पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वे सर्वे देवाः प्राणरूपाः चित्तिभिः उद्यमनप्रवीणाभिर्धीवृत्तिभिः त्वा त्वामुद्भरन्तु ऊर्ध्वं धारयन्तु । भृञः शप् उ पादपूरणः । हे अग्ने, स उद्धार्यमाणस्त्वं नोऽस्माकं शिवः कल्याणकृद्भव । किंभूतः । सुप्रतीकः शोभनं प्रतीकं मुखं यस्य । विभा दीप्तिरेव वसु धनं यस्य सः॥३१॥

द्वात्रिंशी।
प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम् ।
बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हि॑ᳪसीस्त॒न्वा॒ प्र॒जाः ।। ३२ ।।
उ० प्रयाति । प्रेदग्ने अनुष्टुप् । प्रयाहि हे अग्ने, ज्योतिमान्भूत्वा । शिवेमिरर्चिभिः शिवैः शान्तैः सुखकरैः अर्चिभिः गच्छस्व । त्वं बृहद्भिः भानुभिः रश्मिभिः भासन् दीप्यमानः मा हिंसीः तन्वा शरीरेण प्रजाः ॥ ३२॥
म० 'अनड्वाहौ युक्त्वा प्रेदग्न इति प्राङ् यात्वा यथार्थम्' ( का० १६ । ६ । १८) । शकटे तूष्णीं वृषौ संयोज्य प्रेदिति मन्त्रेण प्राचीं गत्वा यथार्थं प्रयोजनवन्तं देशं गच्छेदित्यर्थः । अग्निदेवत्यानुष्टुप् । हे अग्ने, शिवेभिरर्चिभिः शान्ताभिर्ज्वालाभिर्ज्योतिष्मान्प्रकाशयुक्तस्त्वं प्रयाहि गच्छ । इत्पादपूरणः । किंच बृहद्भिर्भानुभिः प्रौढेः रश्मिभिः भासन्भासयन् जगदवभासयन् तन्वा स्वकीयेन दाहकेन शरीरेण प्रजाः पुत्रादिका मा हिंसीः मा नाशय ॥ ३२ ॥

त्रयस्त्रिंशी।
अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौ: क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।। ३३ ।।
उ०. अक्रन्ददग्निरिति व्याख्यातम् ॥ ३३ ॥
म०. 'अक्षे खर्जत्यक्रन्ददग्निरिति जपति' ( का० १६ । ६ । २०) । अक्षे शब्दं कुर्वति जपेत् । व्याख्याता (क० ६) ॥ ३३ ॥

