पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'अषाढावेलायां पुरस्ताद्बृहतीरेना व इति' (का० ( १८ । १२।१०) । अषाढावेलायाः पुरस्तात्तिस्रो बृहतीष्टका एना व इति तिसृभिरुपदधातीत्यर्थः । तिस्रो बृहत्यः प्रगाथः ऋगद्वयग्रन्थनेन ऋक्त्रयसंपादनं प्रगाथः तत्र बृहतीसतोबृहतीभ्यां तिस्रो बृहत्यः कृताः । यस्यास्तृतीयो द्वादशाक्षरोऽन्ये त्रयोऽष्टार्णाः सा बृहती । 'एना वोऽग्निं नमसोर्जोनपातमाहुवे । प्रियं चेतिष्ठमरतिᳪ स्वध्वरं विश्वस्य दूतममृतम्' इति । यस्याः प्रथमद्वितीयौ द्वादशार्णौ द्वितीयतुर्यावष्टार्णौ सा सतोबृहती। ‘स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवᳪ राधो जनानाम्' इति । तत्र बृहत्यास्तुरीयं पादं द्विरावर्त्य सतोबृहत्याः पूर्वार्धेन सह द्वितीया बृहती कृता । सतोबृहत्या द्वितीयपादं द्विरावर्त्य तस्या एवोत्तरार्धेन सह तृतीया बृहती कृता । एवं तिस्रो बृहत्यः संहितायां पठिताः । तत्रावर्तितपादानामर्थान्तराभावाद् द्वे ऋचौ व्याख्यायेते । एना वः । विभक्तेराकारः । हे ऋत्विग्यजमानाः, वो युष्माकं संबन्धिना एना एनेन नमसान्नेन हविर्लक्षणेनाग्निमहमाहुवे आह्वयामि । वो युष्माकमेनमग्निं नमसा हुव इति वा । कीदृशमग्निम् । ऊर्जोनपातमपां पौत्रं प्रियं यजमानानां प्रीतिहेतुम् चेतिष्ठमतिशयेन चेतयितारम् । 'तुरिष्ठेमेयस्सु' (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः । अरतिमलमतिं पर्याप्तमतिम् । यद्वा रतिरुपरमस्तद्रहितम् । सदोद्यमयुतमित्यर्थः । स्वध्वरं शोभना अध्वरा यज्ञा यस्य तम् ॥ ३२ ॥

त्रयस्त्रिंशी।
विश्व॑स्य दू॒तम॒मृतं॒ विश्व॑स्य दू॒तम॒मृत॑म् । स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः ।। ३३ ।।
उ० स योजते । स एवाग्निः योजते युनक्ति । अरुषा अक्रोधनावश्वौ रथे । विश्वभोजसा सर्वस्य भोक्तारौ । द्वितीयाद्विवचनस्य स्थाने द्वयोः प्रातिपदिकयोराकारः । स एव च दुद्रवत् द्रवति गच्छति । स्वाहुतः शोभनप्रकारेण हुतः सन् ॥ ३३ ॥
म०. विश्वस्य दूतं सर्वस्य यजमानजनस्य सर्वस्य जगतो वा दूतवत्कार्यकारिणम् । सर्वस्य हि गृहे दाहपाकादिकार्यकरत्वात् । अमृतं मरणरहितम् । अथ सतोबृहती व्याख्यायते । स योजते । यमग्निमाह्वयामि सोऽग्निः अरुषा अरुषौ रोषरहितौ साधू विश्वभोजसा विश्वं भुञ्जते तौ विश्वभोजसौ सर्वस्य भोक्तारौ। द्वितीयाद्विवचनस्थाने आकारः भुजेरसुन् । एवंविधावश्वौ रथे योजते युनक्ति । विशेषणाभ्यां विशेष्यमश्वपदं रथपदं चाध्याहार्यम् ॥ ३३ ॥

