पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

ऊर्जं धत्स्व रसं धेहि । एवं सोमं संबोध्य अथेदानीं द्यावापृथिव्यौ संबोधयति । हे धिषणे हे द्यावापृथिव्यौ । वीड्वी सती वीडयेथाम् । वीडुशब्दो दृढवचनः । युवां स्वतएव दृढे सत्यौ वीडयेथां दृढमात्मानं कुरुतम् । अस्मात् ग्राव्णः उद्यतात् । किंच ऊर्जं रसं दधाथाम् । अस्मिन्सोमे अनेन उद्ग्राव्णा वज्रसंयुक्तेन पाप्मा यजमानस्य हतः नतु सोमः ॥ ३५ ॥
म० मा भेरिति प्रहरतीति' ( का. ९। ४ । १५) उपांशुसवनेनाश्मना सोमे प्रहरेदिति सूत्रार्थः । अर्ध सौम्यमर्ध द्यावापृथिव्यम् । हे सोम, त्वं मा भेः मा भैषीः । शपो लुकि लङि रूपम् । मा संविक्थाः कम्पनं मा कृथाः । 'ओविजी भयचलनयोः' लुङि रूपम् । यतो देवतर्पणायाहं त्वामभिषुणोमि अत ऊर्जं धत्स्व रसं धेहि । एवं सोमं संबोध्य द्यावापृथिव्यौ संबोधयति । हे धिषणे हे द्यावापृथिव्यौ, युवां वीड्वी सती वीडयेथाम् । वीडुशब्दो दृढवचनः । दृढे सत्यावात्मानं दृढं कुरुतम् अस्मादुद्यताद्ग्राव्णः । किंच ऊर्जं दधाथां रसं धत्तम् अस्मिन् सोमे । अनेन तु वज्रसंस्तुतेन ग्राव्णा यजमानस्य पाप्मा हतो न तु सोमः ॥ ३५ ॥

षट्त्रिंशी।
प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ आधा॑वन्तु । अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ।। ३६।।
उ० निग्राभं वाचयति । प्रागपागुदक् । द्वाभ्यामृग्भ्यामुष्णिग्बृहतीभ्याम् । सौमी द्वितीया ऐन्द्री । सा दिग्भिर्मिथुनमिच्छति । तच्च देवाः संपादितवन्तः । तदेतदृचाभ्युक्तम् । हे सोम, प्राक् प्रागञ्चनाः । अपाक् अधराञ्चनाः । एवं सर्वतः त्वां दिशः आधावन्तु अभिसमागच्छन्तु । दिग्वासिनो वा जनाः किमभिभाषमाणाः परस्परं त्वामभिधावन्तु । अम्ब निष्पर । हे अम्ब, प्राच्यादिविशेषदिगभिधाने निश्चित्य सोमं पर । 'पॄ पालनपूरणयोः' इत्यस्यैतद्रूपम् । पूरय स्वैर्भावैरेतं सोमम् । किं प्रयोजनमिति चेत् समरीर्विदाम् । 'प्रजा वा अरी' इति श्रुतिः। संविदा संविदन्ताम् । अरीः प्रजाः । एतदुक्तं भवति । सोमसमागमेऽस्माकं सन्ति नानादिग्वासिनो जनाः संजानते एवम् ॥ ३६ ॥

