पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

सदोहविर्धानाग्नीध्ररूपे वयं स्याम भवेम । सदा यज्ञान्कुर्म इत्यर्थः । कीदृशे । त्रिवरूथे शर्मन् शर्मणि सुखाश्रये । तथा उद्भौ द्विपदचतुष्पदधनधान्यादिभिरुद्भवति समृध्यत इत्युद्भिः तस्मिन् भवतेर्डिप्रत्ययः । अनेन मन्त्रेण पुरस्तादिष्टकामुपदधाति १

द्वितीया।
सह॑सा जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यᳪ स्या॑म॒ प्र णु॑दा नः स॒पत्ना॑न् ।। २ ।।
उ० सहसा जातान् बलेनोद्भूतशक्तीन् । प्रणाशय अस्माकं सपत्नान् । यद्वा सहसा बलेन स्वशक्त्या उत्पन्नान् प्रेरय अस्मच्छत्रून् । प्रत्यजाताञ्जातवेदो नुदस्व । प्रतिनुदस्व अजाताननुत्पन्नान् हे जातवेदः । किंच । अधि नो ब्रूहि सुमनस्यमानः अधिब्रूहि अधिवद नः अस्माकं सुमनस्यमानः शोभनचित्तः । यथाच वयमेव स्याम भवाम तथा कुरु । भूयोभूयश्च प्रणुद नः अस्माकं सपत्नान् ॥ २॥
म० अथ पश्चादुपदधाति । सहसा बलेन जातानुत्पन्नान्नोऽस्माकं सपत्नान् प्रणुद नाशय । हे जातवेदः, अजातान् उत्पत्स्यमानानपि प्रतिनुदस्व । आत्मनेपदमार्षम् । किंच सुमनस्यमानोऽस्मासु शुभचित्तः सन्नोऽस्मानधिब्रूहि शत्रुभ्योऽधिकान् वद । वयमपि त्वत्प्रसादादधिकाः स्याम भवेम । नोऽस्माकं सपत्नान् प्रणुद । पुनरुक्तिरादरार्था । शोभनं मनो यस्य सुमनाः असुमनाः सुमना भवति सुमनस्यमानः 'भृशादिभ्यः' (पा० ३ । १ । १२) इति क्यङ् ततः शानच् ॥२॥

तृतीया।
षो॒ड॒शी स्तोम॒ ओजो॒ द्रवि॑णं चतुश्चत्वारि॒ᳪशः स्तोमो॒ वर्चो॒ द्रवि॑णम् ।
अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भिगृ॑णन्तु दे॒वाः ।
स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्व ।। ३ ।।
उ० दक्षिणतः षोडशीस्तोमः । यस्यास्तव षोडशी आदित्यः पञ्चदशकलस्य पक्षस्य भर्ता स्तोमभूतः ओजो बलं च द्रविणं धनं हे इष्टके, त्वं तदुभयरूपासि तां त्वामुपदधामि । उत्तरतः चतुश्चत्वारिंशः । यस्यास्तव चतुश्चत्वारिंशः त्रिष्टुप्वज्राक्षरसंमितः स्तोमः वर्चश्व द्रविणं तां त्वामुपदधामि । पञ्चमी । अग्नेः पुरीषम् त्रिष्टुप् । या त्वामग्नेः पञ्चदशकरूपस्य पूरयित्री। व्याख्यतमन्यत् ॥३॥
म० अथ दक्षिणतः । इष्टकादेवत्यं यजुः । पञ्चदशकलस्य पक्षस्य भर्ता य आदित्यरूपः स्तोमः षोडशावृत्त्युपेतो वा यः स्तोमः यच्च ओजो बलरूपं द्रविणं धनम् हे इष्टके, त्वं तदुभयरूपासि तां त्वामुपदधामि । अथोत्तरतः । इष्टकादेवत्यं यजुः । चतुश्चत्वारिंशदावृत्त्या संपन्नो यः स्तोमस्त्रिष्टुब्रूपो वा यच्च बलरूपं धनम् तदुभयरूपां त्वामुपदधामि । अथ मध्येपञ्चमी त्रिष्टुप् । 'प्सा भक्षणे । न प्साति भक्षयति विनाशयतीत्यसो रक्षको नाम योऽग्निस्तस्याग्नेश्चन्द्ररूपस्य पञ्चदशकलस्य पुरीषमसि पूरयित्री भवसि । हे इष्टके, या त्वं तां त्वां विश्वेदेवा अभिगृणन्तु स्तुवन्तु । स्तोमैः पृष्ठैश्च युता होष्यमाणघृतयुता च सती सा त्वमिह चतुर्थ्यां चितौ सीद उपविश । अस्मे अस्मासु प्रजावत्पुत्रयुतं द्रविणं धनं यजस्व देहि ॥३॥

