पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
शिशुपालवधे

 अथास्य प्रस्थानसंनाहं वर्णयन्नादौ छत्रधारणमाह-

 जगत्पवित्रैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
 यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥२॥

 जगदिति ॥ अर्को जगत्पूज्यं तं हरिं अत एव जगत्पवित्रैरपि पादैश्चरणैः किरणैश्च स्पष्टुं नायुज्यत नार्हत । युजेर्दैवादिकात्कर्तरि लङ् । कुतः । यतस्तस्य हरेर्बृहद्विपुलं पार्वणचन्द्रचारु, पूर्णेन्दुसुन्दरमित्युपमालंकारः । आतपात्रायत इत्या- तपत्रं छत्रम् । 'सुपि' (३।२।४) इति योगविभागात् कः । बिभरांबभूवे दध्ने । भृञः कर्मणि लिट् 'भीह्रीभृहुवाम्' (३।१॥३९) इति विकल्पादाम्प्रत्ययः । आतपत्रान्तर्हितस्य द्वयैरपि पादैः स्प्रष्टुमशक्यत्वादित्यर्थः । जगत्पूज्यस्य हरेः पादेन स्पर्शनिषेधादिति भावः ॥२॥

 अथ चामरधारणमाह-

 मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः ।
 भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ ३ ॥

 मृणालेति ॥ मृगालसूत्रामलं बिसतन्तुविशदमित्युपमा । चलन्ती च ते चामरे च चलच्चामरे । वीजनादिति भावः । तयोर्द्वयमन्तरेण स्थितः । द्वयस्य मध्ये स्थित इत्यर्थः । 'अन्तरान्तरेण युक्ते' (२।३।४) इति द्वितीया । स हरिरभितःपातुका उभयतःपातिनी सिद्धसिन्धुराकाशगङ्गा यस्य स तथोक्तः । 'पर्यभिभ्यां च' (५।३।९) इति तसिल्प्रत्ययः । 'सर्वोभयार्थवर्तमानाभ्यामिष्यते' इत्युभयार्थत्वम् । सुप्सुपेति समासः । पातुकेति । 'लषपत-' (३।२।१५४) इत्यादिना उकञ्प्रत्ययः । तस्याम्बुराशेः समुद्रस्याभूतपूर्वां पूर्वमभूताम् । सुप्सुपेति समासः । रुचं कान्तिं भेजे । अत एव निदर्शना । सा चाम्बुराशेः संभावनामात्रोक्त्या अभितःपातुकसिद्धसिन्धुसंबन्धमूलया असंबन्धे संबन्धरूपातिशयोक्त्या स्वोपजीवकसंयोगेन संकीर्यत इति संक्षेपः ॥ ३॥

 अथाष्टभिरस्य प्रसाधनविधिं वर्णयन् मुकुटधारणमाह-

 चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
 अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्साकृतिरन्वकारि ॥४॥

 चित्राभिरिति ॥ अस्य हरेरुपयूर्ध्वदेशे मौलिभाजां मुकुटगतानां मणीनामनणीयसीभिर्महतीभिश्चित्राभिरनेकवर्णाभिर्भाभिः प्रभाभिः कर्त्रीभिः । 'स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । सान्तपक्षे 'भोभगो-' (८।३।१७) इत्यादिना रोर्यकारे तस्य 'हलि सर्वेषाम्' (८।३।२२) इति लोपः। अनेकैर्धातुभिर्गैरिकादिभिश्छुरितानां रूषितानामश्मनां मणीनां राशिः समूहो यस्य तस्य गोवर्धनाख्यपर्वतस्याकृतिरन्वकार्यनुकृता । तत्सादृश्यमभाजीत्यर्थः । पूर्णोपमेयम् ॥ ४॥

 कुण्डले च धृते इत्याह-

 तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
 अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥५॥