पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवध्वमित्यर्थः । किंभूतमिमम् । अमुष्य पुत्रम् । अमुष्येति षष्ठ्यन्तं यजमानपितुर्नाम ग्राह्यम् । तथा अमुष्यै षष्ठ्यर्थे चतुर्थी । अमुष्या देव्याः पुत्रम् । अमुष्या इति यजमानमातुर्नामग्रहः । अस्यै विशे अस्याः कौरव्याः विशः प्रजाया अधिपतिमिति शेषः । अस्यै इति षष्ठ्यन्तं जातिनाम ग्राह्यम् । अमी इति प्रथमान्तं देशनाम ग्राह्यम्। अमी हे कुरवः पञ्चालाः, वो युष्माकमेष खदिरवर्मा राजास्तु । अस्माकं ब्राह्मणानां तु सोमश्चन्द्रो वल्लीरूपो वा सोमो राजा प्रभुरस्तु ॥ ४० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
वाजपेयो राजसूयारम्भान्तो नवमोऽगमत् ॥ ९ ॥

दशमोऽध्यायः।
तत्र प्रथमा
अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नूर्ज॑स्वती राज॒स्वश्चिता॑नाः ।
याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न्याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ।। १ ।।
उ० अपो देवा मधुमतीः । वरुणस्यार्षं प्राक् चरकसौत्रामण्याः । अब्देवत्या त्रिष्टुप् । या अपो देवाः मधुमतीः मधुस्वादोदकाः । अगृभ्णन् गृहीतवन्तः । ऊर्जस्वतीः अन्नवतीः । राजस्वः राजानं याः सुवन्ति जनयन्ति ता राजस्वः। चितानाः चेतयमानाः परिदृष्टकारिण्यः । किंच याभिरद्भिर्मित्रावरुणावभ्यषिञ्चन्नभिषिक्तवन्तः । देवा इत्यनुवृत्तिः। याभिः इन्द्रम् अनयन् नीतवन्तः । अत्यरातीः अतीत्य अरातीः अदनवतीः शत्रुसेनाः । प्रकृतत्वाद्देवाः पदमस्ति ताः गृह्णामीति शेषः ॥ १॥
म०. नवमेऽध्याये वाजपेय-राजसूयसंबन्धि कियदपि कर्मोक्तं । दशमेऽभिषेकार्थजलादानादिराजसूयशेषश्चरकसौत्रामणी चोच्यते । तत्र इडान्तेऽपो गृह्णाति यूपमुत्तरेण नैमित्तिकीरसंभवाद्गत्वेतराः पृथक् पात्रेष्वौदुम्बरेषु ( का० १५ । ४ । २०-२२) 'सारस्वतीर्गृह्णात्यपो देवाः' (१५ । ४ । ३३ ) इति । इडाग्रहणं कार्यशेषोपलक्षणम् । देवसूहविषां भागपरिहरणान्ते कृते अभिषेकार्था वक्ष्यमाणा अपो वक्ष्यमाणप्रकारेणौदुम्बरवृक्षपात्रेषु पृथग्गृह्णाति । तत्र विशेषः । निमित्तवशात्प्राप्या नैमित्तिक्यः यथान्तरिक्षात्प्रतिगृह्यातपवर्षाः प्रुष्वाः गोरुल्व्या इत्याद्याः ता राजसूयारम्भात् प्रागेव संपाद्य तदानीं यूपमुत्तरेण गृह्णीयात् । कुतः असंभवात् तदानीमातपवर्षणादेर्निमित्तस्याभावात् इतरा अनैमित्तिकीरपो गत्वा तदानीमेव गृह्णीयात् । तत्र मन्त्रानाह । अपो देवा इति सरस्वतीनदीसंबन्धिनीरप आदौ गृह्णाति । चरकसौत्रामण्याः प्राग्वरुण ऋषिः । अब्देवत्या त्रिष्टुप् । देवा इन्द्रादयो या अपोऽगृभ्णन् गृहीतवन्तः । किंभूता अपः । मधुमतीः मधुरस्वादोपेताः । तथा ऊर्जस्वतीः ऊर्जा विद्यते यासु । विशिष्टान्नरसवतीः । राजस्वः राज्ञः सूयन्ते जनयन्तीति राजस्वः नृपोत्पादिकाः । चितानाः चेतयमानाः सदेवतत्वात्परिदृष्टकारिणीः । पुनस्ता एव विशिनष्टि । याभिरद्भिर्देवा मित्रावरुणौ अभ्यषिञ्चन् मित्रावरुणयोरभिषेकं कृतवन्तः । याभिरद्भिर्देवा इन्द्रं देवमरातीः शत्रून् अत्यनयन् अतीत्य नीतवन्तः इन्द्रं शत्रूनत्यक्रामयन्नित्यर्थः । 