पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

पातु रक्षतु । चतुर्थी पञ्चम्यर्थे । या काचिद्धिंसा प्रसक्ता तां सर्वां परिहरत्वित्यर्थः । इतरदिक्त्रये परिधित्रयं रक्षकं पूर्वस्यां तदभावात् सूर्यः । तथाच श्रुतिः 'गुप्त्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमिव पुरस्ताद्गोप्तारं करोति' (१।३।४।८) इति। 'बर्हिषस्तृणे तिरश्च्यो निदधाति सवितुरिति' (का०२।८।५) इति । तृणद्वयं प्रस्तरस्थापनार्थं तिर्यग् निदध्यात् । हे तृणे, युवामुभे सवितुर्देवस्य बाहू स्थः । प्रस्तरधारणेन सूर्यस्य बाहू इव भवथः ॥ 'तयोः प्रस्तरᳪ स्तृणात्यूर्णम्रदसमिति' (का. २। ८ । १०) इति । ऊर्णमिव मृदुं देवेभ्यो देवानां स्वासस्थं सुखेनासनेन स्थीयते यत्र तादृशं त्वां स्तृणामि । 'अभिविदधात्या वा वसवः' (का० २ । ८ । ११) इति । प्रस्तरंप्रति पाणी निदधाति । वसवो रुद्रा आदित्याः सवनत्रयाभिमानिनस्त्रयो देवाः त्वामासदन्तु आसादयन्तु सर्वतः प्रसारयन्तु ॥ ५॥

षष्ठी।
घृ॒ताच्य॑सि जु॒हूर्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द घृ॒ताच्य॑स्युप॒भृन्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द घृ॒ताच्य॑सि ध्रु॒वा नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द । ध्रु॒वा अ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य॒म्।। ६ ।।
उ० जुहूं निदधाति । घृताच्यसि । 'अञ्जु गतिपूजनयोः'। घृतमञ्चितं प्राप्तं यस्यां स्रुचि, घृतं वा अच्यते यया स्रुचा सा घृताची। जुहूर्नाम्ना । क्रियाभिप्रायमेतत् । हूयते अनयेति जुहूः । सेदं प्रियेण धाम्नेति तदः श्रवणाद्यदोऽध्याहारः । या त्वं घृताच्यसि जुहूश्च नाम्ना सा इदं प्रियं सदः स्थानम् आसीद अधितिष्ठ । प्रियेण धाम्ना सहिता । 'एतद्वै देवानां प्रियं धाम यदाज्यम्' इति श्रुतिः । आज्यसहितेत्यर्थः । अथवा 'धामानि भवन्ति स्थानानि नामानि जन्मानीति वा। अस्मिन् पक्षे प्रियेण नाम्ना सहिता सतीति योज्यम् । उपभृतं सादयति । घृताच्यस्युपभृन्नाम्ना । उपाभरणादुपभृत् । व्याख्यातमन्यत् । ध्रुवां सादयति । घृताच्यसि ध्रुवा नाम्ना। ध्रुवा स्थिरा । व्याख्यातमन्यत् । अन्यद्धविः सादयति । प्रियेण धाम्ना । व्याख्यातमन्यत् । तानि हवीᳪष्यभिमृशति । ध्रुवा असदन् । ता विष्णो पाहीति तदः संबन्धाद्यदोऽध्याहारः । यान्येतानि ध्रुवाणि असदन आसादितानि ऋतस्य योनौ यज्ञस्योत्सङ्गे ता विष्णो तानि हवींषि पाहि गोपाय । किंच । पाहि यज्ञम् गोपाय यज्ञम् । किंच पाहि यज्ञपतिं यजमानम् । आत्मानमुपस्पृशति । पाहि माम् । अध्वर्युरात्मानं ब्रवीति गोपाय माम् । यज्ञन्यम् यज्ञं नयतीति यज्ञनीः । गोपाय मां यज्ञस्य नेतारमित्यर्थः ॥ ६॥
म० 'सव्याशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीत्येवमितरे उत्तराभ्यां प्रतिमन्त्रम्' (का० २। ८ । १२-१३) इति । हे जुहु, त्वं घृताची असि । घृतमञ्चति प्राप्नोतीति घृताची घृतपूर्णा भवसि । नाम्ना च जुहूः । हूयतेऽनयेति जुहूः । 'क्विपि द्युतिगमिजुहोतीनां द्वे च जुहोतेर्दीर्घश्च' (पा० क०. | ३ । २ । १७८) इति द्वित्वं दीर्घश्च । सा त्वं प्रियेण धाम्ना । देववल्लभेनाज्येन सह इदं प्रियं सदः प्रस्तरलक्षणमासीद | अधितिष्ठ । 'एतद्वै देवानां प्रियतमं धाम यदाज्यम्' (२ । ३ । | २ । १७) इति श्रुतेः । प्रियधामशब्देनाज्यम् । उपभृतं सादयति । उप समीपे स्थित्वा बिभर्ति आज्यं धारयतीत्युपभृत् । व्याख्यातमन्यत् । ध्रुवां सादयति । 'ध्रुव स्थैर्ये' । | यथा होमार्थं जुहूपभृतोश्चलनं तद्वदस्याश्चलनाभावेन स्थिरत्वान्नाम्ना ध्रुवा । अन्यद्व्याख्यातम् । 'प्रियेण धाम्नेति हवीᳪषि वेद्यां कृत्वा' (का० २ । ८ । १९) इति । हे हविः, प्रियेण धाम्नाज्येन सह प्रियं सद आसीदेत्येकै हविः संबोध्य वचनम् । “धुवा असदन्निति सर्वाण्यालभते' (का० २।८।१९) इति । ऋतस्यावश्यंभाविफलोपेतत्वेन सत्यस्य यज्ञस्य योनौ स्थाने ध्रुवाणि यानि हवींषि असदन्नतिष्ठन् । हे विष्णो व्यापक यज्ञपुरुष, ता तानि हवींषि पाहि रक्ष । यज्ञं च पाहि यज्ञपतिं च पाहि । 'पाहि मामित्यात्मानम्' (का० २ । ८ । २०) | इति । यज्ञं नयतीति यज्ञनीः तं यज्ञन्यमध्वर्युं मां पाहि ॥६॥

