पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/८०

पुटमेतत् सुपुष्टितम्
५०
शिशुपालवधे

' निशम्येति ॥ अधः कृतमक्षजमिन्द्रियजं ज्ञानं येन सोऽधोक्षजो हरिः ताः शेषस्य शेषावतारस्य बलभद्र्स्य गाः वाचः शेषगवीः । 'गोरतद्धितलुकि' (५।४।९२) इति टच् । टित्वान्ङीप् । निशम्य श्रुत्वा । 'निशाम्यतीति श्रवणे तथा निशमयत्यपि' इति भट्टमल्लः । तत्र शाम्यतेरिदं रूपम् । अन्यथा निशम- य्येति स्यात् । अत एव वामनः 'निशम्य्यनिशमय्यशब्दौ प्रकृतिभेदात्' इति । बृहतांं वाचां पत्युर्बृहस्पतेस्तस्य शिष्यायोद्धवायाभिधातुं वक्तुं दृशा दृक्संज्ञया प्रस्तावमव- सरमदिशदतिसृष्टवान् । 'प्रस्तावः स्यादवसरः' इत्यमरः ॥ ६८॥

  भारतीमाहितभरामथानुद्धतमुद्धवः ।
  तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥ ६९ ॥

 भारतीमिति ॥ अथ कृष्णानुज्ञानन्तरमुद्धवः आहितो भरोऽर्थगौरवं यस्यां सा तां तथ्यां यथार्थां भारतींं वाचम् । अनुद्धतमगर्वितं यथा तथा गदस्याग्रजं कृष्णम् । अग्रे पुरत इति प्रागल्भ्योक्तिः । उतथ्यस्य महर्षेरनुजो बृहस्पतिः । 'उत- थ्यावरजो जीवः' इति विश्वः । तद्वत् तेन तुल्यं जगाद । 'तेन तुल्यं क्रिया..चे- द्वतिः' (५।१।११५) इति वतिः । तद्धितगेयमुपमा ॥ ६९॥

 किं जगादेत्याह-

  संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
  निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ॥ ७० ॥

 संप्रतीति ॥ संप्रति मुसलपाणिना बलभद्रेण । केवलं शूरेणेति ध्वनिः । उक्ते सति वक्तुमसांप्रतमयुक्तम् । साधूक्तत्वादभ्याससमानयोगक्षेमप्रसङ्गादिति ध्वनिः । सांप्रतशब्दस्यार्हार्थत्वात्तद्योगे 'शकघृष-' (३।४।६५), इत्यादिना तुमुन् । तथा हि लेख्येन पुत्रेणार्थे वाच्ये निर्धारिते निर्णीते सति वाचिकं व्याहृ- तार्थां वाचम् । संदेशवचनमित्यर्थः । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । 'वाचो व्याहृतार्थायाम्' (५।४।३५)इति ठक् । उक्त्वा खलु । न वाच्यं खल्वित्यर्थः । खलुराद्यः प्रतिषेधे, अन्यो वाक्यालंकारे, 'निषेधवाक्यालंकारजिज्ञासानुनये खलु' इत्युभयत्राप्यमरः । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' (३।४।१८) इति क्र्त्वाप्रत्ययः । इह 'न पादादौ खल्वादयः' इति निषेधस्योद्वेजकाभिप्रायत्वात् , नञ- र्थखलुशब्दस्यानुद्वेजकत्वात् नञ्वदेव पादादौ प्रयोगे न दुष्यतीत्यनुसंधेयम् । लिखितार्थे वाचिकमिव बलोक्ते मदुक्तिरनवकाशेति वाक्यार्थप्रतिबिम्बकरणात् । स्पष्टस्तावद्दृष्टान्तः । स्तुतिव्याजेन निन्दावगमाद्व्याजस्तुतिश्च । लक्षणं चाग्रे वक्ष्यते ॥ ७०॥

 तर्हि किं तूष्णीभूतेन भाव्यं, नेत्याह-

  तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
  तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ ७१ ॥

 तथापीति ॥ तथापि बलेन निर्णीतेऽपि । ते तव मय्यपि । बलभद् इवेत्यपि- शब्दार्थः । गुरुरित्येव यद्गौरवमादरः तद्गौरवं जल्पतः जल्पने प्रयोज्यकर्मणो मे

पाठा०-१ असाधू०".