पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२०
शिशुपालवधे

५२० शिशुपालवधे व्यर्था अकारि कृता । शिरोमात्रावशेषितस्य राहोरालिङ्गनसुखासंभवादिति भावः । मुरजिद् हरिः तत्काले तस्मिन्समये लोलाभिश्चञ्चलाभिरनलज्वालाभिर- ग्निदीप्तिभिः पल्लवितेन संजातपल्लवेन । तारकादित्वादितच् । तेन चक्रेण आक्रो- शत एव शपमानस्यैव तस्य शिशुपालस्य वपुर्मूर्धविकलं शिरोहीनं चक्रे चकार । शिरश्चिच्छेदेत्यर्थः । कर्तरि लिट् । राहोः शिरो वपुर्विकलमकारि, अस्य तु वपुः शिरोविकलं कृतमिति तात्पर्यम् । अत्र चक्रवर्णनेऽप्रस्तुतादाहुस्त्रीकुचकार्कश्य- वर्णनात् 'प्रस्तुतत्वेन संबन्धस्तत्पर्यायोक्तमुच्यते' इति पर्यायोक्तम् ॥ ७८ ॥ श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षै- र्वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय । प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विसिताक्षै- र्नरेन्द्ररौपेद्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥ ७९ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के शिशु- पालवधो नाम विंशतितमः सर्गः ॥२०॥ श्रियेति ॥ अथ शिरश्छेदानन्तरं श्रिया शोभया जुष्टं सेवितं दिव्यैर्दिवि भवैः सपटहरवैः सदुन्दुभिघोषैः पुष्पवर्षैरन्वितं क्षणम् । ऋषिगणैः स्तूयमानं तथा चैद्यस्य वपुष्टः शरीरतः । पञ्चम्यास्तसिल । निरीय निर्गत्य । 'इण् गतौ' इति धातोः 'समासेऽनञ्पूर्वे क्त्वो ल्यप् (७।१।३७) प्रकाशेन आकाशे दिन- करकरानकरश्मीन् विक्षिपत् उपेन्द्रस्येदमौपेन्द्रं वपुर्हरेविग्रहं विशत् प्रविशत् धाम शिशुपालतेजो विस्मिताक्षैर्विकसितनयनैनरेन्द्रै राजन्यैः वीक्षांबभूवे ईक्षि- तम् । ईक्षतेः कर्मणि लि़्ट् । 'इजादेश्च गुरुमतोऽनृच्छः' (३।१॥३६) इत्याम् । 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इति भुवोऽनुप्रयोगः 'भावकर्मणोः' (१॥३॥ १३) इत्यात्मनेपदम् । अत्र भगवान्व्यासः-'ततश्चेदिपतेर्दैहात्तेजोऽयं ददृशे नृपैः । उत्पपात यदा राजन् तदा तेजो विवेश च ॥ दिवि सूर्यसहस्रस्य भवेद्युग- पदुत्थिता । यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः ॥' (महाभारते सभा० अध्या० ४५) इति । एतेन भगवद्वपुषोऽपि तदासक्तवचनसा (2) तारक इत्यनुसंधेयम् । यदाह नारदः-'कामाद्गोप्यो भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । संबन्धादृष्णयः स्नेहाद्यूयं भक्त्या वयं प्रभो ॥' इति । सूर्यसहस्राभिभाविनः शिशुपालतेजसो हरिशरीरप्रवेशवृत्तान्तस्यालौकिकस्याद्भुतस्य प्रत्यक्षलक्ष्यमाणत्वा- भाविकालंकारः । तदुक्तम्-'विनापराधेन कृतार्थक(?)पिना भाविकं तदुदाहृ- तम्' इति । मेघविस्फूर्जिता वृत्तम् । 'रसर्त्वश्वैर्य्यौ न्सौ ररगुरुयुतौ मेघविस्फू- र्जिता स्यात्' इति लक्षणात् ॥ ७९ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवधकाव्यव्याख्याने

सर्वकषाख्ये शिशुपालवधो नाम विंशतितमः सर्गः ॥ २० ॥