सप्तमी।
अग्ने॑ वाजजि॒द्वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जित॒ᳪ सम्मा॑र्ज्मि । नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्य॑: सु॒यमे॑ मे भूयास्त॒म् ।। ७ ।।
उ० अग्नेः संमार्गं करोति । अग्ने वाजजित् । हे भगवन्नग्ने, वाजजित् वाजस्यान्नस्य जेतः, वाजं त्वा सरिष्यन्तमिति । 'सृ गतौ' । यज्ञं त्वां प्रापयिष्यन्तम् । वाजजितं अस्य जेतारं संमार्ज्मि । 'मृजूष् शुद्धौ' । अञ्जलिं करोति । नमो देवेभ्यः देवेभ्यो निह्नवः । दक्षिणत उत्तानं पाणिं करोति । स्वधापितृभ्यः पितृभ्यो निह्नवः । जुहूपभृतावादत्ते । सुयमे मे । स्रुचावुच्येते । साधु यमे मे मम भूयास्तं भवतम् ॥ ७ ॥
म० 'इध्मसन्नहनैरनुपरिधि समार्य्ट्उग्ने वाजजिदिति त्रिस्त्रिः परिक्रामम्' (का० ३ । १ । १३) इति । वाजमन्नं जयतीति वाजजित् । तत्संबुद्धौ हे वाजजित् हे अग्ने, त्वामहं संमार्ज्मि शोधयामि । किंभूतं त्वाम् । वाजं सरिष्यन्तमन्नमुद्दिश्य गमिष्यन्तमन्नसंपादनोपयुक्तम् । तथा वाजजितमन्नमुद्दिश्य जयोपेतम् । अन्नप्रतिबन्धनिवारकमित्यर्थः । 'अपरमा