पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
द्वितीयः सर्गः

 दधदिति ॥ पुनः । संध्यायामरुणे व्योम्नि स्फुरन्तीस्तारा अनुकुर्वन्तीति तथोक्ताः । कुतः । द्विषतः शत्रोर्द्रेषेण क्रोधेनोपरक्तेऽङ्गे वपुषि सङ्गिनीः सक्ताः स्वेदविप्रुषः स्वेदबिन्दून् । 'पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्' इत्यमरः । दधद्दधानः । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । उपमालंकारः ॥ १८॥

  प्रोल्लसत्कुण्डलपोतपद्मरागदलत्विषा ।
  कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥ १९ ॥

 प्रोल्लसदिति ॥ पुनः । प्रकर्षेणोल्लसतां कुण्डलयोः प्रोतानां स्यूतानां पद्मरागदलानां माणिक्यशकलानां त्विषा कान्त्या । प्रोतेति प्रपूर्वाद्वेञः कर्मणि क्तः । यजादित्वात्संप्रसारणम् । कृष्णोत्तरासङ्गो नीलोत्तरीयम् । 'द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा । संव्यानमुत्तरीयं च' इत्यमरः । तस्य रुचं चूतपल्लवस्येमां चौतपल्लवीं विदधत् । कृष्णलोहितमिश्रवर्णचूतपल्लववद्धूम्रां कुर्वन्नित्यर्थः । 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरवचनात् । अत्रान्यरुचोऽन्यदीयत्वायोगात्सादृश्यापेक्षो निदर्शनालंकारः ॥ १९॥

  ककुद्मिकन्यावक्रान्तर्वासलब्धाधिवासया ।
  मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २० ॥

 ककुद्मिति ॥ पुनः । ककुद्मिकन्याया रेवत्या वक्त्रस्यान्तः अभ्यन्तरे वासेन स्थित्या लब्धोऽधिवासो वासना यया तया। तन्मुखसौरभवासितयेत्यर्थः। 'संस्कारो गन्धमाल्याद्यैरधिवासनमुच्यते' । मदिरया कृतानुव्याधं कृतसंसर्गम् । प्रियागण्डूषगन्धिनमित्यर्थः । 'व्यधजपोरनुपसर्गे-' (३।३।६१) इत्यनुपसृष्टादप्प्रत्ययविधानादुपसृष्टाद्व्यधेर्घञ्प्रत्ययः । मुखामोदं स्वमुखगन्धविशेषम् । 'आमोदः सोऽतिनिर्हारी' इत्यमरः । उद्वमन् उद्गिरन् । अत्र मदिराराममुखगन्धयोः स्वगन्धतिरोधानेन रामामुखतद्गण्डूषमद्यगन्धस्वीकारात्तद्गुणयोस्तत्रोत्तरस्यात्मविशेषकत्वेन पूर्वसापेक्षत्वादङ्गाङ्गिभावेन संकरः। 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः' इति लक्षणात् ॥२०॥

  जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ।
  नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः॥२१॥ (कुलकम् ।)

 जगादेति ॥ वदनमेव छद्म कपटं यस्य तत् पद्मम् । वदनमेव पद्ममित्यर्थः । छद्मशब्देनासत्यप्रतिपादनरूपोऽपह्नवः । तस्य पर्यन्तपातिनः प्रान्तसंचारिणः । मधु लिहन्तीति मधुलिहस्तान् मधुपान् । क्विप् । उदग्रैरुच्छ्रितैः दशनांशुभिः श्वैत्यं धावल्यं नयन्नेवं जगाद । तद्गुणालंकारः । तस्य मधुपसंनिधापकवदनापह्नवसापेक्षत्वात्तेन संकरः ॥ २१ ॥

 रामो जगादेत्युक्तम् , किं तदित्याकाङ्क्षायामाह-

  यद्वासुदेवेनादीनमनादीनवमीरितम् ।
  वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २२ ॥