पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

चाम । त्वे इषः संदधुर्भूरिवर्पसः । त्वयि इषः अन्नानि हविर्लक्षणानि संदधुः जुहुवुः । भूरिवर्पसः । वर्प इति रूपनाम । बहुरूपा यजमानाः जगदात्मत्वेनोपगताः । चित्रोतयः चायनीयानि अवनानि तर्पणानि येषां ते चित्रोतयः । वामजाताः वननीयजन्मानः विशिष्टदेशजातिकुलोत्पन्नाः ।। अतस्त्वं मन्दस्वेति संबन्धः ॥ १०८ ॥
म०. तिस्रः सतोबृहत्यः । यस्या आद्यतृतीयौ द्वादशकौ द्वितीयतुर्यावष्टको सा सतोबृहती । ऊर्क् जलं नपात्पौत्रः हे ऊर्जोनपादपां पौत्र, अद्भ्य ओषधिवनस्पतयो जायन्ते तेभ्योऽग्निर्जायत इत्यपां पौत्रत्वमग्नेः । यद्वा ऊर्जोऽन्नस्य नपात् न पातयति नाशयति नपात् । पतेर्णिजन्तात् क्विप् । हे अन्नस्याविनाशक, हे जातवेदः जातप्रज्ञान, धीतिभिः कर्मभिर्निमित्तभूतैर्हितः स्थापितः सन् सुशस्तिभिः शोभनाभिः शस्तिभिः स्तुतिभिः कृत्वा त्वं मन्दस्व मोदस्व हृष्टो भव । 'मदिङ् स्वपने जाड्ये मदे मोदे स्तुतौ गतौ' इति धातुः । किमतिहर्षः कार्यस्तत्राह । यजमानाः त्वे त्वयि इषो हविर्लक्षणान्यन्नानि संदधुः जुहुवुः । हविःप्राप्त्या हर्षः कार्य इत्यर्थः । कीदृशा यजमानाः । भूरिवर्पसः । वर्प इति रूपनाम । भूरीणि वर्पांसि येषां ते नानारूपाः। चित्रोतयः चित्रा विचित्रा नानाविधा ऊतयो रक्षा अवनानि अन्नानि तर्पणानि वा त्वत्कृतानि येषां ते । लया तर्पिता इत्यर्थः । वामजाताः वामं वननीयं संभजनीयं जातं जन्म येषां ते । विशिष्टदेशजातिकुलोत्पन्ना इत्यर्थः ॥ १०८॥

नवोत्तरशततमी ।
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य ।
स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ।। १०९ ।।
उ० इरज्यन् अत्रोपरितनोऽर्धर्चः प्रथम व्याख्यायते । स इत्यस्य च पदस्य स्थाने यदोवृत्तिः । सर्वनामसामान्याद्वाक्यवशाच्च विभक्तिव्यत्ययोऽत्र कर्तव्यः। स दर्शतस्य वपुषो विराजसि । यस्त्वं दर्शनीयेन वपुषा शरीरेण ज्वालालक्षणेन विराजसि देदीप्यसे पृणक्षि पूरयसि । सानसिं चिरन्तनम् क्रतुं संकल्पम् तं त्वां ब्रवीमि । इरज्यन्दीप्यमान हे अग्ने, प्रथयस्व पृथुर्भव । स्वार्थे णिच् । जन्तुभिः मनुष्यैरध्वर्युप्रभृतिभिः चीयमान इति शेषः । अस्मे अस्मासु च रायो धनानि धारयन् स्थापयन् प्रथयस्वेत्यनुषज्यते । हे अमर्त्य अमरणधर्मन् ॥ १०९॥
म० हे अमरणधर्मन् हे अग्ने, रायो धनानि अस्मे अस्मासु त्वं प्रथयस्व विस्तारय । कीदृशस्त्वम् । जन्तुभिः प्राणिभिर्हविःप्रदैरध्वर्युप्रभृतिभिः इरज्यन् दीप्यमानः । किंच यस्त्वमीदृशो धनप्रथयिता स त्वं दर्शतस्य दर्शनीयस्य वपुषः चित्याग्निरूपस्य शरीरस्य मध्ये विराजसि विशेषेण दीप्यसे ।। विभक्तिव्यत्ययो वा । दर्शतेन वपुषा ज्वालालक्षणेन शरीरेण विराजसि । सानसिं चिरन्तनं क्रतुं संकल्पं पृणक्षि पूरयसि सर्वेष्टं ददासीत्यर्थः ॥ १०९॥

