पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
द्वितीयः सर्गः ।

जनपदानामयं चैद्यः शिशुपालः । 'वृद्धेत्कोसलाजादाञ्ञ्यङ्' (४।१।१७१) इति ञ्यङ्प्रत्ययः । तं प्रति क्रुद्धस्य शार्ङ्गिणो वदने व्योम्नीवानिशं सर्वदा । अव्यभिचा- रेणेत्यर्थः । शत्रूणां विनाशस्य पिशुनः सूचकः । 'चन्द्रमभ्युत्थितं केतुः क्षितीशानां विनाशकृत्' इति शास्त्रादिति भावः । केतुः उत्पातविशेषः । केतुर्द्युतौ पताकायां ग्रहोत्पातारिलक्ष्मसु' इत्यमरः । भ्रुकुटिच्छलेन भ्रूभङ्गव्याजेनास्पदं प्रतिष्ठां स्थितिं चकार । 'आस्पदं प्रतिष्ठायाम्' (६।१।१४६) इति निपातनात् सुडागमः । अनेन वाक्यार्थभूतस्य वीररससहकारिणो रौद्रस्य स्थायी क्रोधः स्वानुभावेन भृकुट्या कारणभूतोऽनुमेय इत्युक्तम् । तथा तदविनाभूतस्याङ्गिनो वीरस्य स्थायी प्रयत्नोपनेय उत्साहोऽप्युत्पन्न एवेत्यनुसंधेयम् । इन्दोः श्रियं बिभ्रतीत्यत्र मुनेरिन्दु- श्रियोऽयोगात्तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धरूपो निदर्शनालंकारः । वदने व्योम्नीवेत्युपमा । भ्रुकुटिच्छलेन केतुरिति छलादिशब्देनासत्यत्वप्रतिपाद- नरूपोऽपह्नवः । तत्र शत्रुविनाशसूचके त्वपेक्षितेन्दुसान्निध्यव्योमावस्थानसंपाद- कत्वे निदर्शनोपमयोरपह्नवोपकारसत्वादङ्गाङ्गिभावेन संकरः । चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु श्रीशब्दप्रयोगः । यथाह भगवान् भाष्य- कारः-'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते, वीरपुरुषा- ण्यायुष्मत्पुरुषाणि च भवन्ति, अध्येतारश्च प्रवक्तारो भवन्ति' इति । शार्दूल- विक्रीडितं वृत्तम् । 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्ष- णात् । सर्गान्तत्वात् वृत्तभेदः । यथाह दण्डी–'सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसंधिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जकम् ॥' इति ॥ ७५ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये कृष्ण-
नारंदसंभाषणं नाम प्रथमः सर्गः ॥१॥

 अथ कविः कविकाव्यवर्णनीयाख्यानपूर्वकसर्गसमाप्तिं कथयति-इतीति ॥ इतिशब्दः समाप्तौ । माघकृताविति कविनामकथनम् । महाकाव्ये इति महच्छ- ब्देन लक्षणसंपत्तिः सूचिता । शिशुपालवध इति काव्यनामकथनम् । प्रथमः सर्ग इति समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये प्रथमः सर्गः ॥ १ ॥


द्वितीयः सर्गः ।

 अस्मिन्सर्गे मन्त्रवर्णनाय बीजं वपति-

  यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
  अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥१॥

पाठा०-१ 'नारदागमनविसर्जनो'.