पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वदत । किम् । यत् हे बृहस्पते, त्वं वाजमन्नं जय । किंच हे दुन्दुभयः, यूयमेव बृहस्पतिं वाजमन्नं जापयत । बृहस्पतिनान्नजयं कारयतेत्यर्थः । 'जि जये' इत्यस्य हेतुमण्णिचि 'क्रीङ्जीनां णौ' (पा०६।१ । ४८) इति धातोराकारे कृते 'अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ' (पा. ७ । ३ । ३६) इति पुगागमे लोण्मध्यमबहुवचने जापयतेति रूपम् । क्षत्रयज्ञे दुन्दुभिवादनमन्त्रः । हे दुन्दुभयः, यूयमिन्द्रायेति वाचं वदत यत् हे इन्द्र, त्वं वाजं जय । इन्द्रवाजं यूयं जापयतेति पूर्ववत् ॥ ११॥
 
द्वादशी।
ए॒षा व॒: सा स॒त्या सं॒वाग॑भू॒द्यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जप॒ताजी॑जपत॒ बृह॒स्पतिं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ।
ए॒षा व॒: सा स॒त्या सं॒वाग॑भू॒द्ययेन्द्रं॒ वाज॒मजी॑जप॒ताजी॑जप॒तेन्द्रं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ।। १२ ।।
उ० दुन्दुभिमवहरति । एषा वः । एषा वः युष्माकं सा सत्या अवितथा संगतवादिनी वाक् अभूत् यया वाचा बृहस्पतिं वाजमन्नं जेष्यामीति इत्थमीदृशम् अजीजपत् । जपतेर्णिचि लुङि चङि एतद्रूपं भवति । जापितवन्तः। उद्वादितवन्त इत्यर्थः । यच्च यूयमजीजपद्बृहस्पतिं वाजमन्नं जेष्यामीति तच्च बृहस्पतिना जितम् । अतो यूयं कृतकृत्याः सन्तः हे वनस्पतयो वा वानस्पत्या दुन्दुभयो विमुच्यध्वम् । उत्तरोऽपि मन्त्रोऽनेनैव व्याख्यातो देवतामात्रं तु विशेषः ॥ १२ ॥
म० एषा व इति मन्त्रहतमवहरते तूष्णीमितरानिति' ( का० १४ । ४ । ९ । १० ) सप्तदशदुन्दुभीनां मध्ये मन्त्रवादितं मन्त्रेणावतारयति षोडश तूष्णीं स्थाणुभ्यः । पूर्वो मन्त्रो विप्रयज्ञे उत्तरः क्षात्रे । हे दुन्दुभयः, वो युष्माकमेषा वाक् सत्या समभूत् तथ्या जाता । यया वाचा बृहस्पतिं वाजमजीजपत । पुनर्बृहस्पतिं वाजमजीजपत 'अभ्यासे भूयांसमर्थं मन्यन्ते' ( नि० १० । ४२) इति यास्कोक्तेर्भूयानर्थो ग्राह्यः । अत्यन्तं बृहस्पतिमन्नजयं कारितवन्तो यूयं यया वाचा सा सत्या जातेत्यर्थः । जयतेर्णिजन्तस्य लुङि मध्यमबहुवचनेऽजीजपतेति रूपम् । हे वनस्पतयो वनस्पतिविकारा दुन्दुभयः, यूयं विमुच्यध्वं कृतकृत्याः सन्तो विमोचनं कुरुत । क्षात्रे यज्ञे उत्तरो मन्त्रः। यया वाचा इन्द्रं वाजमजीजपत सा सत्याभूदतो यूयं विमुच्यध्वं तुल्यम् ॥ १२ ॥