चतुर्थी ।
एव॒श्छन्दो॒ वरि॑व॒श्छन्द॑: श॒म्भूश्छन्द॑: परि॒भूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒
व्यच॒श्छन्द॒: सिन्धु॒श्छन्द॑: समु॒द्रश्छन्द॑: सरि॒रं छन्द॑: क॒कुप्छन्द॑स्त्रिक॒कुप्छन्द॑: का॒व्यं छन्दो॒
अङ्कु॒॒पं छन्दो॒ ऽक्षर॑पङ्क्ति॒श्छन्द॑: प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्द॑: क्षु॒रोभ्रज॒श्छन्द॑: ।। ४ ।।
उ० चत्वारिंशद्विराजश्चत्वारिंशद्भिर्यजुर्भिरुपदधाति । एवश्छन्दः । अयं वै लोक एवश्छन्दः । वरिवश्छन्दः अन्तरिक्षं वै वरिवश्छन्दः । शंभूश्छन्दः द्यौर्वै शंभूश्छन्दः परिभूश्छन्दः दिशो वै परिभूश्छन्दः । आच्छच्छन्दः । अन्नं वा आच्छच्छन्दः। मनश्छन्दः प्रजापतिर्वै मनश्छन्दः। व्यचश्छन्दः असौ वा आदित्यो व्यचश्छन्दः । सिन्धुश्छन्दः प्राणो वै सिन्धुश्छन्दः । समुद्रश्छन्दः मनो वै समुद्रश्छन्दः। सरिरं छन्दः वाग्वै सरिरंछन्दः । ककुप्छन्दः प्राणो वै ककुप्छन्दः। त्रिककुप्छन्दः उदानो वै त्रिककुप्छन्दः । काव्यंछन्दः त्रयी वै काव्यंछन्दः । अङ्कुपं छन्दः आपो वा अङ्कुपंछन्दः । अक्षरपङ्क्तिश्छन्दः । असौ वै लोकोऽक्षरपङ्क्तिश्छन्दः । पदपङ्क्तिश्छन्दः । अयं वै लोकः पदपङ्क्तिश्छन्दः। विष्टारपङ्क्तिश्छन्दः। दिशो वै विष्टारपङ्क्तिश्छन्दः । क्षुरोभ्रजश्छन्दः । असौ वा आदित्यः क्षुरोभ्रजश्छन्दः ॥ ४ ॥
म० 'विराजो दश दश प्रतिदिशं पुरस्तात्प्रथममेवश्छन्द इति प्रतिमन्त्रम्' (का० १७ । ११ । ५) । प्रतिदिशं दश दश विराट्संज्ञा इष्टका उपदधाति ताश्चत्वारिंशत्पद्या एवेति सूत्रार्थः । चत्वारिंशद्यजूंषि इष्टकादेवत्यानि । एति गच्छति सर्वो जन्तुसमूहो यस्मिन्नित्येवः पृथिवीलोकः स एव छन्दोरूपेण स्थितत्वात् छादकत्वाद्वा छन्दः । हे इष्टके, त्वं तद्रूपासि तां त्वामुपदधामि । एवमुत्तरमन्त्रेषु व्याख्या श्रुत्युक्ता ज्ञेया । 'अयं वै लोक एवश्छन्दः ' (८।५।२।३) इति श्रुतेः। वरिवः प्रभामण्डलेन व्रियत आव्रियत इति वरिवोऽन्तरिक्षं तदेव छन्दः । 'अन्तरिक्षं वै वरिवश्छन्दः' ( ८ । ५ । २ । ३) इति श्रुतेः । शंभूः शं सुखं भवत्यस्मादिति शंभूः द्युलोकः । 'द्यौर्वै शम्भूच्छन्दः' (३) इति श्रुतेः । परितो भवति व्याप्य वर्तत इति परिभूर्दिग्वाचकः