पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

भवतु । ततः संसृष्टेष्टापूर्तो व्यपगतकल्मषः सन् । अस्मिन्सधस्थे सहस्थाने देवैः । पुनरपि विशिनष्टि । अध्युत्तरस्मिन् सर्वोत्कृष्टे आदित्यलोके । विश्वेदेवा यजमानश्च सीदतु । विश्वैर्देवैर्यजमानस्य समानलोकता प्रार्थ्यते ॥ ५४॥
म० हे अग्ने, त्वमुद्बुध्यस्व उद्बुद्धो भव सावधानो भव । एनं यजमानं प्रतिजागृहि प्रतिदिनं यजमानं जागरूकं सावधानं कुरु । तत इष्टापूर्ते श्रौतस्मार्ते कर्मणी संसृजेथां यजमानेन सह संसृष्टे भवताम् । त्वत्प्रसादात् अयं च यजमान इष्टापूर्ताभ्यां संसृज्यताम् । पुरुषव्यत्ययः । किंच हे विश्वेदेवाः, यूयं कृतेष्टपूर्तो निष्पापो यजमानश्च सधस्थे देवैः सह स्थितियोग्ये अस्मिन्नुत्तरस्मिन् सर्वोत्कृष्टे रविलोके द्युलोके सीदत तिष्ठत अधि अधिकम् । चिरं तिष्ठतेत्यर्थः । 'द्यौर्वा उत्तरᳪसधस्थम्' ( ८ । ६ । ३ । २३) इति श्रुतेः । विश्वैर्देवैः सालोक्यं यजमानस्य प्रार्थ्यत इति भावः ॥ ५४ ॥

पञ्चपञ्चाशी।
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् ।
तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे ।। ५५ ।।
उ० येन वहसि । येन हेतुना सामर्थ्येन वा वहसि प्रापयसि सहस्रम् । येन हे अग्ने, सर्ववेदसं सर्वधनम् । तेन इमं यज्ञम् नः अस्मत्संबन्धिनम् नय प्रापय । स्वर्देवेषु गन्तवे स्वर्लोकं देवेषु देवान्प्रति । गन्तवे गमनाय । यज्ञे हि स्वर्लोकं गते अस्माकमपि गमनं भवति । तदुक्तम् । 'सोऽस्य यज्ञो देवलोकमेवाभिप्रेति तदनूची दक्षिणायां ददाति सेति दक्षिणामन्वारभ्य यजमानः' इति ॥५५॥
म० हे अग्ने, येन सामर्थ्येन सहस्रं सहस्रदक्षिणाकं यज्ञं त्वं वहसि प्रापयसि । येन च सर्ववेदसं सर्वं वेदो धनं दक्षिणा यत्र तं सर्वस्वदक्षिणाकं यज्ञं वहसि तेन सामर्थ्यन नोऽस्माकमिमं यज्ञं देवेषु गन्तवे देवान् प्रति गन्तुं स्वः स्वर्गं नय प्रापय । तुमर्थे गमेः तवेप्रत्ययः । यज्ञे स्वर्गं गतेऽस्माकमपि तत्र गमनं स्यात् । 'सोऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति प्रैति दक्षिणामन्वारभ्य यजमानः' (१२) इति श्रुतेः । अतो यज्ञस्य स्वर्गगमनं प्रार्थ्यते ॥५५॥

षट्पञ्चाशी।
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।। ५६ ।।
उ० अयं त इति व्याख्यातम् ॥ ५६ ॥
म० इयं व्याख्याता ( ३ । १४ । १२ । ५२ ) ॥ ५६ ॥

सप्तपञ्चाशी।
तप॑श्च तप॒स्य॒श्च शैशि॒रावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे शै॒शि॒रावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वे सी॑दतम् ।। ५७ ।।
उ० ऋतव्ये । तपश्च तपस्यश्चेति व्याख्यातम् ॥ ५७ ॥
म० एवं पुनश्चित्युपस्थानमुक्त्वा पञ्चमचितिशेषभूतेष्टकोपधाने मन्त्रा उच्यन्ते । 'ऋतव्ये तपश्च तपस्यश्चेति' ( का० १७॥ १२ । २२ ) । ऋतव्ये द्वे पद्येष्टके उपदधाति । ऋतुदेवत्यं यजुः उत्कृतिश्छन्दः । तपो माघः तपस्यः फाल्गुनः शैशिरौ | ऋतू शिशिरर्तोरवयवौ । शिष्टं व्याख्यातम् (१३ । २५)॥५७॥

अष्टपञ्चाशी ।
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
सूर्य॒स्तेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। ५८ ।।
उ०विश्वज्योतिषम् । परमेष्ठी त्वा इति व्याख्यातम् ॥५८॥
म० 'विश्वज्योतिषं परमेष्ठी त्वेति' ( का० १७।१२।२३) यजमानकृतां पद्यां विश्वज्योतिषं तृतीयोपहिताया विश्वज्योतिष उपर्युपदधातीति सूत्रार्थः । सूर्यदेवत्यं यजुः शक्करीच्छन्दः । परमेष्ठी त्वां दिवः पृष्ठे उपरि सादयतु । सूर्यस्ते तवाधिपतिः पालक इति विशेषः । अन्यद्व्याख्यातम् ( अध्या० १४ क० १४)॥५८ ॥

एकोनषष्टी।
लो॒कंपृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन्योना॑वसीषदन् ।। ५९ ।।
उ० लोकंपृण व्याख्यातम् ॥ ५९॥
म० 'दक्षिणाᳪसात्प्रत्यगरत्निमात्रादधि लोकंपृणाः पूर्ववत्' ( का० १७ । १२ । २४)। आत्मनो दक्षिणादाग्नेयकोणादपरस्यां दिश्यरत्निमात्रादधि पद्यालोकद्वयं परित्यज्य तृतीयलोकादारभ्य प्रथमचितिवल्लोकंपृणा उपदधातीति सूत्रार्थः । "तिस्रोऽपि द्वादशे' ( १२ । ५४-५६) व्याख्याताः ॥ ॥५९-६१ ॥

षष्टी।
ता अ॑स्य॒ सूद॑दोहस॒: सोम॑ᳪ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वारो॑च॒ने दि॒वः ।। ६० ।।
उ० ता अस्य ॥ ६० ॥

एकषष्टी।
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: । र॒थीत॑मᳪ र॒थीनां॒ वाजा॑ना॒ᳪ सत्प॑तिं॒ पति॑म् ।। ६१ ।।
उ० इन्द्रं विश्वाः ॥ ६१ ॥