पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

जुहोति प्रतिमन्त्रमिति' (का० १५। ६ । २३)। रथविमोचनीयसंज्ञाश्चतस्र आहुतीर्जुहोति । चत्वारि यजूंषि लिङ्गोक्तदेवत्यानि । गृहाश्रमपालकायाग्नये स्वाहा सुहुतमस्तु । वनस्पतिरूपिणे सोमाय हविर्दत्तमस्तु । इन्द्रस्येन्द्रसंबन्धिने इन्द्रियाय वीर्याय स्वाहा । मरुतां संबन्धिने ओजसे बलाय हविर्दत्तमस्तु । 'भूमिमवेक्षते पृथिवि मातरिति' ( का० १५। ६ । २४)। रथस्थ एव यजमानो भूमिं पश्येत् । भूमिदेवत्यम् । हे मातर्जगन्निर्मात्रि, हे पृथिवि भूमे, त्वं मा मां मा हिंसीः हिंसां मा कार्षीः । अहमपि त्वां पृथिवीं मो मा उ हिंसिषम् ॥२३॥

चतुर्विंशी।
ह॒ᳪसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।। २४ ।।
उ० अवतरति । हᳪसः शुचिषत् । 'सप्रपञ्चपरब्रह्माभिधायिनी अतिच्छन्दा अतिजगती'इति श्रुतेः । हंसः शुचिषत् हन्त्यध्वानमिति हंसो भगवानादित्यः शुचिषत् । शुचौ दीप्तौ सीदतीति शुचिषत् । य आदित्यरूपेण शुचिषत् यश्च वसुर्वासयिता वायुरूपेणान्तरिक्षे सीदति । यश्च होता आह्वाता अग्निरूपेण वेदौ सीदति । यश्च अतिथिरूपेण दुरोणे गृहे सीदति । यश्च नृषु मनुष्येषु प्राणभावेन सीदति । यश्च वरेषूत्कृष्टेषु सीदति । यश्च ऋते सत्ये सीदति । यश्च व्योमसु अन्तरिक्षेषु सर्वेषु सीदति । एवं सर्वत्र स्थितिभावेन स्तुत्वा अथेदानीं सर्वत्रोत्पत्तिद्वारेण स्तौति । यश्च अब्जा अप्सु जायते इत्यब्जाः। यश्च गवि पृथिव्यां चतुर्विधभूतग्रामरूपेण जायते । यश्च ऋते सत्ये जायते । यश्च अद्रौ पाषाणे अग्निरूपेण जायते मेघोऽप्यद्रिरुच्यते मेघे वा उदकरूपेण जायते । तत् ऋतम् । 'ऋ गतौ' । सर्वतो गतं परब्रह्म । बृहत् परिवृद्धम् । अनन्तमपर्यन्तम् । एवं परब्रह्मवादिनाऽस्य मन्त्रस्य तत्परब्रह्मप्रत्यवतरामीति वाक्यशेषः ॥ २४ ॥
म० 'अवरोहति हᳪसः शुचिषदिति' (का० १५ । ६ । २५)। यजमानो रथादवरोहति । सप्रपञ्चपरब्रह्माभिधायिनी सूर्यदेवत्यातिजगती वामदेवदृष्टा । हन्त्यहंकारमिति हंसो भगवानादित्य एवंविधः त्वं प्रत्यवतरामीति वाक्यशेषः। किंभूतो हंसः । शुचिषत् शुचौ दीप्तौ सीदतीति शुचिषत् आदित्यरूपेण । तथा वसुर्वासयिता नराणां प्रवर्तकः। अन्तरिक्षे सीदतीत्यन्तरिक्षसत् वायुरूपेण । होता आह्वाता देवानाम् । वेदौ सीदतीति वेदिषत् अग्निरूपेण । अतिथिः सर्वेषां पूज्यः । दुरोणे यज्ञगृहे सीदतीति दुरोणसत् आहवनीयादिरूपेण । नृषु मनुष्येषु प्राणभावेन सीदतीति नृषत् । वरेषु उत्कृष्टेषु स्थानेषु सीदतीति वरसत् । ऋते यज्ञे सीदतीति ऋतसत् । व्योम्नि आकाशे मण्डलरूपेण सीदतीति व्योमसत् । एवं सर्वत्र स्थितत्वेन स्तुत्वा सर्वत्रोत्पत्तिद्वारेण स्तौति । यः अब्जाः अप्सु उदकेषु जायते मत्स्यादिरूपेणेत्यब्जाः । गवि पृथिव्यां जायते चतुर्विधभूतग्रामरूपेणेति गोजाः । ऋते सत्ये जायत इति ऋतजाः । अद्रौ पाषाणे अग्निरूपेण जायत इत्यद्रिजाः । अद्रिर्मेघो वा अद्रौ मेघे जलरूपेण जायत इति वा । ऋतम् 'ऋ गतौ' सर्वत्र गतम् । बृहत् महत्परिवृद्धमपर्यन्तं परब्रह्मरूपो यो हंसस्तं प्रति रथादवतरामीति भावः । यद्वा हंसशब्देन रथ उच्यते । हन्ति पृथिवीमिति हंसः रथः । बृहत् महत् प्रौढमृतं यज्ञं संपादयत्विति शेषः । किंभूतो हंसः । शुचिषत् शुचौ देवयजने
रथवाहने वा सीदतीति । वसुः स्वस्योपरि यजमानं वासयतीति । अन्तरिक्षसत् वृक्षगुल्माद्यनवरुद्धेऽन्तरिक्षे सीदतीति । होता होतृसमानः । तदेव कथमित्यत आह । वेदिषत् वेद्यां सीदतीति । अतिथिः अतिथिवत्पूज्यः । दुरोणसत् दुरोणे यज्ञगृहे सीदतीति । नृषत् नृषु वाहकत्वेन सीदतीति । वरसत् वरे श्रेष्ठे राजगृहे सीदतीति । ऋतसत् ऋते यज्ञे, वाजपेयादौ सीदतीति व्योमसत् । सूर्यं वोढुं व्योमन्याकाशे सीदतीति । अब्जाः 'अप्सुयोनिर्वा अश्व' इति श्रुतेरद्भ्यो जातैरश्वैरुपेतत्वादब्जाः । गोजाः गोशब्दवाच्याद्वज्राज्जायत इति गोजाः । 'इन्द्रो वृत्राय वज्रं प्राहरत् स त्रेधा व्यभवत्तस्य स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयम्' इति तैत्तिरीयश्रुतेः । ऋतजाः ऋतं यज्ञमुद्दिश्य जातत्वादृतजाः । अद्रिजाः अद्रिभ्यः पाषाणसदृशकाष्ठेभ्यो जातत्वादद्रिजाः ॥ २४ ॥