चतुस्त्रिंशी।
स दु॑द्रव॒त्स्वा॒हुत॒: स दु॑द्रव॒त्स्वा॒हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वᳪ राधो॒ जना॑नाम् ।। ३४ ।।
उ० क्व गच्छतीत्यत आह । यत्र सुब्रह्मा यज्ञः । सुब्रह्मग्रहणं सर्वर्त्विगुपलक्षणार्थम् । शोभनर्त्विग्यज्ञः । सुशमी च । शमीति कर्मनाम । शोभनानि कर्माणि यस्मिन्यज्ञे स सुशमी । वसूनां देवम् वसूनां रुद्राणामादित्यानां देवानां यस्मिन्यज्ञे क्लृप्तानि सवनानि । एवमध्याहारेण विभक्तिव्यत्ययेन च वाक्यसामञ्जस्यम् । राधो जनानाम् राधो धनं च यत्र जनानामुपक्लृप्तम् तत्र स योजत इति संबन्धः ॥ ३४ ॥
म० स एवाग्निः रथारूढः सन् स्वाहुतः शोभनप्रकारेणाहुतः सन् दुद्रवत् द्रवति गच्छति 'द्रु गतौ' 'णिश्रिद्रुस्रुभ्यः-' (पा० ३ । १ । ४८) इति लुङि चङ् द्वित्वम् अडभावगुणाभावावार्षौ । कुत्र गच्छतीत्यत आह सुब्रह्मेति । वसूनामिति । वसुशब्दो रुद्रादित्ययोरुपलक्षकः । वसूनां रुद्राणामादित्यानां सवनत्रयदेवानां यत्र यज्ञः यत्र च जनानां यजमानानां देवं दीप्यमानं राधो धनं हविर्लक्षणं चास्ति तत्राग्निर्गच्छतीत्यर्थः । सुब्रह्मा ब्रह्मपदं सर्वर्त्विगुपलक्षणम् । शोभनो ब्रह्मा ऋत्विग्यत्र शुभर्त्विग्युक्तः । सुशमी । शमीति कर्मनाम । शोभनानि कर्माणि यत्रेति सुशमी शोभनकर्मवान् । अग्निराहुतो रथेऽश्वान्नियुज्य यज्ञे हविर्भोक्तुमाश्वागच्छतीति सर्वार्थः ॥ ३४ ॥

पञ्चत्रिंशी।
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रव॑: ।। ३५ ।।
उ० अग्ने वाजस्य । औष्णिहस्तृचः । हे अग्ने, यस्त्वं वाजस्यान्नस्य । गोमतः गोभिः संयुक्तस्य । ईशानः ईश्वरः । हे सहसो यहो बलस्य पुत्र । सह इति बलनाम । यहुरिति पुत्रस्य नाम । मथ्यमानो जायते तस्मादेवमाह सहसस्पुत्रमित्यादि । स त्वम् । अस्मे धेहि अस्मभ्यं देहि । हे जातवेदः महि महत् श्रवोऽन्नलक्षणं धनम् गोभिः संयुक्तम् ॥ ३५॥
म०. 'अपरा गायत्रीभ्य उष्णिहोऽग्ने वाजस्येति' (का० । १७ । १२ । १३) । गायत्रीभ्योऽपरास्तित्र उष्णिक्संज्ञा इष्टका अग्न इति ऋक्त्रयेणोपदधातीति सूत्रार्थः । तिस्र उष्णिहः । हे अग्ने, हे सहसो यहो बलस्य पुत्र, सह इति बलनाम यहुरिति पुत्रनाम । मन्थनाज्जायमानत्वाद्बलस्य पुत्रत्वम् । सहसस्पुत्रमित्युक्तं च । हे जातवेदः उत्पन्नज्ञान, अस्मे अस्मभ्यं महि महत् श्रवः धनं धेहि देहि । कीदृशस्त्वम् । गोमतः धेनुयुक्तस्य वाजस्यान्नस्येशानः ईश्वरः अतएव धनं गाश्च देहीत्यर्थः ॥ ३५ ॥

षत्रिंशी।
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा । रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ।। ३६ ।।