पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्नेय्यो भवन्तीति । नह्यच्छन्दोविद्देवतामाग्नेयीं सम्पदं वेदेति । ऋचो यजूंषि चात्र विद्यन्ते तानि च ज्ञेयानीत्यत्र श्रुतिर्भवति 'यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सैवर्क् सा देवता तद्यजुरित्युपासनार्थं ऋग्यजुषोः पृथग्ग्रहणं करोत्यतो ज्ञेयमृग्य(१)जुषमिति । अथ पदार्थः । तत्र चत्वारि पदजातानि नामाख्यातोपसर्गनिपाता' इति नैरुक्ताः पठन्ति ।
तत्र नाम पञ्चप्रकारं पठन्ति-'धातुजं धातुजाज्जातं समर्थार्थजमेव च । वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् । तत्र धातुजं-वन्दारुः, पचमानः, यजमानः । धातुजाज्जातं तद्धितपदं--आग्नेयः, याजमानं, दैव्याय । समर्थार्थजः समासः । सच संक्षेपतश्चतुःप्रकारः । अव्ययीभावस्तत्पुरुषो द्वन्द्वो बहुव्रीहिरिति । अथोदाहरणानि--उपरिनाभि, बहिष्पिण्डम् । प्रजापतिः, पशुपतिः । अग्नीषोमौ, इन्द्राग्नी । कृष्णग्रीवः, शितिकण्ठः । यथासंख्यं द्वद्वे उदाहरणे । वाक्यजं 'क्रयस्य रूपं सोमस्य लाजाः' इत्यत्र सोमस्य क्रयस्य रूपं लाजा इत्येवं प्राप्ते रूपशब्देन व्यवधानं व्यत्ययश्च(२) । व्यतिकीर्णं अन्यत्र प्रसिद्धं यत्पदत्वेन तत्प्रतिरूपका ये वर्णास्तैः सहोच्चार्यते यत्तत् । पार्श्वतः श्रोणितः शितामत इत्यत्र शतामत इति । 'त्वमग्ने द्युभिस्त्वमाशुशुक्षणिः' इत्यत्राशुशुक्षणिरिति । तत्र नाम्नां सामान्यतोऽर्थवचनं । सत्वप्रधानानि नामानि । सतो भावः सत्वं अस्तिता। तद्यत्र प्रधानं तन्नाम, गुणभूता क्रिया, विभक्त्यर्थः कारकं च तानीमानि सत्वप्रधानानि नामानीति नाम्नोऽर्थः।।
अथ भावप्रधानमाख्यातम् । भावो नाम क्रियायाः फलं । तद्यथा । ओदनं पचति देवदत्त इत्यत्र देवदत्ताश्रया ओदनाख्यस्य भावस्य गुणभूता पाकक्रिया। अतो भावप्रधानमाख्यातमित्युच्यते। यद्वा भावप्रधानं भावना(३)प्रधानं। भावना


१ नियताक्षरपादावसाना ऋक् । अनियताक्षरपादावसानं यजुः । प्रगीतं मत्रवाक्यानाम्. २ व्यत्ययात्. ३ भावनामात्रप्रधानम्.


च पुरुष(१)परिस्पन्दः पुरुषप्रयत्नः आत्मनो व्यापारः । परिस्पन्दस्तु भूतानां सा यत्र प्रधानं गुणभूता क्रिया तदिदं भावप्रधानमाख्यातम् । अथवा भावो धात्वर्थः क्रिये(२)त्यनर्थान्तरम्। सा यत्र प्रधानं गुणभूतानि षट्कारकाणि तदिदं भावप्रधानमाख्यातमित्याख्यातार्थः । तानिच पचति पठतीत्यादीनि ।
अथ विंशतिरुपसर्गाः क्रियाविशेषकरा इति सामान्यतोऽर्थः। विशेषा(३)र्थस्त्वनन्ता इति । ते च प्र परा अप सम् अनु अव इत्यादयः । अथ निपातानामर्थः सामान्य(४)तोऽसत्ववचनता । सत्वं द्रव्यमसत्वमद्रव्यं तद्वचनाश्चादयो निपाता असत्ववचनाः । अत्र त्रैराश्यम् उपमार्थीयाः , कर्मोपसंग्रहार्थीयाः, पादपूरणा इति । तत्र उपमार्थीयाः सादृश्यवचना इव न इत्यादयः । तद्यथा-'देव इव सविता सत्यधर्मा । इन्द्रो न'। कर्मोपसंग्रहार्थीयास्त्वसत्ववचनाः वा च अह ह इत्यादयः । तद्यथा-'वातो वा, मनो वा, अग्निश्च पृथिवी च' इत्यादयः। पादपूरणाः पादमेव पूरयन्ति नत्वर्थान्तरं वदन्ति । अनर्थान्तरवचना इत्यर्थः । ई कं इत्यादयः । 'सद्योजज्ञानो विहि' 'इमा नु कं भुवना' । उक्तं च--'क्रियावाचकमाख्यातमुपसर्गो विशेषकृत् । सत्वाभिधायकं नाम निपाताः(५) पादपूरणाः॥'इति॥
अथ वाक्यार्थं व्याख्यास्यामः । नामाख्यातोपसर्गनिपातसमुदायो वाक्यम् । तस्यार्थो वाक्यार्थः । ननु यदि पदान्येव संहतानि वाक्यमुच्यते एवं तर्हि य एव पदार्थः स एव वाक्यार्थस्ततः पृथग्वाक्यार्थव्याख्या नोपपद्यत इति यश्चोदयेत्तं प्रत्याह। साकाङ्क्षः पदार्थो निराकाङ्क्षो वाक्यार्थः। तद्यथा--गौरित्युक्ते किमित्याकाङ्क्षा भवति । ततो गच्छतीत्युक्ते निराकाङ्क्षं भवति। अथ गच्छतीत्युक्ते किमित्या(६)काङ्क्षं भवति । ततो गौरित्युक्ते निराकाङ्क्षं भवति। अथेदानीं गौर्गच्छतीत्युक्ते यत्र(७) गौर्वाहदोहादिभ्यो व्यावृत्य गमनेऽवतिष्ठते । गमनं चान्यगन्तृभ्यो


