पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमी ।
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व॑: ।
स॒मा॒नं योनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्रा॑: ।। ५ ।।
उ० द्रप्सश्चस्कन्द । अस्यामृच्यादित्यो यथा सर्वं बिभर्ति पालयति च स तथोच्यते । य आहुतिपरिणामरसनिधानभूतो द्रप्स आदित्यः चस्कन्द पृथिवीम् उदकरूपेण पृथिवीं स्कन्दति मनुष्यादिधारणाय । यश्च द्युलोकमनुस्कन्दति आहुतिपरिणामभूतेन रसेन दिवादिधारणाय । इमं च योनिमनु यश्च पूर्वः यश्च इमं लोकं स्कन्दति आहुतिग्रहणाय । यश्च अनुस्कन्दति पूर्वयोनिममुं लोकं सुकृतिनां तर्पणाय । तमेवं समानं योनिं स्थानम् अनुसंचरन्तं द्रप्समादित्यं जुहोमि स्थापयामि । अनु सप्तहोत्राः सप्तस्वपि दिक्षु । 'असौ वा आदित्यो द्रप्सो दिशः सप्तहोत्रा अमुमादित्यं दिक्षु प्रतिष्ठापयन्ति' इति श्रुतिः। तिर्यक् चतस्रो दिशः अध एका उपर्येका मध्य एका एताः सप्तदिशः ॥५॥
म० देवश्रवोदृष्टादित्यदेवत्या त्रिष्टुप् । यः पूर्वः प्रथमो मुख्यो द्रप्स आदित्यः पृथिवीमन्तरिक्षमनुचस्कन्द अनुस्कन्दति गच्छति सिञ्चतीत्यर्थः । मनुष्यादिधारणाय । द्यां द्युलोकं चानुसिञ्चति आहुतिपरिणामभूतेन रसेन देवादिधारणाय । य इमं योनिं स्थानं भूलोकमनुस्कन्दति आगच्छति आहुतिग्रहणाय । एवं समानं योनिं सर्वेषां तुल्यं स्थानं लोकत्रयमनु संचरन्तं द्रप्समादित्यं सप्त होत्रा अनु जुहोमि । विभक्तिव्यत्ययः । सप्तसु होत्रामु दिक्षु स्थापयामि हिरण्यपुरुषरूपेण सर्वदिक्षु सूर्यमेव स्थापयामीत्यर्थः । 'असौ वा आदित्यो द्रप्सो दिशः सप्तहोत्रा अमुमादित्यं दिक्षु प्रतिष्ठापयति' (७ । ४ । १।२०) इति श्रुतेः । पूर्वादिचतस्रो दिशः अध एका उपर्येका मध्ये चैकेति सप्त दिशो ज्ञेयाः ॥ ५ ॥

षष्ठी।
नमो॑ऽस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।। ६ ।।
उ० सान् नामभिरुपतिष्ठते । नमोस्तु । तिस्रोऽनुष्टुभः सर्पदेवत्याः । लोका वा सर्पाः । नमस्कारोस्तु सर्पेभ्यः ये के च पृथिवीमनु व्यवस्थिताः ये चान्तरिक्षे ये च दिवि व्यवस्थिताः तेभ्यः सर्पेभ्यो नमस्कारोस्तु ॥ ६॥
म० 'उपतिष्ठते यजमानो नमोऽस्त्विति' ( का० १७ । ४।६।) यजमानो हिरण्यपुरुषं पश्यन्नृक्त्रयं पठेत् । सर्पदेवत्यास्तिस्रोऽनुष्टुभः । ये के च ये केचित् सर्पन्ति सर्पा लोकाः पृथिवीमनुगताः तेभ्यः सर्पेभ्यो नमोऽस्तु नमस्कारो भवतु । अन्तरिक्षे लोके ये वर्तमानाः सर्पाः ये च दिवि द्युलोके ये वर्तमानाः सर्पास्तेभ्यः सर्पेभ्यो नमोऽस्तु । 'इमे वे लोकाः सर्पाः' (७ । ४ । १ । २५) इति श्रुतेः सर्पशब्देन लोका उच्यन्ते ॥ ६ ॥

सप्तमी।
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ᳪरनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।। ७ ।।
उ० या इषवः यानि काण्डानि। यातुधानानां यातनां दुःखं ये दधति ते यातुधाना रक्षःप्रभृतयः ये च वनस्पतीन् अनु व्यवस्थिताः ये च अवटेषु बिलेषु शेरते आसते तेभ्यः सर्पेभ्यो नमः ॥ ७ ॥
म० यातुं यातनां दुःखं दधति ते यातुधाना रक्षःप्रभृतयस्तेषां याः सर्पजातय इषवो बाणरूपेण वर्तन्ते ये वान्ये वनस्पतीन् चन्दनादिवृक्षाननुवेष्ट्य स्थिताः ये वा ये चान्ये अवटेषु बिलेषु शेरते स्वपन्ति तेभ्यः सर्पेभ्यो नमोऽस्तु ॥ ७ ॥

अष्टमी।
ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।। ८ ।।
उ० ये वा ये च अमी । प्रत्यक्षान्दूरतो निर्दिशति सर्पान् । रोचने दिवः । 'रोचनो ह नामैष लोको यत्रैष एतत्तपति' इति श्रुतिः । ये च सूर्यस्य रश्मिषु स्थिताः । येषां च अप्सु सदः कृतं उदके स्थानं कृतम् तेभ्यः सर्पेभ्यः नमः ॥ ८॥
म० दिवो द्युलोकस्य रोचने दीप्तस्थाने ये वामी सर्पा अस्माभिरदृश्यमानाः सन्ति ‘रोचनो ह नामैष लोको यत्रैष एतत्तपति' इति श्रुतिः । तथा सूर्यस्य रश्मिषु किरणेषु ये च सर्पा वसन्ति येषां सर्पाणामप्सु जलेषु सदः स्थानं कृतं तेभ्यः सर्पेभ्यो नमोऽस्तु ॥ ८॥

नवमी।
कृ॒णु॒ष्व पाज॒: प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒२ इभे॑न ।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ।। ९ ।।
उ० जुहोति । कृणुष्व पाजः । पञ्च त्रिष्टुभ आग्नेय्यो रक्षोघ्न्यः । हे अग्ने, कृणुष्व पाजः । पाज इति बलनामसु पठितम् । कुरुष्व बलम् प्रसितिं न पृथ्वीम् 'प्रसितिः प्रसयनात्तन्तुर्वा जालं वा' । नकार उपमार्थीयः । उपरिष्टादुपचारः । अथ कोर्थः । कुरुष्व बलं वागुरामिव पृथिवीं। यद्वा जलमिव पृथु । ततो याहि राजेव । अमवान् अमात्यवान्भूत्वा अभ्यवनवान् वा । अभ्यमनं शत्रूणां भयादप्रतिपक्षकरणम् । गृहवान्वा भूत्वा । शत्रून्प्रति याहि । इभेन इभभवेन बलेन । यद्वा । इभेन हस्तिना । गत्वा