पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
द्वितीयः सर्गः ।

 चिरादिति ॥ बलिनः स्वयं बलवतोऽप्यरिषु विषये बलात्कारो दण्डः, चिरात् चिरकालेनापि । सद्यो मा भूदिति भावः । सिद्धये वशंवदत्वसिद्धये । भवतीति शेषः । अविमनसो विमनसः संपद्यमानाः कृता विमनीकृताः । वैमनस्यं प्रापिता इत्यर्थः । 'अरुर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च' (५।४।५१) इति च्विप्रत्ययसलोपौ। 'अस्य च्वॉ' (७।४।३२) इतीकारः । शोभनं हृदयं येषां ते सुहृदो मित्राणि तु । 'सुहृदुहृदो मित्रामित्रयोः' (५।४।१५०) इति निपातः । छन्दस्याभिप्रायस्यानुवृत्त्या चित्तानुरोधेनापि दुःसाध्याः । आर्जवयितुमशक्या इत्यर्थः । 'अभिप्रायश्छन्द आशयः' इत्यमरः । शनैः शत्रुर्दण्डेनापि वशो भवति, मित्रं वैमनस्येन साम्नापीति भावः ॥ १०५ ॥

 ननु सुहृत्कार्यात्सुरकार्यं बलीय' इत्यत्राह-

  मन्यसेऽरिवधः श्रेयान् प्रीतये नाकिनामिति ।
  पुरोडाशभुजामिष्टमिष्टं कर्तुमलंतराम् ॥ १०६ ॥

 मन्यस इति ॥ नाकिनां देवानां प्रीतयेऽरिवधः श्रेयान् प्रशस्ततरः । 'प्रशस्यस्य श्रः' (५।३।६०) इति श्रादेशः । इति मन्यसे चेत्तर्हि पुरोडाशभुजां हविर्भोजिनाम् । अत एव नाकिनामिष्टमभीप्सितं कर्तुम् । इषेः कर्मणि क्तः । इष्टं इष्टिः । याग इति यावत् । यजेर्भावे क्तः । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । अलंतरामतिपर्याप्तम् । अव्ययादामुप्रत्ययः । शत्रुवधादतिप्रियकरो याग एव, नाकिनां भुक्त्वापि शत्रुवधस्य सुकरत्वादिति भावः ॥ १०६ ॥

 तथाप्यमृताशिनां तेषां देवानां किमेभिः पिष्टभक्षणप्रलोभनैरत आह-

  अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
  शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥

 अमृतमिति ॥ अमृतं नाम सन्तो विद्वांसः मन्त्रा एव जिह्वा येषां तेषु मन्त्रजिह्वेष्वग्निषु । 'मन्त्रजिह्वः सप्तजिह्वः सुजिह्वो हव्यवाहनः' इति वैजयन्ती । यत्पुरोडाशादिकं जुह्वति, तदेवेति शेषः । यत्तदोर्नित्यसंबन्धात् । मन्दर एव क्षुब्धो मन्थनदण्डः । 'क्षुब्धस्वान्त-' (७।२।१८) इत्यादिनास्मिन्नर्थे निपातनात् सिद्धम् । तेन क्षुभितस्य मथितस्याम्भोधेवर्णना शोभैवालंकार एव । अब्धिमन्थनेनामृतमुत्पादितमिति यतः कीर्तिमात्रम्, अतो हुतमेवामृतमिति भावः । वाक्यार्थयोर्हेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १०७ ॥

 यात्रायाः प्रतिबन्धः कश्चिद्दुस्तरस्तवास्तीत्याह-

  सहिष्ये शतमागांसि सूनोस्त इति यत्त्वया ।
  प्रतीक्ष्यं तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥ १०८ ॥

 सहिष्य इति ॥ प्रतीक्ष्यायै पूज्यायै । 'पूज्यः प्रतीक्ष्यः' इत्यमरः । पितृष्वस्रे पितृभगिन्यै । 'विभाषा स्वसृपत्योः' (६।३।२४) इति विकल्पादलुगभावः । 'मातृपितृभ्यां स्वसा' (८३३।८४) इति षत्वम् । ते तव सूनोः शतमागांस्यपराधान् । 'आगोऽपराधो मन्तुश्च' इत्यमरः । सहिष्ये सोढाहे इति यत्त्वया प्रतिश्रुतं

पाठा०-१ 'नाकिनामपि'. २ °त्तरप्प्रत्यय आम्बागमश्च'.


शिशु० ६