पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
द्वितीयः सर्गः ।

(३।३।१४) इति सदादेशे 'वृद्भ्यः स्यसनोः' (१।३।९२) इति विभाषया परस्मैपदम् । 'न वृद्भ्यश्चतुर्भ्यः' (७।२।५९) इतीडभावः । आमयो व्याधिः । 'रोगव्याधिगदामयाः' इत्यमरः । स शत्रुश्च शिष्टैर्नीतिज्ञैः समौ तुल्यवृत्ती आम्नाताव्याख्यातौ । 'अल्पीयसोऽप्यरेवृद्धिर्महानर्थाय रोगवत् । अतस्तस्यानुपेक्ष्यत्वादुभयानुसृतिः कुतः' इति भावः । उपमालंकारः ॥१०॥

 नन्वेवं स्वार्थपरत्वदोषः स्यादिति चेन्न । लोकानुग्रहार्थत्वादस्याः प्रवृत्तेरित्याशयेनाह-

  न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
  यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ॥ ११ ॥

 नेति ॥ सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । 'उत्सादिभ्योऽञ्' (४।१।८६)। तस्याः सूनुश्चैद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति दुह्यतीति यावत् । 'क्रुधद्रुह-' (१।४।३७) इत्यादिना चतुर्थी । तत इति शेषः । यत्तदोर्नित्यसंबन्धात् । न दूये न परितप्ये । दूङो दैवादिकात् कर्तरि लट् । उत्तमपुरुषैकवचनम् । किंतु लोकं दन्दह्यते । गर्हितं यथा स्यादेवं दहतीति यावत् । 'लुपसदचरजप-' (३।१।२४) इत्यादिना गर्हायां यङ् । 'जपजभदहदशभञ्जपशां च' (७।४।८६) इत्यभ्यासस्य नुमागमः । अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । 'दुःखात्प्रातिलोम्ये' (५।४।६४) इति डाच्प्रत्ययः । अतश्चैद्य एवाभिघातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः॥११॥

 स्वमतं निगमयन् परमतं शुश्रूषुः पृच्छति-

  मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।
  ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२ ॥

 ममेति ॥तावत् । भवन्मतश्रवणपर्यन्तमित्यर्थः। मम मतमिदम् । अङ्गेत्यामन्त्रणेऽव्ययम् । 'अथ संबोधनार्थकाः । स्युः प्याट् पाडङ्ग हे है भोः' इत्यमरः । वां युवयोः । 'युष्मदस्मदोः षष्ठीचतुर्थी-' (८।१।२०) इत्यादिना वामादेशः । मतं श्रूयताम् । विधौ लोट् । तदिदं मया श्रोतव्यम् । अन्यथा संदेहानिवृत्तेरिति भावः । विदुषस्ते कुतः संदेहस्तत्राह-ज्ञातसारः ज्ञाततत्त्वार्थोऽप्येकः एकाकी कार्यवस्तुनि कर्तव्यार्थे संदिग्धे संशेते । खलु निश्चये । अतो मयापि संदिह्यत इत्यर्थः । 'दिह उपचये' कर्तरि लट् । घत्वधत्वे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥१२॥

  यावदर्थपदां वाचमेवमादाय माधवः ।
  विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ १३ ॥

 यावदिति ॥ माधवो हरिः यावानर्थो यावदर्थम् । ‘यावदवधारणे' (२।१।८) इत्यव्ययीभावः । यावदर्थं पदानि यस्यास्ताम् । अभिधेयसंमिताक्षरामित्यर्थः । एवमुक्तप्रकारेण वाचमादाय गृहीत्वा । उक्त्वेत्यर्थः । विरराम तूष्णीमास । 'व्याङ्परिभ्यो रमः' (१।३।८३) इति परस्मैपदम् । तथाहि-महीयांसः उत्तमाः प्रकृत्या स्वभावेन मितभाषिणः । भवन्तीति शेषः । वृथालापनिषेधादिति भावः । पूर्ववदलंकारः ॥ १३ ॥

पाठा०-१ 'मदः'.