चमस

म० प्रतिवर्गं निग्राभं वाचयति होतृचमसेऽल्पानᳪशूनवधाय प्रागपागिति' (का० ९ । ४ । २० ) प्रतिप्रहारवर्गं होतृचमसमध्ये स्तोकान्सोमांशून्निधाय प्रागपागिति ऋग्द्वयं निग्राभसंज्ञं यजमानं वाचयेदिति सूत्रार्थः । सोमदेवत्योष्णिक् । सोमो दिग्भिर्मिथुनमैच्छत्तच्च देवाः संपादितवन्तस्तदेतदृचाभ्युक्तम् । हे सोम, प्राक् प्रागञ्चनाः अपाक् अपागञ्चनाः दक्षिणाः पश्चिमाश्च उदक् उदगञ्चना उत्तराः अधराक् अधराञ्चनाः एवं प्रागादयः सर्वा दिशः सर्वतः स्वस्वप्रदेशात्त्वा त्वामाधावन्तु आभिमुख्येन गच्छन्तु । परस्परं किं भाषमाणास्त्वामभिधावन्त्विति तदाह । हे अम्ब हे मातः, निष्पर स्वैर्भागैः सोमं पूरय । 'पॄ पालनपूरणयोः' विकरणव्यत्यये लोटि रूपम् । किं प्रयोजनमिति चेत् । अरीः अर्यः प्रजाः संविदा संविदताम् 'प्रजा वा अरीः' (३ । ९ । ४ । २१ ) इति श्रुतिः । अस्माकं सोमसमागमं नानादिग्वासिनो जना जानन्त्वित्यर्थः । इति भाषमाणास्त्वामागच्छन्तु । 'विद ज्ञाने' अस्माल्लटि तङि प्रथमाबहुवचने 'आत्मनेपदेष्वनतः' (पा. ७ । १ । ५) इति झस्यादादेशे 'लोपस्त आत्मनेपदेषु' ( पा० ७ । १ । ४१ ) इति । तकारलोपे सवर्णदीर्घे विदामिति रूपम् । 'समो गम्' (पा० १। ३ । २९ ) इत्यादिना तङ् ॥ ३६ ॥

सप्तत्रिंशी।
त्वम॒ङ्ग प्रश॑ᳪसिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् । न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वच॑: ।। ३७।। ॥
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां षष्ठोऽध्यायः ॥६॥
उ० त्वमङ्ग । हे इन्द्र, यतः त्वम् अङ्ग । अङ्गेति क्षिप्रप्रनाम । क्षिप्रं प्रशᳪसिषः प्रशंससि । देवः सन् हे शविष्ठ बलिष्ठ मर्त्यं मनुष्यं यजमानम् । अतः कारणात् न त्वत् न त्वत्तः अन्यः हे मघवन् धनवन् अस्ति विद्यते मर्डिता 'मृड सुखने' । सुखयिता यजमानानाम् । इन्द्र ब्रवीमि अत्यद्भुतं तव संबन्धि वचः वचनमार्षम् ॥ ३७ ॥
इति उवटकृतौ मन्त्रभाष्ये षष्ठोऽध्यायः ॥ ६ ॥
म० इन्द्रदेवत्या पथ्याबृहती गोतमदृष्टा । अङ्गेति क्षिप्रनाम । हे शविष्ठ अतिशयेन बलवन् इन्द्र, देवः दीप्यमानस्त्वं मर्त्यं मनुष्यं यजमानं प्रशंसिषः प्रशंससि स्तोषि । समीचीनोऽयं यजमानो होता श्रद्धावानित्यादिस्तुतिं करोषीत्यर्थः । 'शंसु हिंसास्तुत्योः' लिडर्थे लेट् मध्यमैकवचने सिबादेशः 'सिब्बहुलं लेटि' (३।१।३४) इति सिप्प्रत्ययः तस्य 'आर्धधातुकस्येड्वलादेः (पा० ७ । २ । ३५ ) इति इडागमः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इति सिपोऽडागमः 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इति सिप इकारलोपः । तस्य रुत्वविसर्गौ षत्वम् । प्रशंसिष इति रूपम् ‘तिङ्ङतिङः' (पा० ८ । १ २८ ) इति सर्वानुदात्तत्वम् । किंच हे मघवन् हे धनवन् इन्द्र, मर्डिता 'मृड सुखने' मृडीति मर्डिता यजमानस्य सुखयिता त्वदन्यो नास्ति न विद्यते । अतो हे इन्द्र, ते तव वचः त्वमेव सुखयितेत्येवंरूपं त्वदीयं वचनमहं ब्रवीमि वदामि ॥३७॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । अभ्र्यादानाद्वाचनान्तः षष्ठोऽध्यायः समीरितः ॥ ६ ॥