'छन्दसि परेऽपि' (पा० १ । ४ । ८१) इति अतेरुपसर्गस्य क्रियापदात्परत्वम् । ता अपो गृह्णामीति शेषः ॥ १॥

द्वितीया।
वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि वृ॑षसे॒नो॒ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ वृषसे॒नो॒ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ।। २ ।।
उ० अनेन मन्त्रेण सारस्वतीर्गृहीत्वा अनन्तरं हुत्वा षोडशापो गृह्यन्ते । तत्र प्रथमो होममन्त्रः। द्वितीयो ग्रहणमन्त्रः। नदीप्रवाहेऽवस्थितस्य पशोर्वा पुरुषस्य वा यौ ऊर्मी व्यर्दतः तौ गृह्णाति । स यः प्राङुदर्दति प्राङुद्गच्छति तं गृह्णाति । वृष्ण ऊर्मिरसि राष्ट्रदाः । यस्त्वं वृष्णो वर्षितुः सेक्तुः संबन्ध्य ऊर्मिरसि । वृषा हि यदि पुरुषो यदि पशुः राष्ट्रदाश्च । राष्ट्रं जनपदः तस्य स्वभावत एव दातासि तं त्वां ब्रूमो राष्ट्रं मे मह्यं देहि । स्वाहा गृह्णामि । वृष्ण ऊर्मिरसि राष्ट्रदाः राष्ट्रममुष्मै । अमुष्मा इति यजमानस्य नामग्रहः । देहि । एवमुपरितना अपि मन्त्रा व्याख्येयाः । द्वितीयमूर्मिं गृह्णाति । वृषसेनोसि । वृषा युवोच्यते । वृषप्रधाना सेना यस्य स वृषसेनः । स्यन्दमानाः ॥ २॥
म० 'जुहोत्युत्तरासु चतुर्गृहीतं वृष्ण ऊर्म्यादिभिः स्वाहाकारान्तैः पूर्वैः पूर्वैः प्रतिमन्त्रमुत्तरैरुत्तरैर्गृह्णाति' ( का० १५ । ४ । ३४) 'अवगूढात्पशोः पुरुषाद्वा पूर्वापरा ऊर्मी इति' (१५ । ४ । २३ ) सारस्वतीरादायोत्तरासु षोडशस्वप्सु, वृष्ण ऊर्मिरित्यादिभिः स्वाहान्तैः पूर्वपूर्वमन्त्रैश्चतुर्गृहीताज्यानि गृह्यमाणासु जुहुयात् उत्तरैः स्वाहाहीनैर्मन्त्रैस्ताः क्रमेण गृह्णाति । उत्तरमन्त्रेषु अमुष्मै इति पदस्थाने चतुर्थ्यन्तं यजमाननाम ग्राह्यम् । वृष्ण ऊर्मिरित्यादयो विश्वभृत स्थेत्यन्ता मन्त्राः संहितायां द्विशः पठितास्तेषां पूर्वः पूर्वः स्वाहान्तस्तेनाज्यहोमः उत्तरोत्तरः स्वाहाहीनस्तेनापामादानम् । तत्र गत्वा जले प्रविष्टात्पशोर्नराद्वा यौ पूर्वापरौ कल्लोलौ तौ हुत्वा गृह्णातीति सूत्रार्थः । वृष्ण ऊर्मिरसीत्यादीनि आपः स्वराज इत्यन्तानि यजूंषि लिङ्गोक्तदेवतानि । हे कल्लोल, त्वं वृष्णो वर्षितुः सेक्तुः पशोर्नरस्य वा संबन्धी ऊर्मिः कल्लोलोऽसि । राष्ट्रदाः राष्ट्रं जनपदं ददातीति राष्ट्रदाः स्वभावत एव देशप्रदो भवसि अतो राष्ट्रं मे मह्यं देहि स्वाहा हविर्दत्तमस्तु । एवं हुत्वाथ गृह्णाति वृष्ण ऊर्मिरसि