पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति

मदिन्तमः मदयितृतमः तर्पयितृतमः मृष्टत्वेन । तमूर्मिं देवेभ्यो देवत्रा । 'देवमनुष्य-' इत्यादिना त्राप्रत्ययः । देवान्प्रति यायिनं दत्त प्रयच्छत । शुक्रपेभ्यः शुक्रशब्द उपलक्षणार्थः । शुक्रादिसोमग्रहपातृभ्यो देवेभ्यः येषां च देवानां यूयं भागः स्थ भवत तेभ्यो दत्तेति संबन्धः ॥ २७ ॥
म० 'आपो गत्वा देवीराप इत्यप्सु जुहोतीति' ( का ९ । ३ । ७ ) यच्चतुर्गृहीतमाज्यं सहनीतं तज्जलं प्रति गत्वा जुहोतीति सूत्रार्थः । अब्देवत्या पङ्क्तिः पञ्चपदा चलारिंशद्वर्णा पङ्क्तिः । अत्र द्वितीयः सप्ताक्षरः तुर्यपञ्चमौ नवार्णौ तेनैकाधिका स्वाहेति यजुः । हे आपो देवीः देव्यः, वो युष्माकमपांनपात् अपत्यरूपो योऽयमूर्मिरप्सङ्घातः कल्लोलोऽस्ति देवत्रा देवान्प्रति यायिनं तमूर्मिं देवेभ्यो दत्त प्रयच्छत । येषां देवानां यूयं भागः स्थ भागरूपा भवथ । किंभूत ऊर्मिः । हविष्यः तथा इन्द्रियावान् इन्द्रियं वीर्यमस्यास्तीति इन्द्रियावान् । दीर्घश्छान्दसः । प्रीतः सन्निन्द्रियवीर्यवृद्धिकारी । तथा मदिन्तमः मदयतीति मदी अतिशयेन मदी मदिन्तमः पीयमानोऽत्यन्तहर्षकारी तर्पयितृतमः । 'नाद्धस्य' (पा० ८ । २ । १७) इति तमपि नुमागमः। किंभूतेभ्यो देवेभ्यः। शुक्रपेभ्यः शुक्र इत्युपलक्षणम् । शुक्रादीन् सोमग्रहान् पिबन्तीति शुक्रपाः तेभ्यः। यद्वा शुक्रं दीप्तं सोमं पिबन्तीति । स्वाहा इदमाज्यं युष्मभ्यं हुतमस्तु । ग्रहीष्यमाणानामपां मूल्यत्वेनेयमाहुतिरित्युक्तं तित्तिरिणा । 'देवीरापो अपांनपादित्याहाहुत्या वै निष्क्रीय गृह्णातीति' ॥२७॥

अष्टाविंशी।
कार्षि॑रसि स॑मु॒द्रस्य॒ त्वाक्षि॑त्या॒ उन्न॑यामि । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ।। २८ ।।
उ० कार्षिरसि । अनुष्टुप् यथाविनियोगं देवताः। चमसेनाज्यमपोहति कार्षिरसि । 'कृष विलेखने' । हे आज्य, आकृष्टं त्वमसि । त्वं देवतया भक्षितमित्यर्थः । तेन गृह्णाति । समुद्रस्य त्वा । 'आपो वै समुद्रः' इति श्रुतिः । वसतीवरीलक्षणस्याप्सु समुद्रस्य त्वाम् अक्षित्यै अनुपक्षीणतायै उन्नयामि उद्गृह्णामि । वसतीवरीणां हि वर्धनाय एता आपो गृह्यन्ते । संसृजन्ति । समापो अद्भिरग्मत । संगच्छताम् आपो वसतीवरीलक्षणा आभिरद्भिर्मित्रावरुणचमसस्थाभिः संगच्छतां च ओषधीभिः व्रीहियवादिभिः । ओषधीः मुद्गमसूरादिकाः अपांकरणभूतत्वादोषधीनामपि तथोपयोगो भवत्वित्यभिप्रायः ॥ २८ ॥
म० 'कार्षिरसीति मैत्रावरुणचमसेनाज्यमपोहतीति' (का० ९ । ३ । ८) । अप्सु हुतमाज्यं मैत्रावरुणचमसेन दूरीकरोतीति सूत्रार्थः । कार्षिरसीत्यादिमन्त्रत्रयं मिलित्वानुष्टप्छन्दः। आद्यस्याज्यं देवता । हे आज्यपदार्थ, त्वं कार्षिराकृष्टोऽसि देवतया भक्षितोऽसीत्यर्थः । यद्वा कर्षतीत्येवंशीलः कार्षिः अन्तर्गतशमलापनेतासि । तदाह तित्तिरिः ‘कार्षिरसीत्याह शमलमेवासामुपप्लावयतीति' । 'समुद्रस्य त्वेति तेन गृह्णातीति' ( का० ९।३ । ९) । मैत्रावरुणचमसेन तडागादिस्था अपो गृह्णातीति सूत्रार्थः, द्वे यजुषी अपि । 'आपो वै समुद्रः' (३ । ९ । ३ । २७) इति श्रुतेर्वसतीवरीलक्षणस्य समुद्रस्याक्षित्यै अक्षीणत्वाय हे जल, त्वा त्वामुन्नयामि गृह्णामि । वसतीवरीणां वृद्धौ जलमेतद्गृह्यते । 'प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीश्च सᳪस्पर्शयति समाप इति' ( का० ९ । ३ । १२) जलाशयात्प्रत्यागत्य चात्वालोपरि मैत्रावरुणचमसस्था अपो वसतीवरीभिः संयोजयतीति सूत्रार्थः । आपो मैत्रावरुणचमसस्था अद्भिः वसतीवरीभिः समग्मत संगच्छन्ताम् । गमेर्लुङि तङि प्रथमबहुवचने शपि लुप्ते 'गमहन-' (पा० ६ । ४ । ९८) इत्युपधालोपे समग्मतेति रूपम् । तथा ओषधीः ओषधयः मुद्गमसूरादिका ओषधीभिर्व्रीहियवादिभिः संगच्छन्ताम् अपां कारणभूतत्वादोषधीनामपि योगोऽस्तु ॥ २८ ॥

