पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'वितृतीय उत्तरे वर्तिᳪ सर्वतः करोत्यदित्यै रास्नेति' (का० १६ । ३ । ३०) । उखोर्ध्वमानं त्रेधा विभज्योपरि तृतीयभागे सर्वत्र मृन्मयीं मेखलां करोति तलान्मेखलान्तमपि प्रतिदिशं चतुर्वृत्तीरग्रे स्तनयुक्ताः कुर्यादिति सूत्रार्थः । रास्नादेवत्यम् यजुर्गायत्री । हे रेखे, त्वमदित्यै अदितिरूपाया उखाया रास्ना काञ्चीगुणस्थानीयासि । 'बिलं गृह्णात्यदितिष्ट इति' ( का० १६ । ४ । ३) । उखाया मुखमालभते । उखादेवत्यम् यजुर्बृहती । हे उखे, अदितिः देवमाता ते तव बिलं मध्यं गृभ्णातु गृह्णातु । 'कृत्वायेति निदधाति' (का० १६ । ४ । ४)। एवमुखां निष्पाद्य भूमौ स्थापयतीति सूत्रार्थः । अदितिदेवत्या उष्णिगनुष्टुब् वा । उष्णिक्पक्षे तृतीयपादश्चतुर्दशार्णस्तेन द्य्।धिका अनुष्टुप्पक्षे तृतीयः षडर्णो व्यूह्यः । सा पूर्वोक्ता अदितिः उखां । कृत्वाय क्त्वो यक् । कृत्वा निष्पाद्य पुत्रेभ्यो देवेभ्यः इति वदन्ती प्रायच्छत् । इति किम् । श्रपयान् श्रपयन्तु । 'श्रा पाके' णिजन्तः । हे पुत्राः, इमामुखां भवन्तः श्रपयन्तु पचन्तु । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इति अन्तीत्यस्येकारलोपे संयोगान्तलोपे च 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे श्रपयानिति रूपम् । कीदृशीमुखाम् । महीं महतीं विशालां मृण्मयीं मृत्कार्यभूताम् अग्नये अग्न्यर्थमग्नेर्वा योनिं स्थानभूताम् ॥ ५९॥

षष्ठी
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रुद्रास्त्वा॑ धूपयन्तु त्रैष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदादि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु ।। ६० ।।
उ० सप्तभिरश्वशकृद्भिरुखां धूपयति सप्तभिर्यजुर्भिः प्रतिमन्त्रम् । वसवस्त्वा । ऋज्वर्थानि यजूंषि ॥ ६० ॥
म० 'सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तेरेकैकेन वसवस्त्वेति प्रतिमन्त्रम्' (का० १६ । ४ । ८)। दक्षिणाग्नौ प्रदीप्तैः सप्तभिरश्वलण्डैरुखां प्रतिमन्त्रं धूपयत्यध्वर्युः । धूमायमानमेकैकमश्वलण्डमादायैकेकैन मन्त्रेणोखायां मध्ये बहिश्च भ्रामयेदिति सूत्रार्थः । सप्त यजूंष्युखादेवत्यानि त्रीणि ऋग्गायत्र्यः तुर्यं सामजगती पञ्चमसप्तमे यजुरुष्णिहौ षष्ठं यजुरनुष्टुप् । हे उखे, अष्टौ वसवः गायत्रेण छन्दसा अङ्गिरस इव त्वां धूपयन्तु अश्वशकृज्जन्येन धूपेन संस्कुर्वन्तु । रुद्राः एकादश त्रैष्टुभेन छन्दसा अङ्गिरस इव त्वां धू० । आदित्या जागतेन छन्दसा । वैश्वानराः सर्वहिता विश्वेदेवाः आनुष्टुभेन छन्दसा । इन्द्रस्त्वां धूपयतु वरुणो विष्णुश्च । शेषं पूर्ववत् सुगमम् ॥ ६०॥

एकषष्टी
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्ख॑नत्ववट
दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद्द॑धतूखे
धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद॒भी॒न्धतामुखे॒
वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वच्छ्र॑पयन्तूखे॒
ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे॒
जन॑य॒स्त्वाच्छि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे ।। ६१ ।।
उ० अभ्र्या श्वभ्रं खनति अदितिष्ट्वा अदितिस्त्वां देवी विश्वदेव्यावती । विश्वैर्देवैः सहितपृथिव्याः सहस्थाने अङ्गिरा इव खनतु । हे अवट कूप । उखामवदधातु । | देवानां त्वा । इतउत्तरं पञ्चसु यजुःषु श्रुत्युक्तान्यभिधेयानि व्याख्यायन्ते इति 'ओषधयो वै देवानां पत्न्यः' इति । दधतु स्थापयतु उखे । अग्निना दीपयति । धिषणास्त्वाम् धिषणा वाचः । अभीन्धताम् । 'इन्धी दीप्तौ' श्रपयति । वस्त्रीष्ट्वा 'अहोरात्राणि वै वरूत्रयः' । तानि हि वृण्वन्ति । पचति द्वाभ्याम् । ग्नास्त्वा ग्नाश्छन्दांसि 'छन्दांसि वै ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति' । जनयस्त्वा । 'नक्षत्राणि वै जनयः' । अच्छिन्नपत्राः अनवच्छिन्नपत्राः ॥ ६१ ॥
म० 'अभ्र्या श्वभ्रं चतुरस्रं खनत्यदितिष्ट्वेति' (का. १६ । ४ । ९)। अषाढोखाविश्वज्योतिषां पाकाय चतुरस्रं गर्तमभ्र्या खनतीति सूत्रार्थः । अवटदेवत्यम् प्राजापत्या त्रिष्टुप् । हे अवट गर्त, अदितिर्देवी पृथिव्याः सधस्थे सहस्थाने उपरिभागे त्वा त्वां खनतु । अङ्गिरस इव यथाङ्गिरोभिस्त्वं खातस्तद्वत् । कीदृश्यदितिः । विश्वदेव्यावती विश्वेषां देवानां समूहो विश्वदेव्यम् तद्विद्यते यस्याः सा विश्वदेव्यवती। मन्त्रे 'सोमाश्व-' ( पा० ६ । ३ । १३१) इत्यादिना दीर्घः । सर्वैर्देवैः सहिता। विश्वेषु देवेषु साधवो विश्वदेव्याः तेऽस्यां सन्तीति वा । 'देवानां त्वेत्युखां न्युब्जाम्' (का० १६ । ४ । ११) इति । अधोमुखामुखामषाढोत्तरतो गर्ते स्थापयतीति सूत्रार्थः । पञ्च यजूंष्युखादेवत्यानि द्वे प्राजापत्ये त्रिष्टुभौ । विश्वदेव्यावतीः विश्वैः देवैः सहिताः देवानां पत्नीः देवीः देवपत्न्यो देव्यो दीप्यमाना ओषधयः पृथिव्याः सधस्थे उपरि अङ्गिरस इव हे उखे, त्वा त्वां दधतु स्थापयन्तु । देवपत्नीशब्देनौषधयः श्रुत्योक्ताः । तथाच श्रुतिः 'ओषधयो वै देवानां पत्न्यः' (६ । ५ । ४ । ४) इति । 'श्रपणेनावच्छाद्य दक्षिणान्यग्निना दीपयति धिषणास्त्वेति' । (का. १६ । ४ । १२) । उखास्थापनानन्तरं विश्वज्योति-