पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

धावद्भ्यश्च वो नमो नमः । शतृशानजन्तान्येतानि पदानि ऋजून्येव ॥ २३ ॥
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥

चतुर्विंशी।
नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪह॒तीभ्य॑श्च वो॒ नम॑: ।। २४ ।।
उ० इतउत्तरं जातेभ्यो जुहोति । जाता जातिविशेषाः त इहोच्यन्ते रुद्राद्वैतप्रतिपादनाय । रुद्रलोके किलेत्थंभूता रुद्राः सन्ति । तदुक्तम् । 'अथो एवᳪहैतानि रुद्राणां जातानि' इति । नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्तव्येति तात्पर्यार्थः । सभापतिभ्यश्च वो नमः । नम अश्वेभ्यः अश्वपतिभ्यश्च वो नमः । नम आव्याधिनीभ्यः आविध्यन्तीत्याव्याधिन्यः सेनाः विविध्यन्तीभ्यश्च वो नमः । विविधं विध्यन्तीति विग्रहे सेना एवाभिधेया । नम उगणाभ्यः उदुपसर्गस्यान्त्यलोपः । उद्गूर्णगणाः समूहा यासु सेनासु ता एवमुच्यन्ते । तृᳪहतीभ्यश्च वो नमः । तृंहतिर्हिंसाकर्मा । हिंसन्तीभ्यः ॥ २४ ॥
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । 'अथो एवᳪ हैतानि रुद्राणां जातानि' (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः 'तृहि हिंसायां' हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥

पञ्चविंशी।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ।। २५ ।।
उ० नमो गणेभ्यः । गणः समूहः । गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यः । व्रातमर्हन्ति ते व्राता गणविशेषाः । व्रातपतिभ्यश्च वो नमः । नमो गृत्सेभ्यः गृत्सो मेधावी । गृत्सपतिभ्यश्च वो नमः । नमो विरूपेभ्यः निकृष्टरूपेभ्यः नानारूपेभ्यो वा । विश्वरूपेभ्यश्च वो नमः । विश्वरूपाः सर्वरूपाः ॥ २५॥
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥

षड्विंशी।
नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑: ।। २६ ।।
उ० नमः सेनाभ्यः । सेना चमूः । सेनानिभ्यश्च वो नमः । सेना नयतीति सेनानीः । नमो रथिभ्यः रथा येषां सन्ति ते रथिनः । अरथेभ्यश्च वो नमः । अरथा रथवर्जिता योद्धारः । नमः क्षत्तृभ्यः रथानामधिष्ठातारः क्षत्तारः संग्रहीतृभ्यश्च वो नमः । संग्रहीतारः सारथयः । नमो महद्भ्यः महान्तो जातिविद्यादिभिरुत्कृष्टाः । अर्भकेभ्यश्च वो नमः । अर्भका अल्पकाः प्रमाणादिभिः ॥ २६ ॥
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । 'क्षि निवासगत्योः' तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे' क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः 'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ' इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ' ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥

सप्तविंशी।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑: ।। २७ ।।