पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

राष्ट्रदा अतोऽमुष्मै यजमानाय राष्ट्रं जनपदं देहि । अमुष्मै इति चतुर्थ्यन्तं यजमाननाम ग्राह्यम् । एवमुपरितना अपि मन्त्रा व्याख्येयाः । अपरोर्मिं गृह्णाति वृषसेनोऽसि वृषा सेचनसमर्था सेना जलराशिरूपा यस्य स वृषसेनः । व्याख्यातमन्यत् ॥ २॥

तृतीया ।
अ॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ ऽर्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्ताप॑: परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ ऽप॑: परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्ता॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ ऽपां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देह्य॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ ऽपां गर्भो॑ सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि॒ ।। ३ ।।
उ० अर्थेत स्थ राष्ट्रदाः । अर्थं प्रयोजनं निष्पादयितुं याः यन्ति गच्छन्ति ता अर्थतः । अस्तेर्बहुवचनं स्थइति । राष्ट्रदाः। एतदपि बहुवचनम् । राष्ट्रं मे दत्त । दत्तेति ददातेर्बहुवचनम्। व्याख्यातमन्यत् । प्रतिलोमाः तु ओजस्वतीः ओजसा बलेन युक्ताः सत्यः एताः प्रतिलोमाः स्यन्दन्ते। अपयतीः आपः परिवाहिणीः । हे आपः, याः यूयं परिवाहिणीः सर्वतो वहनशीलाः स्थ उक्तमन्यत् । नदीपतिः अपांपतिरसि । ऋज्वर्थः । निवेष्ट्यम् 'वेष्ट वेष्टने' अस्य निपूर्वस्यान्त्यव्यापत्या निवेष्ट्य आवर्त उच्यते । स्यन्दमानाः स्थावराः प्रत्यागता आपः ॥३॥
म० 'स्यन्दमाना इति नद्यादिप्रवाहस्था अपो गृह्णाति' । (का० १५ । ४ । २४ ) अर्थेतः अर्थं प्रयोजनमुद्दिश्य नद्यादेः सकाशाद् यज्ञदेशं यन्ति गच्छन्तीत्यर्थेतः । इणः क्विपि तुगागमः। तथाविधा यूयं राष्ट्रदा देशदात्र्यः स्थ भवथ । मे राष्ट्र दत्त यच्छत । दत्तेति बहुवचनम् अन्यद्व्याख्यातम् ( का० १५। ४ । २५)। प्रतिलोमाः । वहन्तीनां याः प्रतिगच्छन्ति तासु होमादाने । हे आपः, यूयमोजस्वतीः ओजसा बलेन युक्ता भवथ । 'अपयतीरिति' ( का० १५ । ४ । २६) वहन्तीनामपां मध्याद्या मार्गान्तरेण गत्वा पुनस्तत्र मिलन्ति ता अपयत्यस्तासु होमादाने । हे आपः, यूयं परिवाहिणीः स्थ परि सर्वतो वहन्तीति परिवाहिण्यः सर्वतोवहनशीला भवथ उक्तमन्यत् (का० १५ । ४ । २७ । ) नदीपतिमिति । -समुद्रस्यापां होमादाने । अपां जलानां पतिः स्वामी पालकोऽसि । (का० १५ । ४ । २९) निवेष्या इति । निवेष्य आवर्तस्तद्भवा निवेष्याः नद्यादौ यत्राम्भोभ्रमस्तत्र होमादाने हे जलभ्रम, त्वमपां गर्भो मध्यवर्ती भवसि ॥ ३ ॥

चतुर्थी।
सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्ताप॑: स्व॒राज॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । मधु॑मती॒र्मधु॑मतीभिः पृच्यन्तां॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य वन्वा॒ना अना॑धृष्टाः सीदत स॒हौज॑सो॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य॒ दध॑तीः ।। ४ ।।
वाशा-वाशी पाठभेदः
उ० सूर्यत्वचस स्थ । सूर्यस्येव त्वक् यासां ताः सूर्यत्वचस आतपवर्ष्याः स्थ । सूर्यवर्चसः स्थ राष्ट्रदाः सूर्यवर्चसः सूर्यस्येव वर्चस्तेजो यासां ताः सूर्यवर्चसः । सरस्याः मान्दास्थ | मन्दतेर्मादनार्थस्य मन्दः । तत्र हि मोदन्ति भूतानि बहूदकत्वात् , तत्र भवा आपो मान्दाः । कूप्याः गृह्णाति । व्रजक्षित स्थ । व्रज इति मेघनामसु पठितम् । इह तूदकवत्वसाम्यात्कूप उच्यते । व्रजे क्षियन्ति व्रजक्षितः पुष्या अवस्थायाः । वाशीस्थ । 'वश कान्तौ' । कामिता अभिलषिताः स्थ । ता हि सर्व एव कामयन्ते अन्नहेतुत्वात् । मधुशविष्ठा स्थ । शव इति बलनाम शविष्ठा बलिष्ठाः । बलिष्ठं हि मधु त्रिदोषशमनत्वात् । उक्तं च 'त्रिदोषघ्नं मधु प्रोक्तं केचिदिच्छन्ति वातलम्' इति । गोरुल्व्यागृह्णाति । शक्करीस्थ । 'शक्लृ शक्तौ' 'आतो मनिन्क्वनिब्वनिपश्च' । शक्नुवन्ति हि गावो जगदुद्धर्तुं वाहदोहादिभिः । पयः जनभृतः । जनान् हि पयो बिभर्ति बालभावे धृतं । विश्वभृतः विश्वं सर्वं देवाद्यपि धृतं बिभर्ति । मरीचीः । आपः स्वराज स्थ । हे आपः, या यूयं स्वराजस्थ स्वकीयमेव राज्यं यासां तास्तथोक्ताः। अनन्याश्रितराज्या इत्यर्थः । व्याख्यातमन्यत् । औदुम्बरपात्रे संमासिञ्चत्येता मधुमतीः मधुमतीमधुररसवत्यः मधुररसवतीभिर