चतुस्त्रिंशी।
प्र-प्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय दैव्यो॒ अति॑थिः शि॒वो न॑: ।। ३४ ।।
उ० समिधमादधाति । प्र प्रायम् त्रिष्टुप् । प्र प्रायम् प्रकर्षेण महता अयमग्निः । भरतस्य प्रजापतेः शृण्वे शृणोति वचनम् । कथमेतदध्यवसीयते यथा प्रजापतेः शृणोति वचनमिति । वि यत्सूर्यो न रोचते बृहद्भाः । यत्समिदाधानसमनन्तरमेव विरोचते । सूर्यो न सूर्यइव बृहद्भाः महादीप्तिः। यश्च अभितस्थौ पूरुम् असुरराक्षसम् प्रतनासु संग्रामेषु एतया समिधा आप्यायितः । यस्माच्च दीदाय दीप्यते । दैव्यः देवसंबन्धी । अतिथिः अतिथिधर्मा जनानाम् । शिवः शान्तः नः अस्माकं भवति । तस्मात्प्रजापतेर्वचनं शृणोति ॥ ३४॥ -
म० 'वासेऽवहरत्युद्धृतावोक्षित उत्तरतः समिदाधानं प्रप्रेति' ( का० १६ । ६ । २१)। वासे स्थितौ क्रियमाणे उत्तरदिशि उद्धृतावोक्षिते प्रदेशेऽग्निमवहरत्युत्तारयति ततोऽग्नौ समिदाधानम् । वसिष्ठदृष्टाग्नेयी त्रिष्टुप् । 'प्रसमुपोदः पादपूरणे (पा० ८ । १।६) इति प्रोपसर्गस्य द्वित्वम् । अयमग्निः बिभर्ति हवींषि भरतस्तस्य भरतस्य यजमानस्य शृण्वे ' शृणुते आह्वानमिति शेषः । यजमानकृतमाह्वानं शृणोतीत्यर्थः । पुरुषव्यत्ययः । यत् योऽग्निः सूर्यो न सूर्य इव भाः भासत इति भाः सूर्यवद्भासमानः सन् बृहद्यथा तथा रोचते अत्यन्तं दीप्यते । योऽग्निः पृतनासु संग्रामेषु पूरुं राक्षसमभितस्थौ संमुखं तिष्ठति । दैव्यो देवसंबन्धीं अतिथिः नोऽस्माकं शिवः मङ्गलरूपः सोऽग्निर्दीदाय दीप्यते । 'दीङ् क्षये' धातूनामनेकार्थत्वादत्र दीप्त्यर्थः लिटि रूपम् । 'तुजादीनां दीर्घोऽभ्यासस्य' ( पा० ६ । १।७) इत्यभ्यासदीर्घः । 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६ ) इति वर्तमाने लिट् ॥ ३४ ॥

पञ्चत्रिंशी।
आपो॑ देवी॒: प्रति॑गृभ्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्वᳪ सुर॒भा उ॑ लो॒के ।
तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वे॒नत् ।। ३५ ।।
उ०. आपो देवीः । दश कण्डिका भस्माभ्यवहरणम् । आपो देवीः । अब्देवत्या त्रिष्टुप् । हे आपः देव्यः, प्रतिगृभ्णीत प्रतिगृह्णीत भस्मैतत्स्वागतादिभिः । तत्र अयं शिष्टव्यवहारः । ततः खातादिभिः परिगृह्य । स्योने कृणुध्वं सुरभा उ लोके स्योने सुखावहे कृणुध्वं स्थापयत । उकारः समुच्चयार्थः । सुरभौ शोभनगन्धे धूपपुष्पोपकारैः । लोके स्थाने शय्यायाम् तस्मै नमन्ताम् । तदःस्थाने एतदःप्रयोगः प्रकृतत्वात् । तस्मै भस्मरूपायाग्नये नमन्तां जनयः उपतिष्ठन्तु जायाः । सुपत्नीः शोभनपत्न्यः । रूपलावण्ययौवनालंकारवैदग्ध्यसंपन्नाः । यूयं च मातेव पुत्रं बिभृत धारयत । पानभोजनवासोभिः गोपयत । किंच अप्सु स्वात्मनि एनत् भस्म ॥३५॥
म०. 'पलाशपुटेनापो देवीरित्येकया' ( का० १६ । ६ । २६ ) । वनीवाहनानन्तरं तडागादिजलस्थानं गत्वा वटादिपत्रपुटेन सायंप्रातरुखायाः सकाशादुद्धृतं यद्भस्मास्ति तदे कया ऋचा जले क्षिपेदिति सूत्रार्थः । अब्देवत्या त्रिष्टुप । हे आपो देवीः देव्यः दीप्यमानाः, भस्म यूयं प्रतिगृभ्णीत स्वागतादिभिः प्रतिगृह्णीत । किंच स्योने सुखावहे सुरभौ पुष्पधूपादिभिः शोभनगन्धयुते लोके स्थाने एतद्भस्म कृणुध्वं कुरुध्वम् 'कृञ् कृतौ' स्वादिः उ पादपूरणः । किंच शोभन: पतिर्वरुणो यासां ताः सुपत्न्यः 'आपः वरुणस्य पत्नय आसन्'