पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
द्वितीयः सर्गः ।

द्वितीयः सर्गः। ४५

बहुतृणमिति । स्पष्टोपमासाहचर्यात्कल्पब्देश्यदेशीयदेश्यादीति दण्डिना कल्पबादी- नामौपम्यवाचकेष्वभिधानात् । तस्मिन्नुपेयुषि प्राप्ते सति स्वयं प्रणमते स्वयमेव प्रह्वीभवति । 'कर्मवत्कर्मणा तुल्यक्रियः' (३।१८७) इति कर्मवद्भावात् 'भाव- कर्मणोः' (१।३।१३) इत्यात्मनेपदम् । 'न दुहस्नुनमा यक्चिणौ' (३।१।८९) इति यक्प्रतिषेधः । वायुना तृणमिवाल्पीयसापि रिपुणा लघुरक्लेशेन परिभूयत इत्यर्थः । उपमालंकारः ॥ ५० ॥

पुनः पौरुषे गुणमाह-

तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥५१॥

तेजस्वीति ॥ दवीयानपि दूरस्थोऽपि । 'स्थूलदूर-' (६।४।१५६) इत्यादिना पूर्वगुणयणादिपरलोपौ । तेजस्वी तेजस्विनां मध्ये गण्यते संख्यायते । तथाहि- पञ्चाग्निसाध्यं तपो यस्य स तथा तस्य पञ्चतपसः पञ्चाग्निमध्ये तपस्यतः तपनोऽर्को जातवेदसामग्नीनां पञ्चमः पञ्चानां पूरणः । पञ्चमो जातवेदा भवतीत्यर्थः । विशे- षेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥ ५१ ॥

गुणान्तरं च व्यतिरेकेणाह-

अकृत्वा हेलया पादमुच्चैर्मुर्धसु विद्विषाम् । कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥ ५२ ॥

अकृत्वेति ॥ उच्चैरुन्नतेषु विद्विषां मूर्धसु हेलया पादमकृत्वा अनिधाय । 'अनञ्पूर्वः' इति निषेधात्समासेऽपि न ल्यबादेशः । कीर्तिः कथंकारम् । कथ- मित्यर्थः । 'अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्' (३।४।२७) इत्यनर्थकादेव करोतेः कथंपूर्वाण्णमुल । अनालम्बा निराधारा कीर्तिर्यां दिवमधिरोहति । न कथंचिदित्यर्थः । किंचिन्निःश्रेण्यादिकमनाक्रम्य उच्चसौधस्य दुरारोहत्वादिति भावः। तस्मात्कीर्तिमिच्छतः पौरुषमेवाश्रयणीयमिति श्लोकतात्पर्यम् । कीर्तितद्वतोरभेदो- पचारात् समानकर्तृतानिर्वाहः । अत्र प्रस्तुतायाः कीर्तेर्विषयमहिम्ना अप्रस्तुत- प्रासादारोहणस्त्रीव्यवहारप्रतीतेः समासोक्तिः ॥ ५२ ॥

पौरुषमेवाश्रयणीयमित्यत्रान्वयव्यतिरेकदृष्टान्तावाचष्टे-

अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥ ५३ ॥

अङ्केति ॥ अङ्कमुत्सङ्गमधिरोपितो मृगो येन स चन्द्रमा मृगलाञ्छनः मृगाङ्कः । तथा निष्ठुरं यथा तथा क्षिप्तो हतो मृगयूथो मृगसमूहो येन स केसरी सिंहो मृगाधिपः । उभयत्रापि ख्यात इति शेषः । तस्माच्छत्रौ मार्दवं दुष्कीर्तये, पौरुषं तु कीर्तये इति भावः । अत्राप्रस्तुतकथनात् प्रस्तुतार्थप्रतीतेरप्रस्तुतप्रशंसा ॥५३॥

ननु सामादि सुकरोपायमुपेक्ष्य किं पाक्षिकसिद्धिना दण्डेन । यथाह मनुः- 'साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥'

(७।१९८) इति । तस्मात्सान्त्वमेव युक्तमित्याङ्क्य द्वाभ्यां निराचष्टे-