पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२२
शिशुपालवधे

५२२ शिशुपालवधे गुणग्राहि गुणग्राहकं वचः प्रतीये वचनं प्रतिपन्नमङ्गीकृतं भवति । सत्यं गुणिनः पुरुषा (?) भगवता कृष्णद्वैपायनेन पार्थस्याधिकार्यस्य वचनं किंचिदुक्तम् । अत्र च दत्तकोऽयं निखिलगुणभाजनं निदर्शनम् । अन्यथा कथमेवंगुणोऽयं स्यात् । क्षमीति शमादित्वाध्दिनुण् । व्यासस्येदं वैयासं वचो भारतम् । वृद्धायभवादित्वादन्यत्र नरस्यासुलभः (?) । गुणान्गृह्णातीति गुणग्राहि । आख्यानकी वृत्तम् ॥३॥

सर्वेण सर्वाश्रय इत्यनिन्धमानन्दभाजा जनितं जनेन ।
यश्च द्वितीयं स्वयमद्वितीयो मुख्यः सतां गौणमवाप नाम ॥ ४॥

 सर्वेणेति ॥ यश्च दत्तकः स्वयमात्मना सर्वाश्रय इत्येवंभूतं नाम संज्ञान्तरम- वाप लेभे । किंलक्षणं द्वितीयं नाम । सर्वेणाखिलेन जनेन लोकेन आनन्दभाजा तुष्टेन सता जनितं कृतम् । अपरं किंलक्षणं नाम । गौणं गुणप्रवृत्तिनिमित्तभूतमागतमर्थानुगम् । सर्वेषामाश्रयत्वात् । यथा हि सर्वे तत्र द्विजदीनानाथातिथिमित्रबान्धवा विश्राम्यन्ति तथासौ सर्वाश्रयः । न तु तैलपायिकावन्नाममात्रेण । अत एवानवद्यमनिन्धं प्रशस्यं श्लाघ्यम् । किंलक्षणो यः । अद्वितीयः सर्वोत्कृष्टः । अविद्यमानो गुणादधिको गुणो यस्य (?) सोऽद्वितीयः इति कृत्वा । तथा सतां मुख्यः प्रधानोऽग्रणीः । सर्वं त्वेतद्विरुद्धमिवावभासते । तथा हि- हि द्वितीयं नाम विद्यते कथमसावद्वितीयो भवेत् । यश्च मुख्यः स कथं गौणमप्रधानं स्यात् । यस्य च लोकैरपरं नाम जनितं स कथं तत्स्वयं लेभे । अविरोधस्तु मुख्यः स्यादेव । इति नामस्वरूपमात्रावस्थाप्यमानस्य सर्वाश्रयस्य प्रातिपदिकार्थमात्रे सति कर्मत्वाभावाद्वितीयानुपपत्तिः । मुखमिव मुख्यः । 'शाखादिभ्यो यत्' । (५।३।१०३) विरोधालंकारः । इन्द्रवज्रा वृत्तम् ॥ ४ ॥

श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म
 लक्ष्मीपतेश्चरितकीर्तनमात्रचारु ।
तस्यात्मजः सुकविकीर्तिदुराशयादः
 काव्यं व्यधत्त शिशुपालवधाभिधानम् ॥५॥

 श्रीशब्देति ॥ तस्य दत्तकस्यात्मजोऽपत्यमद एतत्काव्यं शिशुपालवधाभिधानं शिशुपालवधनामकं काव्यं ग्रन्थरूपं व्यधत्तारचयत् । शिशुपालवध इत्यभिधानं यस्य तत्तथा । केन हेतुना । सुकविकीर्तिदुराशया । सुकवीनां श्रेष्ठविदुषां वर- रुचि-सुबन्धु-सोमनाथ-भवभूति-क्रीडानन्द-कालिदास-बिह्लण-भारवि-बाण-मयूरादीनां या कीर्तिः ख्यातिर्यशस्तत्र या दुराशा दुरभिलाषस्तया । महाकविकीर्तिलिप्सयेत्यर्थः । दुष्टत्वं त्वाशायाः स्वल्पबुद्धित्वेन सुकविकीर्तेरप्राप्यत्वात् । तथा

च कालिदासः-'मन्दः कवियशःप्रार्थी गमिष्यास्युपहास्यताम् । प्रांशुलभ्ये