१ पुरुषप्रयत्नपरिस्पन्दः. २ त्यर्थान्तरं. ३ विशेषास्त्वनन्ता इति. ४ सर्वसामान्योऽर्धः.५निपातः पादपूरणः.६का इति सा. ७यद् गौ.



<poem> शिष्येभ्यः पाठितवान् । तथाच श्रुतिः 'आदित्यानीमानि शुक्लानि यजूᳪषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते' (बृह० ५।५।३३) इति । अस्यार्थः । आदित्यादधीतान्यादित्यानि । शुक्लानि शुद्धानि । वाजस्यान्नस्य सनिर्दानं यस्य स वाजसनिस्तदपत्यं वाजसनेयस्तेन याज्ञवल्क्येन शिष्येभ्य आख्यायन्ते कथ्यन्त इत्यर्थः । तत्र मध्यन्दिनेन महर्षिणा लब्धो यजुर्वेदशाखाविशेषो माध्यन्दिनः । यद्यपि याज्ञवल्क्येन बहुभ्यः शिष्येभ्य उपदिष्टः, तथापि ईश्वरकृपया मध्यन्दिनसंबन्धितया लोके प्रख्यायते । तं माध्यन्दिनं वेदं येऽधीयन्ते विदन्ति वा शिष्यपरम्परया वर्तमानास्तेऽपि माध्यन्दिना उच्यन्ते ॥ अतएव 'स्वाध्यायोऽध्येतव्यः' (शत० ब्रा० ११।५। ६ । ७) इति स्वशाखाध्ययनं विहितम् । तच्चाध्ययनं प्रतिमन्त्रमृषिछन्दोदेवताविनियोगार्थज्ञानपूर्वकं विधेयम् । अन्यथा दोषश्रवणात् । ‘एतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजते याजयते तस्य ब्रह्म निर्वीर्यं यातयामं भवत्यथान्तराश्वगर्तं वापद्यते स्थाणुं वर्च्छति प्रवामीयते पापीयान्भवति (अनुक्रम १।१) इति कात्यायनोक्तेः । ऋष्यादिज्ञाने फलश्रवणाच्च । 'अथ विज्ञायैतानि योऽधीते तस्य वीर्यवदथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा हुत्वेष्ट्वा तत्फलेन युज्यते' ( अनु० १।१) इत्युक्तेश्च । तस्माद्वेदमन्त्राणामृष्यादिज्ञानमर्थज्ञानं चावश्यकम् । अन्यथा फलवैकल्यात् । तत्र यजुर्वेदमन्त्रेषु कानिचित् यजूंषि काश्चन ऋचः । तत्र ऋचां नियताक्षरपादावसानानामावश्यकं छन्दः कात्यायनेनोक्तम् । यजुषां षडुत्तरशताक्षरावसानानामेकाक्षरादीनां पिङ्गलेन 'दैव्येकम्' इत्यादिनोक्तं छन्दो बोद्धव्यम् । तदधिकानां तु 'होता यक्षद्वनस्पतिमभिहि' (अध्या० २१ । ४६) इत्यादीनां नास्ति छन्दःकल्पना ॥--तत्राद्याध्याये