पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

समानलक्षणं सत् छेदनेन विषुरूपं नानारूपं भवाति भवति तत् सर्वं ते तवानुग्रहेण भूरि बहुलमत्यन्तं संसमेतु सम्यगेकीभवतु । 'प्रसमुपोदः पादपूरणे' (पा. ८ । १।६) इति समित्यस्य द्वित्वम् । पुनः पशुमाह । हे पशो, एवं प्राणैः स्वाङ्गैश्चानेन मन्त्रेण दृढीकृतं देवत्रा यन्तं देवान्प्रति गच्छन्तं त्वा त्वां सखायो मित्रभूता इतरे पशवो मातापितरश्च अनुमदन्तु अभ्यनुजानन्तु । बहुवचनं पूजार्थम् । अवसे अवितुं प्रीणयितुम् । तुमर्थे असेप्रत्ययः । यद्वा अवितुं तन्मुखेन स्वर्गप्राप्त्या स्वकुलं सर्वमवितुमित्यर्थः ॥ २० ॥

एकविंशी।
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वᳪ स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑
ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ छन्दा॑ᳪसि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॑ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ दि॒व्यं नभो॑ गच्छ॒ स्वाहा॒ ऽग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्दि॑ यच्छ॒ दिवं॑ ते धू॒मो ग॑च्छतु॒ स्वर्ज्योति॑: पृथि॒वीं भस्म॒नाऽऽपृ॑ण॒ स्वाहा॑ ।। २१ ।।
उ० प्रतिप्रस्थातोपयजति । समुद्रं गच्छ । हविरुच्यते । समुद्रं गच्छ तर्पणायेति शेषः । एवमुत्तरेष्वपि योज्यम् । सुखं विमृष्टे मनो मे मम हार्दि हृदये गच्छ निबध्नीहि । निबध्यमानो हि स्वादायतनान्न च्यवते । 'तथोहोपयष्टात्मानं नानुप्रवृणक्ति' इति श्रुतिः । स्वरुं जुहोति । दिवं ते । स्वरुरुच्यते । द्युलोकं तव धूमो गच्छतु । कृष्ट्यै स्वर्ज्योतिः। स्वःशब्देनादित्योऽभिधीयते । ज्योतिः आदित्यं गच्छतु तव । पृथिवीं च भस्मना आपृण आपूरय स्वाहा ॥ २१ ॥
म० 'प्रतिप्रस्थातोपयजति गुडतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रमिति' (का० ६ । ९ । १० ) अनुयाजेषु हूयमानेषु प्रतिप्रस्थाता पूर्वं स्थापितं गुदतृतीयभागमेकादशधा तिर्यक्प्रच्छिद्य प्रतिमन्त्रं जुहोतीति सूत्रार्थः । हे हविर्गुडावयरूप, त्वं समुद्रादिनामकान्देवान्गच्छ प्राप्नुहि । तर्पणायेति शेषः । स्वाहा सुहुतमस्तु । 'प्रतिवषट्कारᳪहुत्वा मनो म इति सुखोपस्पर्शनमिति' (का. ६ । ९ । ११) प्रतिवषट्कारमेकैकं हुत्वा सर्वान्ते मुखं स्पृशेदिति सूत्रार्थः । हे समुद्रादिदेवतासमूह, हार्दि हृदयसंबन्धि मे मनो यच्छ निबध्नीहि । निबद्धं मनो हि स्वादायतनान्न च्यवते । 'अनुयाजान्ते स्वरुं जुहोति दिवं ते धूमः इति' (का० ६ । ९ । १२) स्वरुदैवतम् हे स्वरो, ते तव धूमः दिवं द्युलोकं गच्छतु वृष्ट्यै । तव ज्योतिः ज्वाला स्वः आदित्यं गच्छतु । स्वःशब्देनादित्योऽभिधीयतेऽन्तरिक्षं वा । भस्मना पृथिवीमापृण समन्तात्पूरय । स्वाहा सुहुतमस्तु ॥ २१॥

