मेतत् । यथा प्रवर्तन्ते । तदुक्तम्-'विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायिभावो रसः स्मृतः ॥' इति । तथा स्थायिनः स्थिरस्य । क्षान्त्या कालं प्रतीक्षमाणस्येत्यर्थः । एकस्यैव नेतुर्विजिगीषोर्नायक- स्यार्थे प्रयोजने भूयांसो महीभृतो राजानः प्रवर्तन्ते । स्वयमेवास्य कार्यं साधय- न्तीत्यर्थः । ततः क्षन्तव्यमिति भावः । केचित्तु भावपदस्यापि रसपरत्वमाश्रित्य यथा संचारिणः प्रसङ्गादागन्तुका अन्ये रसाः स्थायिनः स्थिरस्यैकस्य मुख्यस्यार्थे प्रव- र्तन्ते, यथाऽस्मिन्नेव काव्ये वीरस्य शृङ्गारादय इति व्याचक्षते । उपमालंकारः ॥८७॥
क्षान्तिपक्ष एव गुणान्तरमाह-
तत्रावापविदा योगैर्मण्डलान्यधितिष्ठता ।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ ८८॥
तन्त्रेति ॥ तन्त्रावापौ स्वपरराष्ट्रचिन्तनम् । अन्यत्र तत्रावापं शास्त्रौषधप्रयोगं च वेत्ति यस्तेन तन्त्रावापविदा । 'तत्रं स्वराष्ट्रचिन्तायामावापः परचिन्तने । शास्त्रौषधान्तमुख्येषु तन्त्रम्' इति वैजयन्ती । योगैः सामाधुपायैः, अन्यत्र देवताध्यानैश्च । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । मण्डलानि स्वपरराष्ट्राणि, माहेन्द्रादिदेवतायतनानि च अधितिष्ठताऽतिक्रमता नरेन्द्रेण राज्ञा, विषवैद्येन च । नरेन्द्रो वार्तिके राज्ञि विषवैद्ये च कथ्यते' इति विश्वः । शत्रवः फणीन्द्रा इव सुनिग्रहाः सुखेन निग्राह्याः । एवं च प्रकृताप्रकृतविषयः श्लेषः । उपमैवेति केचित् ॥ ८८॥
'प्रज्ञोत्साहावतः स्वामी' (२/७६) इत्यत्रैव तावेव प्रभुशक्तेर्मूलमित्युक्तं तदेव व्यनक्ति-
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम् ।
प्रज्ञावलबृहन्मूलः फलत्युत्साहपादपः ॥ ८९ ।।
करेति ॥ उत्तुङ्गो महोन्नतः प्रज्ञावलं मत्रशक्तिरेव बृहत् प्रधानं मूलं यस्य सः । उत्साह एवं पादपः । करेण बलिना प्रचेयां वर्धनीयां, हस्तग्राह्यां च । 'बलिहस्तांशवः कराः' इत्यमरः । प्रथीयसीं पृथुतराम् । र ऋतो हलादेः-' (६/४/१६१) इति रेफादेशः । प्रभुशक्तिं तेजोविशेषम् । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । फलति । प्रसूत इत्यर्थः । 'फल निष्पत्तौ' मन्त्रपूर्वक
एवोत्साहः फलति । विपरीतस्तु छिन्नमूलो वृक्ष इव शुष्यतीति भावः ।
रूपकालंकारः॥ ८९॥
विमे2श्यकारिणस्तु विश्वमपि विधेयं स्यादिति त्रयेणाह-
अनल्पत्वात्प्रधानत्वाद्वंशस्येवेतरे स्वराः ।
विजिगीषेर्नृपतयः प्रयान्ति परिवारताम् ॥ ९ ॥
अनल्पत्वादिति ॥ अनल्पत्वायज्ञोत्साहाधिकत्वादत एव प्रधानत्वान्मण्ड- लाभिज्ञत्वात् , अन्यत्रानल्पत्वादुच्चैस्तरत्वात् प्रधानत्वान्नायकं स्वरत्वाच्च वंशस्य वंशवाद्यस्वरस्य इतरे स्वरा वीणागानादिशब्दा इव। अथवा आश्रयत्वाद्वंश इव
पाठा०-२ स्यात्'. २ 'विमृष्य”. विषयभेद तदप्य
रजनं विषयस्पयत ।।