वमाविश्वकार रोगो विकारमिव अथ क्रमवित्परिपाटीवेदी मुरारिभिषग्वैद्य इव गुरुदोषच्छेदिना गुरुदोषप्रतिघातकेन दोषपनिवर्तकेन चोपक्रमेणोपायेन । प्रत्यस्वप्रयोगेणेत्यर्थः । अन्यत्र महौषधप्रयोगेण तत्तदत्रं आशु शीघ्रम् । तद्विकारमिवेति भावः । प्रत्यहन् प्रतिजघान । हन्तेर्लङ् अदादित्वाच्छपो लुक् 'हल्याप्' (६।१।६८) इति लोपः । उपमा ॥ ७६ ॥ शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् । मर्मातिगैरनृजुभिर्नितरामशुद्धै- र्वाक्सायकैरथ तुतोद तदा विपक्षः ॥ ७७॥ शुद्धिमिति ॥ तदा तस्मिन्समये विपक्षोऽरिश्चैद्यः परामुत्कृष्टां शुद्धिं लोहशुद्धिं गतैर्ऋजुभिरप्यविघट्टितमर्मभिरस्पृष्टमर्मस्थानः तं हरिमजय्यं जेतुमशक्यम् । क्षय्यजय्यौ शक्यार्थे' (६।१८१) इति निपातः । विदित्वा । अथास्मिन्नवसरे मर्माणि अतिगच्छन्तीति मर्मातिगैर्मर्मभेदिभिरनृजुभिर्वक्रैः नितरामशुद्धैरपवित्रैः वाच एव सायकास्तैः वाक्सायकैरिति रूपकम् । तुतोद व्यथयामास । चक्रप्रयोगस्यायमुपोद्धात इति भावः । अत्र वाक्सायकानां प्रसिद्धसाधनव्यतिरेकोक्तेर्व्यतिरेकरूपकयोः संकरः । वसन्ततिलका वृत्तम् ॥ ७७ ॥ राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन- व्यापारकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा । तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानल- ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥७८॥ राह्विति ॥ येन चक्रेण सहसा झटिति अश्लथो दृढो य आलिङ्गनव्यापारः स एव एको मुख्यः । 'एके मुख्यान्यकेवलाः' इत्यमरः । विनोदस्तत्र दुर्ललितयोलोलुपयो

राहुस्त्रीस्तनयो राहुरमणीकुचयोः कार्कश्यलक्ष्मीः काठिन्यशोभा वृथा