द्वाविंशी ।
माऽपो मौ॑षधीर्हिᳪसी॒र्धाम्नो॑ धाम्नो राजँ॒स्ततो॑ वरुण नो मुञ्च । यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ।
सुमि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म: ।। २२ ।।
उ० हृदयशूलमुपगूहति । मापो मौषधीः । इदं वै पशो: संज्ञप्यमानस्येत्युपक्रम्य हृदयशूलं शुक्समवैतीत्युक्तम् । अत एवमुच्यते । मा हिᳪसीरपः माच ओषधीः हिंसीः । इदानीं वरुणमाह । हे वरुण राजन् , धाम्नोधाम्नः। धामशब्दः स्थानवचनः । यतो यतः पापसमन्वितात्स्थानाद्बिभीमः ततः ततः नोऽस्मान्विमुञ्च । यदाहुः गायत्री वारुणी अनवसाना । यदाहुरघ्न्या इति अघ्न्या गोनाम । प्रकरणादिहानूबन्ध्याविषयं बहुवचनम् । अनूबन्ध्याबहुत्वे अर्थवत् । एकानूबन्ध्यापक्षे तु पूजार्थम् । यद्वेदस्मृतिलोकवाक्यान्याहुः अघ्न्या अवध्या अहन्तव्या वन्द्याः पूजनीया इति । इतिकरणो वाक्यस्यार्थमभिनयेन दर्शयति । वयं तु हे वरुण इति शपामहे । इतिः करणप्रदर्शनार्थः । शपतिर्हिंसार्थः । एवमनेन विधिना हिंस्मः अघ्न्याः अतएव वयं याचामहे । ततो वरुण नो मुञ्च । ततस्तस्मादेनसो वरुण, नः अस्मान्विमुञ्च । | अथाभिमन्त्रयते । सुमित्रियाः साधुमित्रत्वेनावस्थिताः । नः अस्माकं आप ओषधयश्च सन्तु । दुर्मित्रियाः दुष्टमित्रत्वेनावस्थितास्तस्मै सन्तु योऽस्मान्द्वेष्टि शत्रुः यं च शत्रुं द्विष्मो वयम् ॥ २२ ॥
म० 'अभ्यवेत्य शुष्कार्द्रसन्धौ हृदयशूलमुपगूहति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मो मापो मौषधीरिति चेति' (का० ६ । १० । ३ ) जले प्रविश्य आलब्धस्य पशोर्हृदयस्थं मांसं यस्मिन् श्रितं स हृदयशूलस्तं शुष्कार्द्रभूप्रदेशयोः सन्धौ निगूहेत् भूमावधोमुखं क्षिपेत् शुगसि माप इति मन्त्राभ्यामिति सूत्रार्थः । हृदयशूलदैवतं यजुः । हे हृदयशूल, त्वमपो जलानि ओषधीश्च मा हिᳪसीः । 'धाम्नो धाम्नः सुमित्रिया न इत्युपस्पृशन्त्यप इति' ( का० ६ । १० । ५) सर्वे ऋत्विग्यजमाना मन्त्राभ्यां जलं स्पृशन्तीति सूत्रार्थः । वरुणदेवतं यजुः । हे राजन् वरुण, धाम्नो धाम्नः यस्माद्यस्मात् त्वदीयपाशसमन्वितात्स्थानान् वयं बिभीमस्तस्मात्तस्मात्स्थानात् नोऽस्मान्मुञ्च मोचय । यदाहुः । वरुणदेवत्या गायत्री अवसानहीना । अघ्न्या इति गोनाम प्रकरणादिहानूबन्ध्याविषयम् । | बहुवचनमनूबन्ध्याबहुवेऽर्थवत् । एकानूबन्ध्यापक्षेतु पूजार्थम् । अघ्न्या इति यदाहुः वेदस्मृतिलोकवाक्यानि अघ्न्या अहन्तव्या अवध्याः पूजनीया इति वदन्ति । इतिकरणेन वाक्यस्यार्थमभिनयेन दर्शयति । हे वरुण, वयं तु इति शपामहे । इतिकरणं