त्रयोदशी।
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम् ।
वाजि॑नो वाजजि॒तोऽध्व॑न स्कभ्नु॒वन्तो॒ योज॑ना॒ मिमा॑ना॒: काष्ठां॑ गच्छत ।। १३ ।।
उ० रथमारोहयति यजमानः । देवस्याहम् । देवस्य सवितुः सत्यप्रसवसः प्रसवे अहं वर्तमानः बृहस्पतेर्वाजस्य जेतुः संबन्धि वाजमन्नं जेषम् । वाचयति वाजिनो वाजजितः अश्वा उच्यन्ते । हे वाजिनः वाजजितः अन्नस्य जेतारः, अध्वनः मार्गान् स्कभ्नुवन्तः क्षोभयन्तः। स ह्यश्वानां स्वभावः। योजनानि अतिशीघ्रतया मिमानाः परिच्छिन्दन्तः शीघ्रं काष्ठाम् आज्यन्तं (!) गच्छत आज्यन्तोपि काष्ठोच्यते क्रान्त्वा स्थितो भवति ॥ १३ ॥
म० 'देवस्याहमिति यजुर्युक्तमारोहति यजमानः' ( का० | १४ । ३ । १८ ) मन्त्रयुक्तं रथं यजमान आरोहेत् । सत्यप्रसवसः सत्याभ्यनुज्ञस्य सवितुर्देवस्य सवेऽनुज्ञायां वर्तमानोऽहं वाजजितोऽन्नजेतुर्बृहस्पतेः संबन्धिनं वाजमन्नं जेषं जयेयं । जयतेर्लेटि उत्तमैकवचने 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे 'सिब्बहुलं लेटि' (पा० ३ । १ । ३४) इति सिप् प्रत्ययः 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इति मिप इकारलोपे गुणे च जेषमिति रूपम् । यद्वा लुङि अङि उत्तमैकवचनेऽडभावे । 'वाजिन इति वाचयतीति' ( का० १४ । ३ । २२)। हे वाजिनोऽश्वाः, यूयं काष्ठां गच्छत आज्यन्तं प्राप्नुत । उत्कर्ष गच्छतेत्यर्थः । आज्यन्तोऽपि काष्ठोच्यते । 'क्रान्त्वा स्थितो भवति' (नि. २ । १८ ) इति यास्कोक्तेः । 'काष्ठोत्कर्षे स्थितौ दिशि' इत्यभिधानाच्च । किंभूता यूयम् । वाजजितः अन्नस्य जेतारः । तथा अध्वनो मार्गान् स्कभ्नुवन्तः रुन्धन्तः क्षोभयन्तः। स ह्यश्वस्वभावः । तथा योजना योजनानि मिमानाः अतिशीघ्रतया परिच्छिन्दन्तः ॥ १३ ॥

चतुर्दशी।
ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
क्रतुं॑ दधि॒क्रा अनु॑ स॒ᳪसनि॑ष्यदत्प॒थामङ्का॒ᳪस्यन्वा॒पनी॑फण॒त् स्वाहा॑ ।। १४।।
उ० द्वाभ्यां जगतीभ्यामश्वदेवत्याभ्यां जुहोति । एषस्य वाजी। अयं स वाजी वेजनवान् । क्षिपणिं तुरण्यति क्षपणमनु कशाघातमनु । तुरण्यति तूर्णमश्नुतेऽध्वानम् । कथंभूतः सन् इत्यत आह । ग्रीवायां बद्धोऽपि बद्ध आसनि ग्रीवायामुरोवध्रेण बद्धः । कक्षे पर्याणप्रदेशे सन्नाहरज्ज्वा बद्धः । आसनि आस्ये च मुखे कविकया बद्धः । किंच क्रतुं दधिक्रा अनुसंसनिष्यदत् क्रतुं कर्म प्रज्ञां वा दधिक्रा अश्वः । स हि अश्ववारं दधत् क्रामति । सनिष्यदत्। स्यन्दतेस्तनोत्यर्थे वर्तमानाद्यङ्लुकि निपात्यते । अथ कोर्थः । स्वकीयं कर्म प्रज्ञां वा दधिक्रा अत्यर्थमनुसंतनोति । किंच पथामङ्काᳪस्यन्वापनीफणत् । पथां कुटिलानि चक्राणि अतिशीघ्रतया क्षिप्रं प्राप्नोति । अन्वाङ्पूर्वस्य फणतेर्गत्यर्थे वर्तमानस्य चर्करीतवृत्तम् ॥ १४॥