पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
द्वितीयः सर्गः ।

प्रयोजककर्तृत्वं प्रेरकत्वमुपैति । अतो वक्ष्यामीत्यर्थः । न हि पण्डितैः सादरं पृष्टस्य विशेषज्ञस्याज्ञवत्तूष्णींभावो युक्त इति भावः ॥ ७१ ॥

 ननु रामेणैव सर्वं प्रपञ्चेनोक्तम् , संप्रति किं ते वाच्यमस्तीत्याशङ्क्य वृथा प्रपञ्चोऽयमिति हृदि निधाय स्तुवन्नाह-

  वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
  अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥७२॥

 वर्णैरित्यादित्रयेण ॥ कतिपयैः परिमितैर्वर्णैः पञ्चाशतैव मातृकाक्षरैः, कतिपयैः सप्तभिरेव स्वरैर्निषादादिभिर्ग्रथितस्य गुम्फितस्य वाङ्मयस्य शब्दजालस्य । 'एकाचोऽपि नित्यं मयटमिच्छन्ति' इति स्वार्थे मयट् । गीयत इति गेयं तस्य गानस्येव विचित्रता रचनाभेदादनन्ता । अपरिमिता भवतीत्यर्थः । अहो अतस्तेन साधूक्तेऽपि विशेषानन्त्यान्ममापि वक्तव्यमस्तीत्येको भावः। तस्य दुरुक्तवान्ममैवास्तीत्यन्यः । प्रत्यवयवमिवोपादानादनेकैवेयमुपमा ॥ ७२ ॥

  बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
  अनुज्झितार्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ ७३ ॥

 बह्वपीति ॥ स्वेच्छया स्वप्रतिभानुसारेण प्रकीर्णमसंगतं बह्वपि कामं यथेष्ट- मभिधीयते । किंतु, अनुज्झितोऽर्थसंबन्धः पदार्थसंगतिर्यस्मिन् स प्रबन्धः संदर्भः दुरुदाहरो दुर्वचः । हरतेः खल्प्रत्ययः । रामेण तु संगतमेवोक्तमिति स्तुतिः, असंगतमेवोक्तमिति निन्दा च गम्यते ॥ ७३ ॥

  म्रदीयसीमपि घनामनल्पगुणकल्पिताम् ।
  प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ ७४॥

 म्रदीयसीमिति ॥ कुशला वक्तारो म्रदीयसीमतिसुकुमाराक्षरां, श्लक्ष्ण- तरां च तथापि घनामर्थगुर्वीम्, अन्यत्र सान्द्राम् । कदलीदलकल्पामित्यर्थः । अनल्पैर्बहुभिर्गुणैः श्लेषादिभिः, तन्तुभिश्च कल्पिता रचितां, निर्मितां च चित्रां शब्दादिविचित्रां, विचित्ररूपां च वाचं पटीं शाटीमिव प्रसारयन्ति । रामवा- गप्येवंविधेति स्तुतिः, रामवाक् तु नैवंविधेति निन्दा च गम्यते । अत्र श्लेषस्य शुद्ध- विषयासंभवेन सर्वालंकारबाधकत्वादुपमाप्रतिभोत्थापितः प्रकृताप्रकृतश्लेषोऽय- मित्यलंकारसर्वस्वकारः । एवं च पूर्णोपमाया निर्विषयत्वप्रसङ्गात् श्लेषप्रतिभोत्था- पितेयमुपमैवेत्यन्ये ॥ ७४ ॥

 अथोद्धवः स्वसिद्धान्तं वर्णयिष्यन् स्तुत्या गर्वं परिहरन् हरिमभिमुखीकरोति-

  विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः।
  हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥

 विशेषेति ॥ विशेषानवान्तरभेदान् वेत्तीति विशेषविद्वान् तस्य विशेषविदुषो विशेषज्ञस्य । गतिगम्यादिपाठाद्वितीयासमासः । तव पुरोऽग्रे शास्त्रं नीतिशास्त्र-

पाठा०-१ विशेषं वेत्ति'.