दशोत्तरशततमी।
इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्त॒ᳪ राध॑सो म॒हः ।
रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिᳪ र॒यिम् ।। ११० ।।
उ० इष्कर्तारम् यं तमिष्कर्तारम् निरुपसर्गस्यादिलोपः। निश्चयेन कर्तारम् अध्वरस्य यज्ञस्य । प्रचेतसं प्रकृष्टप्रज्ञानम् । क्षयन्तम् 'क्षि निवासगत्योः' । क्षयन्तं निवसन्तम् राधसो महः । राध इति धननाम । सप्तम्यर्थे षष्ठ्यौ । राधसि महति स्तुमः। स त्वं रातिं दानं दधासि । कस्य संबन्धिनीम् । वामस्य वननीयस्य दातुः संबन्धिनीम् । कथंभूताम् । सुभगाम् । भगशब्दो धनवचनः । किंच । महीमिषम् महतीं च इषं वृष्टिमन्नं वा दधासि । सानसिं पुराणं रयिं धनम् स्मर्यमाणविषयं निधानलक्षणं दधासि ॥ ११०॥
म० हे अग्ने, अध्वरस्य यज्ञस्य इष्कर्तारम् निस उपसर्गस्य नलोपः पूर्वमुक्तः (८३) निष्कर्तारं निश्चयेन कर्तारं यज्ञनिष्पादकं प्रचेतसं प्रकृष्टचित्तयुक्तं क्षयन्तम् 'क्षि निवासगत्योः' विशिष्टस्थाने निवसन्तमीदृशं यजमानं प्रति वामस्य वननीयस्य महो महतो राधसो धनस्य रातिं दानं त्वं दधासि ददासि । किंच सुभगां सुष्ठु भजनीयां महीं महतीमिषमन्नं च ददासि । सानसिं पुराणं रयिं धनमस्मर्यमाणविषयं निधानलक्षणं च दधासि निधिं दर्शयसीत्यर्थः ॥११०॥

एकादशोत्तरशततमी।
ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निᳪ सु॒म्नाय॑ दधिरे पु॒रो जना॑: ।
श्रुत्क॑र्णᳪ स॒प्रथ॑स्तमं त्वा गि॒रा दै॑व्यं॒ मानु॑षा यु॒गा ।। १११ ।।
उ० ऋतावानम् । यत्त्वामृतवानं सत्यवन्तं महिषं महान्तम् । विश्वदर्शतम् सर्वस्य दर्शनीयम् अग्निम् । अन्यदेवतानिवृत्त्यर्थोऽग्निशब्दः। सुम्नाय यज्ञाय दधिरे स्थापितवन्तः। पुरोऽग्रतः आहवनीयात्मना जनाः यजमानाः तं त्वाम् श्रुत्कर्णम् शृणोत्याह्वानं श्रुत्वा चानुतिष्ठति यः स श्रुत्कर्णः । सप्रथस्तमं सर्वतः पृथुतमं ऊर्ध्वमधोऽनवच्छिन्नगतिविज्ञानम् गिरा वाचा स्तुत्या । दैव्यं देवम् । स्वार्थे यत्प्रत्ययः । मानुषा मनुष्याः । युगा । युगशब्दः कालवचनः। कालैर्निमित्तभूतैः पूर्णमास्यमावस्यादिभिराह्वयन्ति ॥ ११॥
म० उपरिष्टाज्ज्योतिः । यस्यास्त्रयः पादा द्वादशाक्षराश्चतुर्थोऽष्टाक्षरः सोपरिष्टाज्ज्योतिः । मानुषा विभक्तेराकारः । मनुष्या जना मनुष्यजातियुक्ता जन्तव ऋत्विग्यजमानाः। युगा