पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
शिशुपालवधे

रीत्यातिक्रान्तदैवशासनमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात् समासः । एनं शिशुपालं कीनाशनिकेतनातिथिं कीनाशो यमः तस्य निकेतनं गृहं तत्र अतिथिं प्राघुणिकं विधेहि कुरु । यमगृहं प्रेषयेत्यर्थः । 'कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः' इति विश्वः । न चैतत् प्राघुणिकहस्तेन सर्पमारणं भवादृशामवश्यकर्तव्यत्वादित्याह-शुभेतराचारेण दुराचारेण विपक्रिमाः परिपाकेन निर्वृत्ताः कालपरिपाकेन प्राप्ता आपदो येषां ते तथोक्ताः । 'ड्वितः क्रिः' (३।३।८८) इति पचेः क्रिप्रत्ययः । 'क्रेर्मम्नित्यम्' (वा०) इति तद्धितो मम्प्रत्ययः । असाधवो दुष्टाः सतां भवादृशां जगन्नियन्तॄणां निपातनीयाः वध्या हि । न च नैर्घृण्यदोषः ।स्वदोषेणैव तेषां विनाशे निमित्तमात्रत्वादस्माकमित्याशयेन शुभेतराचारेत्यादिविशेषणोक्तिः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ७३ ॥

 किंचैवं दुष्टनिग्रहे शिष्टानुग्रहः स्यादित्याह-

हृदयमरिवधोदयादुदूढद्रढिम दधातु पुनः पुरन्दरस्य ।
घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥७४॥

 हृदयमिति ॥ अरिवधोदयात् रिपुनाशलाभात् । उदूढद्रढिम नैश्चिन्त्याद्धृतदार्ढ्यम् । स्वस्थमिति यावत् । पृथ्वादित्वाद्दृढशब्दादिमनिच्प्रत्ययः । 'र ऋतो हलादेर्लघोः' (६।३।१६१) इति ऋकारस्य रेफादेशः । पुरः शत्रुपुराणि दारयतीति पुरन्दर इन्द्रः । 'पू:सर्वयोर्दारिसहोः' (३।२।४१) इति खच्प्रत्ययः। 'खचि ह्रस्वः' (६।४।९४) इत्युपधाह्रस्वः। 'वाचंयमपुरंदरौ च' (६॥३६९) इति निपातनाददन्तत्वं मुमागमश्च । तस्य हृदयं पुनर्भूयोऽपि । पूर्ववदेवेति भावः । घनपुलकयोः सान्द्ररोमाञ्चयोः । पुलोम्नो जाता पुलोमजा शची तस्याः कुचाग्रयोः द्रुतपरिरम्भ औत्सुक्यात् शीघ्रालिङ्गनं तत्र यत्पीडनं तस्य क्षमत्वं सहत्वं दधातु । प्राक्चित्तविक्षेपात्त्यक्तभोगेन शक्रेण संप्रति त्वत्प्रसादान्निष्कण्टकं स्वकीयं राज्यं भुज्यतामित्यर्थः । अत्र दार्ढ्यपदार्थस्योदूढद्रढिमेति विशेषणगत्या निपीडनक्षमत्वं प्रति हेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गम् । हृदयनिपीडनक्षमत्वसंबन्धेऽप्यसंबन्धोक्त्या संबन्धेऽसंवन्धरूपातिशयोक्तिरित्यर्थालंकारो वृत्त्यनुप्रासश्च तैरन्योन्यं संसृज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ७४ ॥

 ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
  स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं विभ्रति ।
 शत्रूणामनिशं विनाशपिशुनः कुंद्धस्य चैद्यं प्रति
  व्योम्नीव भ्रुकुटिच्छलेन वदने केतुश्चकारास्पदम् ॥७५ ॥

 ओमिति ॥ तस्मिन्सुरमुनौ नारदे इति इत्थंभूतां वाचं व्याहृत्योक्त्वा नभ उत्पतिते खमुद्गते पुरोऽग्रे इन्दोः श्रियं बिभ्रति सति । अथ मुनिवाक्यानन्तरम् ओमित्युक्तवतः तथास्त्वित्यङ्गीकृतवतः । 'ओम् प्रश्नेऽङ्गीकृतौ रोषे' इति विश्वः। चेदीनां

पाठा०-१ दुपोढ', 'दवाप्त'. २ 'कर्तुं मतिं संयति', 'कर्तुं मतिं संयुगे'.

-