पञ्चविंशी।
इय॑द॒स्यायु॑र॒स्यायु॒र्मयि॑ धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धे॒ह्यूर्ग॒स्यूर्जं॒ मयि॑ धेहि ।।
इन्द्र॑स्य वां वीर्य॒कृतो॑ बा॒हू अ॑भ्यु॒पाव॑हरामि ।। २५ ।।
उ० उपस्पृशति शतमानौ इयदसि । इयदिति परिमाणवचनोऽयं शब्दः । शतमानमसि आयुरसि । 'आयुर्हिरण्यम्' इति श्रुतिः । आयुर्मयि धेहि । यो हि यदात्मको भवति स तद्दातुमुत्सहते । यस्माच्छतमानं हिरण्यं त्वमसि तस्मात् शताब्दपरिमाणमायुर्मयि धेहि । युङ्ङसि युनक्ति यज्ञं संभारनिवापेन दक्षिणादानेन वेति युङ् । वर्चोऽसि वर्चस्तेजः । यस्मात्त्वं वर्चोऽसि अतोऽस्माभिः प्रार्थ्यसे वर्चो मयि धेहि । औदुम्बरीं शाखामुपस्पृशति । ऊर्गस्यूर्जं मयि धेहि । ऊर्जमन्नमुच्यते । अवहरति बाहू । इन्द्रस्य वाम् । यौ इन्द्रस्य यजमानस्य वां युवां वीर्यकृतो वीर्यकारिणः संबन्धिनौ बाहू तौ अभ्युपावहरामि मैत्रावारुणीपयस्यांप्रति ॥ २५ ॥
म० 'उपस्पृशति शतमानावियदसीति' ( का० १५। ६ । । २९) । शालादक्षिणभागे स्थापितस्य रथवाहनस्य दक्षिणचक्रे बद्धौ शतमानौ शतरक्तिकानिर्मितौ सौवर्णौ मणी यजमानः स्पृशति । द्वादशाक्षरे यजुषी शतमानदेवत्ये । हे रुक्म, त्वमियदसि एतावत्परिमाणं शतरक्तिकापरिमितमसि । आयुरसि जीवनमसि तस्मादायुः शताब्दपरिमितं मयि धेहि । यो हि