पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
द्वितीयः सर्गः ।

 विरोधीति ॥ कृतिनां कुशलानां गिरः कर्त्र्यः । विरोधिवचसः प्रतिकूलवादिनो वागीशान वाक्पतीनपि । 'वागीशो वाक्पतिः समौ' इत्यमरः । मूकान् निर्वाचः कुर्वते । जडयन्तीत्यर्थः । अनुलोमोऽनुकूलोऽर्थोऽभिधेयं येषां तेऽनुलोमार्था अनुकूलवादिनः । तान् जडान् मन्दानपि प्रवाचः प्रगल्भवाचः कुर्वते । अतोऽस्मद्गिरः प्रवाच्या इति भावः । अत्र वागीशानां मूकीकरणाज्जडानां प्रवाक्त्वकरणाञ्चाशक्यवस्तुकरणरूपो विशेषोऽलंकारः । असंबन्धे संबन्धातिशयोक्तिप्रतिभोत्थापित इति संकरः ॥ २५ ॥

 नन्वात्मनीनेन स्वामिना 'बुद्धेः फलमनाग्रहः' इति न्यायेन शास्त्रज्ञवचनं प्रतिकूलमपि ग्राह्यमेवेत्याशङ्कयाह-

  षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः।
  ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ २६ ॥

 षडिति ॥ दुष्टा मेधा येषां ते दुर्मेधसो मन्दबुद्धयोऽपि । 'नित्यमसिच्प्रजामेधयोः' (५।४।१२२) इति समासान्तोऽसिच्प्रत्ययः । ग्रन्थानौशनसादीनधीत्य पठित्वा गुणाः संधिविग्रहयानासनद्वैधीभावसमाश्रयाख्याः षट् । शक्तयः प्रभुत्वमन्त्रोत्साहाख्यास्तिस्रः। सिद्धयः पूर्वोक्तशक्तित्रयसाध्याः पुरुषार्थलाभात्मिकाः। ताश्च तिस्रः प्रभुसिद्धिर्मन्त्रसिद्धिरुत्साहसिद्धिश्चेति । उदया वृद्धिक्षयस्थानानि छत्रिन्यायेनोदया उच्यन्ते । तत्र वृद्धिक्षयौ स्वशक्तिसिद्ध्योः पूर्वावस्थानादुपचयापचयौ स्थानं ते च त्रय इति व्याकर्तुं व्याख्यातुमलं समर्थाः । 'पर्याप्तिवचनेष्वलमर्थेषु'(३।४।६६) इति तुमुन् । पञ्चाङ्गनिर्णयशक्तिविकलानां संध्यादिरूपसंख्यामात्रपाठकानामशास्त्रज्ञत्वादुद्धवादयो न ग्राह्यवचना इत्यभिसंधिः । अत्रामरः 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥' इति । तत्रारिविजिगीष्वोर्व्यवस्थाकरणमैक्यं संधिः । विरोधो विग्रहः । विजिगीषोररिं प्रति यात्रा यानम् । तयोर्मिथः प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलप्रबलयोर्वाचिकमात्मसमर्पणं द्वैधीभावः । अरिणा पीड्यमानस्य बलवदाश्रयणं संश्रयः । कोशदण्डोत्थं तेजः प्रभावः । कर्तव्यार्थेषु स्थेयान् प्रयत्न उत्साहः । षड्गुणचिन्तनं मन्त्रः। गतमन्यदिति संक्षेपः ॥ २६ ॥

 ननु शास्त्रोक्तार्थव्याख्यातैव शास्त्रज्ञः, स एव ग्राह्यवचनश्चेत्याशङ्क्याह-

  अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
  निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २७ ॥

 अनिर्लोडितेति ॥ अनिर्लोडितं नालोकितं कार्यं येन तस्य । कार्याकार्यमजानत इत्यर्थः । वाचोऽस्य सन्तीति वाग्मी वावदूकः । 'वाचो युक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि' इत्यमरः । 'वाचो ग्मिनिः' (५।२।१२४) इति ग्मिनिप्रत्ययः । तस्य वाग्जालं वागाडम्बरो निमित्ताल्लक्ष्यात् । 'वेध्यं लक्ष्यं निमित्तं च शरव्यं च समं विदुः' इति वैजयन्ती। अपराद्धेषोः स्खलितबाणस्य । धनुः प्रहरणमस्येति धानुष्को

पाठा०-१ 'अन्धान्'. २ °क्षयावस्थानानि क्षत्रिय'. ३ ०दुद्धवा' इति क्वचिन्न पठ्यते.


शिशु० ४