पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपञ्चाशी।
मि॒त्रः स॒ᳪसृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह ।
सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सᳪ सृ॑जामि प्र॒जाभ्य॑: ।। ५३ ।।
उ० अजलोमैः संसृजति मित्रः संसृज्य । मैत्री उपरिष्टाद्बृहती । अध्वर्युराह । मित्रः आदित्यः संसृज्य एकीकृत्य पृथिवीम् द्युलोकान्तरिक्षम् । भूमिवचनः पृथिवीशब्दः । इह तु द्युलोकवचनो गृह्यते । पृथिवीं द्युलोकम् भूमिं च मां ज्योतिषा अजलोमैः सह संसृज्य मह्यं प्रयच्छत्विति शेषः ।। अजस्याग्नेयत्वात् लोमानि ज्योतिःशब्देन भणितुं शक्यन्ते । अहमपि च गृहीत्वा सुजातं कल्याणजातं त्वां जातवेदसं जातप्रज्ञानमग्निमजलोमाख्यं संसृजामि अयक्ष्माय अव्याधितायै । प्रजाभ्यः प्रजानामिति संनतिः ॥ ५३ ॥
म० 'अजलोमभिः सᳪसृजति मित्रः सᳪसृज्येति' । (का० १६ । ३ । १८) । अजाद्यानि पूर्वं लोमानि गृहीतानि तैः पिण्डं मिश्रयतीति सूत्रार्थः । मित्रदेवत्योपरिष्टाद्बृहती त्रयोऽष्टार्णाश्चतुर्थो द्वादशार्णः । मित्रः आदित्यो देवः पृथिवीं द्युलोकं भूमिं चेमां मृत्पिण्डरूपां ज्योतिषाजलोमभिः सह संसृज्य एकीकृत्य मह्यमध्वर्यवे प्रयच्छत्विति शेषः । पृथिवीशब्दो द्युलोकान्तरिक्षवाची । इह द्युलोकवाची गृह्यते । अजस्याग्नेयत्वाज्ज्योतिःशब्देनाजलोमान्युच्यन्ते । अहमपि सुजातं शोभनोत्पन्नं जातवेदसं जातप्रज्ञानमजलोमाख्यमग्निं त्वा त्वां संसृजामि पिण्डेन योजयामि । किमर्थं प्रजाभ्यः । चतुर्थी षष्ठ्यर्थे । प्रजानामयक्ष्माय यक्ष्मणो रोगस्याभावोऽयक्ष्मं तस्मै रोगाभावाय ॥ ५३॥

चतुःपञ्चाशी।
रु॒द्राः स॒ᳪसृज्य॑ पृथि॒वीं बृ॒हज्ज्योति॒: समी॑धिरे । तेषां॑ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ।। ५४ ।।
उ० शर्करायोरसाश्मचूर्णैः संसृजति । रुद्राः संसृज्य । अनुष्टुब्रौद्री । रुद्राः संसृज्य एकीकृत्य शर्करायोरसाश्मचूर्णैः पृथिवीं पार्थिवं पिण्डम् । बृहन्महत् ज्योतिरग्निलक्षणम् । उषायां समीधिरे संदीपितवन्तः। उषास्थमग्निं संवत्सरं धारितवन्तः । तेषामिदानीं फलमाह । तेषां रुद्राणां भानुर्दीप्तेः । अजस्रइत् । 'जसु उपक्षये' इच्छब्द एवार्थे । अनुपक्षीण एव। शुक्रः देवेषु । निर्धारणे सप्तमी । रोचते देदीप्यते ॥ ५४ ॥
म० 'शर्करायोरसाश्मचूर्णैश्च रुद्राः सᳪसृज्येति' (का० १६ । ३ । १९) । सूक्ष्मसिकतालोहकिट्टपाषाणचूर्णैः पिण्डं मिश्रयतीति सूत्रार्थः । रुद्रदेवत्यानुष्टुप् । ये रुद्राः, पृथिवीं पार्थिवं पिण्डं संसृज्य शर्करायोरसाश्मचूर्णैः संयोज्य बृहज्योतिः प्रौढमग्निं समीधिरे सम्यक् दीपितवन्तः उखास्थमग्निं सम्यक् पालितवन्तः । तेषां फलमाह । तेषां रुद्राणां शुक्रः शुद्धो देदीप्यमानोऽजस्रः अनुपक्षीण एव देवेषु मध्ये भानुः दीप्तिः रोचते प्रकाशते । इत् एवार्थः ॥ ५४ ॥

