पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
शिशुपालवधे

यियक्षमाणेनेति ॥ अथेन्द्रसंदेशश्रवणानन्तरं यियक्षमाणेन यष्टुमिच्छता । यजतेः सन्नन्ताल्लटः शानच् । पार्थेन पृथापुत्रेण युधिष्ठिरेण । 'तस्येदम् (४।३।१२०) इत्यण् । अन्यथा 'स्त्रीभ्यो ढक्' (४।१।१२०) स्यात् । ततः पार्थेय इति स्यात् । आहूत आकारितः । ह्वयतेः कर्मणि क्ते संप्रसारणदीर्घौ । तथा अभिचैद्यं शिशुपालं प्रति । 'लक्षणेनाभिप्रती आभिमुख्ये' (२।१।१४) इत्यव्ययीभावः । 'अभिरभागे' (१।४।९१) इति कर्मप्रवचनीयत्वे तद्योगे द्वितीया वा। प्रतिष्ठासुः प्रस्थातुमिच्छुः । तिष्ठतेः सन्नन्तादुप्रत्ययः । मुरं द्विषन् मुरारिः । 'द्विषोऽमित्रे' (३।२।१३१) इति शतृप्रत्यये 'न लोका-' (२।३।६९) इत्यत्र 'द्विषः शतुर्वा' (वा०) इति वैकल्पिकः षष्ठीप्रतिषेधः । कार्यद्वयेन सुरकार्यसुहृत्कार्यरूपेणाकुलो विप्रतिषेधादा- वश्यकत्वाच्च द्वयोः संदिहान आसीत् । अतो मन्त्रस्यायमवसर इति भावः ॥ १॥

 एवं मन्त्रबीजसंदेहमुपन्यस्य मन्त्रोचितं देशमाह-

  सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।
  गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥ २॥

 सार्धमिति ॥ अथ संदेहानन्तरं असौ हरिः अभिनभः । पूर्ववदव्ययीभावः । कर्मप्रवचनीयत्वे वा द्वितीया । गुरुकाव्यौ बृहस्पतिशुक्रावनुगावनुयायिनौ यस्यां ताम् । 'गीष्पतिर्धिषणो गुरुः' इति 'शुक्रो दैत्यगुरुः काव्यः' इति चामरः । चन्द्र- स्येमां चान्द्रीं श्रियं बिभ्रत् । अत्र श्रीतुल्यां श्रियमिति निदर्शनाभेदः-उद्धवसीरिभ्यां सार्धं उद्धवरामाभ्यां सह सदः सभामासदत् अगमत् । राजसदसः प्रासाद- त्वादिति भावः । सदेर्लुङि 'पुषादित्वात्-' (३।१।५५) इति च्लेरङादेशः । अत्र मनु:- -'गिरि पृष्ठं समारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रये- द्भावभावितौ ॥' (७।१७४) इति ॥ २ ॥

  जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
  व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥३॥

 जाज्वल्यमानेति ॥ जगतः शान्तयेऽनुपद्रवाय समुपेयुषी मिलिता जाज्व- ल्यमाना भृशं ज्वलन्ती। 'धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' (३।१।२२)। ततो लटः शानजादेशे टाप् । असौ नराः पुरुषा एव शिखिनोऽग्नयस्तेषां त्रयी। 'द्वित्रिभ्याम्-' (५।२।४३) इत्यादिना तयस्यायजादेशे कृते 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । सभा आस्थानी सैव वेदिः । 'वेदिः परिष्कृता भूमिः' इत्यमरः । तस्यां व्यद्योतिष्ट दीप्यते स्म । 'द्युद्भ्यो लुङि' (१।३।९१) इति वा तङ् । रूपकालंकारः ॥३॥

  रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
  एकाकिनोऽपि परितः पौरुषेयवृता इव ॥४॥

रत्नेति ॥ रत्नानां स्तम्भा इति षष्ठीसमासस्य विशेषे पर्यवसानाद्विकारार्थत्वम् । तेषु संक्रान्तप्रतिमाः संक्रान्तप्रतिबिम्बाः। 'प्रतिमानं प्रतिबिम्बं प्रतिमा-' इत्यमरः । ते त्रय एकाकिनोऽसहाया अपि । 'एकादाकिनिच्चासहाये' (५।३।५२) इत्याकिनि- च्प्रत्ययः । परितोऽभितः सर्वतः। 'पर्यभिभ्यां च' (५।३।९) इति तसिल्प्रत्ययः ।

पाठा०-१ पूर्वोत्तरार्धव्यत्यासेन क्वचित् पठ्यते. २ भाविनाविति'. ३ 'इत्यभावे'.