पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
शिशुपालवधे

मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थों व्यस्तयोर्वधे । मण्डलाद्बहिरेतेषा- मुदासीनो बलाधिकः ॥' इति मध्यमोदासीनाभ्यां सह द्वादश वेदितव्याः । पूर्णोपमा ॥ ८१॥

 'उपायमास्थितस्य' (२।८०) इत्यत्र राजा न प्रमादित्युक्तम् , अप्रमाद- प्रकारमाह-

  बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चकः ।
  चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ॥ ८२॥

 बुद्धिशस्त्र इति ॥ बुद्धिरेव शस्त्रं यस्य स बुद्धिशस्त्रः । अमोघपातित्वात्तस्या इति भावः । प्रकृतयः स्वाम्यादिराज्याङ्गानि । 'राज्याङ्गानि प्रकृतयः' इत्यमरः । ता एवाङ्गानि यस्य सः । तद्वैकल्ये राज्ञो वैकल्यं स्यादिति भावः । घना दुर्भेदा संवृतिर्मन्त्रगुप्तिरेव कञ्चुकः कवचो यस्य स तथोक्तः । मन्त्रभेदे राज्यभेदादिति भावः । चरतीति चरः। पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वा- र्थिकोऽण्प्रत्ययः । 'चारश्च गूढपुरुषः' इत्यमरः । स एवेक्षणं चक्षुर्यस्य स चारे- क्षणः । अन्यथा स्वपरमण्डलवृत्तान्तादर्शनात् । 'अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे' इति भावः । दूतः संदेशहरः । 'स्यात्संदेशहरो दूतः' इत्यमरः । स एव मुखं वाग्यस्यासौ दूतमुखः । अन्यथा मूकस्येव वाग्व्यवहारासिद्धौ तत्सा- ध्यासाध्यकार्यप्रतिबन्धः स्यादिति भावः । एवंभूतः पार्थिवः कोऽपि पुरुषोऽन्य एवायम् । लोकविलक्षणः पुमानित्यर्थः । अतो राज्ञा बुद्ध्यादिसंपन्नेन भवित- व्यम् । एतदेवाप्रमत्तत्वम् । अन्यथा स्वरूपहानिः स्यादिति भावः । अत्र कोs- पीति राज्ञो लोकसंबन्धेऽपि तदसंबन्धोक्त्या तद्रूपातिशयोक्तिः । सा च बुद्धि- शस्त्र इत्यादिरूपकनिर्व्यूंढेति तेन सहाङ्गाङ्गिभावेन संकरः ॥ ८२॥

 'चतुर्थोपायसाध्ये' (२।५४) इत्यादिना यत्क्षात्रमेव कर्तव्यमुक्तं तत्रोत्तरमाह-

  तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।
  नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ ८३ ।।

 तेज इति ॥ कालं जानातीति कालज्ञस्तस्य । अयं काल इति विदुष इत्यर्थः । 'आतोऽनुपसर्गे कः' (३।२।३) न तु 'इगुपध-' (३।१।१३५) इत्यादिना कवि- धिः । समासे कर्मोपपदस्यैव बलवत्त्वभाषणात् । तस्य महीपतेस्तेजः क्षात्रमेवेति वा क्षमैव वा एकान्तं नियमो नास्ति, किंतु यथाकालमुभयमप्याश्रयणीयमित्यर्थः । तथा हि-रसान् शृङ्गारादीन् , भावान् निर्वेदादींश्च वेत्ति यस्तस्य रसभावविदः । भावग्रहणं संपातायातम् । कवेः कवितुरेकं केवलमोजः प्रौढप्रबन्धत्वं वा एकः प्रसादः, सुकुमारप्रबन्धत्वं वा न । किंतु तत्र हि रसानुगुण्येन यथायोग्यमुभयम- प्युपादेयम् । दृष्टान्तालंकारः ॥ ८३ ॥

 यदुक्तं 'क्रियासमभिहारेण विराध्यन्तं क्षमेत कः' (२/४३) इति तत्रोत्तरमाह-

  कृता1पचारोऽपि परैरनाविष्कृतविक्रियः ।
  असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ॥ ८४ ॥

१ 'कृतापराधोऽपि' इति पाठः.