पञ्चपञ्चाशी।
सᳪसृ॑ष्टां॒ वसु॑भी रुद्रै॒र्धीरै॑: कर्म॒ण्यां मृद॑म् । हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम् ।। ५५ ।।
उ० तिसृभिरनुष्टुब्भिः सिनीवाल्यदितिदेवताभिर्मृदं संयौति । संसृष्टां संसेविताम् । वसुभिः रुद्रेश्च धीरैः बुद्धिमद्भिः । धीशब्दो बुद्धिवचनः रो मत्वर्थीयः। कर्मण्याम् कर्मणा या संपद्यते सा कर्मण्या तां कर्मण्याम् । मृदं मृत्तिकाम् । हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु करोतु ॥ ५५ ॥
म० 'सᳪसृष्टामिति संयौति ऋक्त्रयेण मृत्पिण्डे सम्यक् मिश्रयति' (का० १६ । ३ । २०) द्वे सिनीवालिदेवत्ये तृतीयादितिदेवत्या तिस्रोऽनुष्टुभः । सिनीवाली चन्द्रकलायुक्तामावास्याभिमानिनी देवता मृदं हस्ताभ्यां मृद्वीं कोमलां कृत्वा पुनस्तां मृदं कर्मण्यामुखाकर्मयोग्यां कृणोतु । कर्म संपद्यते यया सा कर्मण्या ताम् । कीदृशीं मृदम् । धीरैः बुद्धिमद्भिर्वसुभिः रुद्रैश्च संसृष्टां सेवितां शर्करादिभिः संयोजितां वा । धीरस्ति येषां ते धीराः । मत्वर्थे रः ॥ ५५ ॥

षट्पञ्चाशी।
सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः ।। ५६ ।।
उ० या सिनीवाली सुकपर्दा। कपर्दः केशसंयमनप्रकारः। साधु केशसंयमना वेणिर्वा कपर्दः । सुकुरीरा कुरीरो मुकुटः शोभनमुकुटा । स्वौपशा शोभनमुपशेते या सा स्वौपशा विदग्धः शयने करकण्ठकूजितादिभिर्विलासैर्यस्याः सा तुभ्यं हे अदिते, महि महति, उखां दधातु स्थापयतु हस्तयोः ॥५६॥
म० 'अदितिरदीना देवमाता' (निरु० ४ । २३) इति यास्कः । हे अदिते देवमातः, हे महि महति, सा पूर्वमन्त्रोक्ता सिनीवाली तुभ्यं तव हस्तयोः उखामादधातु स्थापयतु । कीदृशी सा । सुकपर्दा कपर्दोऽत्र स्त्रीणामुचितः केशबन्धविशेषः । शोभनः कपर्दो यस्याः सा सुकपर्दा । सुकुरीरा स्त्रीभिः शृङ्गारार्थं शिरसि धार्यमाणं कनकाभरणं कुरीरः । शोभनः कुरीरो यस्याः सा सुकुरीरा सुमुकुटा । स्वौपशा सम्यक् उपशेते शयनं कुरुते यैरवयवविशेषैस्ते सर्वेऽप्युपशाः तेषां समूह औपशः । शोभनः शयनविदग्धो विलासचतुर औपशोऽवयवसमूहो यस्याः सा ॥ ५६ ॥

सप्तपञ्चाशी
उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साऽग्निं बि॑भर्तु॒ गर्भ॒ आ । म॒खस्य॒ शिरो॑ऽसि ।। ५७ ।।