पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
प्रथमः सर्गः ।

प्रतीयते ज्ञायत इति प्रतिपूर्वादिणः कर्मणि लट् । यथैक एव शैलूषो रूपान्तमास्थाय तद्देशभाषादिभिरन्य एव प्रतीयते तद्वदयमपि मानुषदेहपरिग्रहादन्य इव भाति । दौर्जन्यं तु तदेवेत्यवश्यं संहार्य इति भावः ॥ ६९॥

 अथैतद्दौर्जन्यं त्रिभिराविष्करोति-

स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥७॥

 स बाल इति ॥ स शिशुपालो बालः सन् वपुषा चतुर्भुजो भुजचतुष्टयवानासीत् । विष्णुरिति ध्वनिः । मुखेन पूर्णेन्दुनिभस्तत्तुल्यः त्रिलोचनो लोचनत्रयवानासीत् । त्र्यम्बक इति ध्वनिः। बालविशेषणात्संप्रति तत्सर्वमन्तर्हितमिति भावः। संप्रति तु युवा सन् करेण बलिना आक्रान्तमहीभृदधिष्ठितराजकः सन् । अन्यत्रांशुव्याप्तशैलः । 'बलिहस्तांशवः कराः' इत्यमरः । उच्चकैस्तेजसा रविरसंश- यम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । वपुषा मुखेन चेति । 'येनाङ्गविकारः' (२।३।२०) इति तृतीया। हानिवदाधिक्यस्यापि विकारत्वात् । तथा च वामनः-'हानिवदाधिक्यमप्यङ्गविकारः' इति । तेजसेति 'प्रकृत्यादिभ्य उपसंख्यानम्' (वा०) इति तृतीया। कराक्रान्तेत्यादिना श्लेषानुप्राणितेयमुत्प्रेक्षा । रविरसंशयमिति तस्य पूर्णेन्दुनिभ इत्युपमया संसृष्टिः। हरिहरादितुल्यमहिमत्वादतिदुर्धर्षः स इति भावः ॥ ७० ॥

स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान् हसत्यसौ ॥७१॥

 स्वयमिति ॥ यदृच्छया स्वेच्छया स्वयं सामर्थेन । न तु देवताप्रसादबलादिति भावः । सुरदैत्यरक्षसां देवदानवयातुधानानां अनुग्रहावग्रहयोः प्रसादनिग्रहयोर्विधाता कर्ता असौ शिशुपालः अभिराद्धाभिराराधिताभिः, देवताभिरीश्वरादिभिः वितीर्णो दत्तो वीर्यातिशयः प्रभावातिशयो येषां तान् दशाननादीन् हसति ।अनन्यप्रसादलब्धैश्वर्ये मयि कथं याचकैस्तुल्यतेति गर्वात् हसतीत्यर्थः ॥ ७१ ॥

बलावलेपादधुनापि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि।।७२॥

 बलेति ॥ जिगीषुणा । नित्योत्साहवतेत्यर्थः । तेन शिशुपालेन बलावलेपाद्वलगर्वादधुनापि पूर्ववत् पूर्वजन्मनीव जगत् प्रबाध्यते । तथा हि-सती पतिव्रता योषिदिव सुनिश्चलाऽतिस्थिरा प्रकृतिः स्वभावो भवान्तरेषु जन्मान्तरेष्वपि पुमांसमभ्येति । 'पति या नाभिचरति मनोवाक्कायसंयता। सा भर्तुर्लोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥' इति मनुः (५।६५)। उपमोपमेयपुरस्कृतोऽर्थान्तरन्यासः॥७२॥

तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् ।
शुभेतराचारविपक्रिमापदो निपातनीया हि सतामसाधवः ॥७३॥

 तदेनमिति ॥ तत्तस्मात् विधेर्विधातुरप्युल्लङ्घितशासनम् । स्वयं विधातेत्याद्युक्त

पाठा०-१ 'विपादनीयाः'.