एकोनत्रिंशी।
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिष॒: स्वाहा॑ ।। २९ ।।
उ० जुहोति । यमग्ने । गायत्र्याग्नेयी । हे अग्ने, यं मर्त्यं मनुष्यं पृत्सु संग्रामेषु अवाः । अवते रक्षणार्थस्यैतद्रूपम् । अवसि रक्षसि । वाजेषु । वाज इत्यन्ननाम । हविर्लक्षणेष्वन्नेषु अभ्युद्यतेषु । यं च पुरुषं जुनाः जुनातिर्गत्यर्थः। अभिगच्छसि । स पुरुषो यन्ता जिनात्यन्नं, तृजन्तमेतत् आद्युदात्तत्वात् । - लब्धा सततं भवति । शश्वतीः शाश्वतिकाः । इषः अन्नानि ॥ २९ ॥
म० 'प्रचरणीसᳪस्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्ने' (का० ९ । ३ । १६) इति अग्निष्टोमसंस्थे क्रतौ प्रचरणीपात्रलिप्तमाज्यशेषं जुहुयात् शेषाज्यस्य होमपर्याप्त्यभावे चतुर्गृहीतमादाय जुहोतीति सूत्रार्थः । आग्नेयी गायत्री मधुच्छन्दोदृष्टा । हे अग्ने, पृत्सु सङ्ग्रामेषु यं मर्त्यं मनुष्यं त्वमवाः अवसि रक्षसि । अवतेः 'इतश्च लोपः परस्मैपदेषु' (पा० । ३ । ४ । ९७ ) इति सिप इकारलोपे 'लेटोऽडाटौ' (पा० ३।४। ९४) इत्याडागमे वा इति रूपम् । किंच वाजेषु वाज इत्यन्ननाम । हविर्लक्षणेष्वन्नेषु अन्ननिमित्तं यं पुरुषं त्वं जुनाः गच्छसि । हवींषि ग्रहीतुं यस्य सकाशं गच्छसीत्यर्थः । 'जु गतौ' श्नाप्रत्ययः 'इतश्च लोपः- ( पा० ३ । ४ । ९७ ) इतीकारलोपे रूपं जुना इति । स मर्त्यस्त्वदनुग्रहेण शश्वतीरिषः नित्यान्यन्नानि धनरूपाणि यन्ता नियस्यति प्राप्स्यतीत्यर्थः लुट् । स्वाहा | सुहुतमस्तु । उक्थसंस्थे यमग्ने इति मन्त्रेणाद्यं परिधिं स्पृशेत् । | षोडशिसंस्थे रराटीं स्पृशेत् । अतिरात्रे छदिः स्पृशेत् । अन्यसंस्थासु हविर्धानं प्रविशेत् ॥ २९ ॥