पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
शिशुपालवधे

४८ शिशुपालवधे मित्रभ्रंशवानिति यावत् । 'व्यसनं विपदि भ्रंशे' इत्यमरः । दमघोषाज्जातो दम- घोषजश्चैद्यः सुखेन दम्यत इति सुदमः । एकाकित्वात् सुसाध्य इत्यर्थः ॥ ६० ॥

 कष्टश्चायं पक्षोऽभ्युपेत्यवादेनोक्तः, वस्तुतस्तु शूराणामग्रिमपक्ष एवेष्टः शास्त्रसं. वादी । यथाह कामन्दकः :-'यदा समस्तं प्रसभं निहन्तुं पराक्रमादूर्जितमप्यमि- त्रम् । तदाभियायादहितानि कुर्वन्नुपान्ततः कर्षणपीडनानि ॥' इतीत्यभिप्रेत्याह-

  नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
  विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः ॥६१ ॥

 नीतिरिति ॥ परः शत्रुरापदि गम्यो गमनार्हः नीतिरिति यत्तदापदि गमनं मानिनः शौर्याभिमानिनो ह्रिये । लज्जाकरमित्यर्थः। किंतु पूर्ण उपचितगात्रः स शत्रुस्तस्य मानिनः । विधुश्चन्द्रः विधुं तुदति हिनस्तीति विधुंतुदो राहुः । 'विध्वरुषोस्तुदः' (३।२।३५) इति खश्प्रत्यये मुमागमः । तस्येवोत्सवाय । अत एव बलिना बलवानेव यातव्यः, बलिनश्च वयमिति भावः ॥ ६२ ॥

 तर्हि पूर्वोदाहृतमन्वादिशास्त्रविरोधः स्यादित्याशङ्क्याह-

  अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् ।
  सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥

 अन्यदिति ॥ अन्यदुच्छृङ्खलमनर्गलम् । प्रसह्य पीडनक्षममिति भावः । सत्त्वं बलमन्यत् । शास्त्रेण मन्वादिशास्त्रेण नियन्त्रितमुदाहृतं परव्यसनकाले निर्मितं सत्त्वमन्यत् । उत्कटानुत्कटलक्षणवैलक्षण्यमन्यशब्दार्थः । तयोः सापेक्षत्वनिरपेक्ष- त्वाभ्यां मिथो विरोधान्नैकशास्त्रत्वं संभवतीत्यर्थः । अत्र दृष्टान्तमाह-तेजस्ति- मिरयोः समानमधिकरणं ययोस्तयोर्भावः सामानाधिकरण्यमेकाश्रयत्वं कुतः । न कुतश्चित् , तयोः सहावस्थानविरोधादिति भावः । तस्मादुभयोरुदितानुदित- होमवद्भिन्नविषयत्वादितरेतरशास्त्रविरोधो न बाधक इति भावः ॥ ६२॥

 तर्हि नः किमिदानीं कार्यमत आह-

  इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः ।
  आस्माकदन्तिसांनिध्याद्वामनीभूतभूरुहः ॥ ६३ ॥

 इन्द्रप्रस्थेति ॥ इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । 'ग्रहवृदृनिश्चिग- मश्च' (३।३।५८) इत्यप्रत्ययः । तावदिदानीं मा कारि तावत् । न क्रियतामेवे- त्यर्थः । यावत्तावत्परिच्छेदे कार्त्स्न्ये मानावधारणे' इति विश्वः । कृञः कर्मणि लुङ् । 'माङि लुङ्' (३।३।१७५) इत्याशीरर्थे । 'न माङ्योगे' (६।४।७४) इत्यट्प्रतिषेधः । किंतु चेदयश्चेदिदेशाः । अस्माकमिमे आस्माकाः, 'युष्मदस्मदोर- न्यतरस्यां खञ्च' (४।३।१) इति विकल्पादण्प्रत्ययः । तस्मिन्नणि च युष्माका- स्माकौ' (४।३।२) इत्यस्माकादेशः । संनिधिरेव सांनिध्यम् । स्वार्थे ष्यञ्प्रत्ययः । आस्माकानां दन्तिनां सांनिध्यात् वामनीभूताः शाखाभङ्गात् खर्वीभूता भूरुहो वृक्षा

येषां ते तथोक्ताः सन्तु । चेदियात्रैव क्रियतामित्यर्थः । सा च प्रस्तुता प्रस्तुतेनैव