पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अपोहामि अपाञ्चं प्रेरयामि । अधो नयामीत्यर्थः । उत्तरौ मन्त्रौ समानव्याख्यानौ ॥ १५ ॥
म० 'जुहूपभृतौ व्यूहत्यग्नीषोमयोरिति' (का० ३।५। १७-१८) इति । तत्र जुहूं प्राचीं प्रेरयति यजमानः । व्यूहनं परस्परविपरीतत्वेनापनोदनम् । अग्नीषोमयोर्द्वितीयपुरोडाशदेवतयोरुज्जितिमनु अविघ्नेन हविःस्वीकाररूपमुत्कृष्टं जयमनुसृत्याहमुज्जेषमुत्कृष्टं जयं प्राप्तवानस्मि । वाजस्यान्नस्य पुरोडाशादेः प्रसवेनाभ्यनुज्ञया मां प्रोहामि मां यजमानं जुहूरूपधारिणं प्रोत्साहयामि । यद्यप्यूहतिधातुर्वितर्कार्थस्तदाप्युपसर्गवशादुत्साहार्थः । अन्यत्पूर्ववत् । उपभृतं प्रतीचीं प्रेरयति । यः शत्रुरसुरादिरस्मान्द्वेष्टि अस्मदीययज्ञविनाशाय द्वेषं करोति । यं च वयं द्विष्मः । यमालस्यादिरूपमस्मदीयानुष्ठानविरोधिनं शत्रुं द्विष्मः विनाशायोद्योगं कुर्मः तमुभयविधं शत्रुमग्नीषोमौ देवावपनुदतां निराकुरुताम् । किंच । अहमप्येनं द्विविधं शत्रुमुपभृद्रूपं वाजस्य प्रसवेन पुरोडाशदेवताया अभ्यनुज्ञयापोहामि निराकरोमि । उत्तरौ मन्त्रौ दर्शदेवताविषयौ समानार्थौ ॥ १५ ॥

षोडशी।
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वा ऽऽदि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम् ।
व्यन्तु॒ वयो॒क्तᳪ रिहा॑णा म॒रुतां॒ पृषतीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह ।
च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ।। १६।।
उ० परिधीननक्ति अध्वर्युः । वसुभ्यस्त्वा परिधिरुच्यते । वसुभ्योर्थाय त्वामनज्मि । रुद्रेभ्योर्थाय त्वामनज्मि । आदित्येभ्योर्थाय त्वामनज्मि । एतदुक्तं भवति । इत्थंभूता यूयं येन युष्मदभ्यञ्जनेन सवनदेवतानां तृप्तिः । प्रस्तरमादत्ते । संजानाथाम् । हे द्यावापृथिव्यौ, युवां संजानाथाम् । अवगतार्थे भवतम् । युवाभ्यां वृष्टिर्दातव्येति । किंच मित्रावरुणौ वां वृष्ट्यावताम् । वायुर्वै वर्षस्येष्टे स चाध्यात्मम् । प्राणोदानभूतौ मित्रावरुणशब्दाभ्यामुच्यते। तद्योयं वायुरध्यात्मगतः स प्रस्तररूपापन्नं यजमानं त्वां वृष्ट्या अवतु पालयतु । 'यजमानो वै प्रस्तरः' इति श्रुतिः । अनक्ति । व्यन्तु वय इति । छन्दांस्यभिधीयन्ते गायत्र्यादीनि । वेतिर्गत्यर्थः । व्यन्तु गच्छन्तु । वयोरूपाणि छन्दांसि प्रस्तरमादायेति शेषः । अक्तं द्रुतमेव प्रस्तरम् । रिहाणाः लिहाना आस्वादयन्तः । नीचैर्हरति । मरुतां पृषतीः । बृहती प्रस्तरदेवत्या । चतुर्थः पाद आग्नेयः । आहुतिपरिमाणं त्रिभिः पादैराह । अन्तरिक्षस्थाना मरुतः तेषामादिष्टोपयोजनं पृषत्यो गावो वाहनं । मरुतां संबन्धिनीः पृषतीर्गच्छ । ततः अन्तरिक्षं तर्पयित्वा।। वशा त्वं पृश्निर्भूत्वा दिवं गच्छ । 'इयं वै वशापृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशापृश्निः ' इति श्रुतिः । पृथिवीसंबन्धिभिर्भोगैर्द्युलोकं तर्पयित्वा इत्युक्तं भवति । ततो नो वृष्टिमावह । ततस्तस्मात् द्युलोकात् नः अस्माकं वृष्टिमावह । वृष्ट्या इमां पृथिवीं तर्पयेत्यर्थः । आत्मानमुपस्पृशति चक्षुष्पाः । हे भगवन्नग्ने, यतस्त्वं चक्षुष्पा भवसि स्वरसप्रवृत्त्या । अतश्चक्षुर्मे पाहि गोपाय ॥ १६ ॥
म० 'जुह्वा परिधीननक्ति यथापूर्वं वसुभ्य इति प्रतिमन्त्रम्' (का० ३।५।२४) इति । हे मध्यमपरिधे, वसुभ्यः वसुदेवताप्रीत्यर्थं त्वा त्वामनज्मीति शेषः । एवं दक्षिणोत्तरपरिधिमन्त्रौ व्याख्येयौ। परिधित्रयाञ्जनेन सवनत्रयदेवताः प्रीयन्त इति भावः । 'संजानाथामिति प्रस्तरादानम्' (का० ३।६। ३) इति । हे द्यावापृथिवी द्युलोकभूलोकदेव्यौ, युवां संजानाथां गृह्यमाणं प्रस्तरं सम्यगवगच्छतम् । किंच हे प्रस्तर, मित्रावरुणौ प्राणापानवायू वृष्ट्या जलवर्षणेन त्वा त्वामवतां रक्षताम् । 'वायुर्वै वर्षस्येष्टे' (१।८ । ३-१२) इत्युक्तत्वाद्वर्षाधीशो वायुः । स चाध्यात्मगतः प्राणोदानरूपो मित्रावरुणशब्दाभ्यामुच्यते । स च प्रस्तररूपं यजमानं वृष्ट्यावतु । 'यजमानो वै प्रस्तरः' (१।८।१।४४) इति श्रुतेः । 'अनक्त्येनं व्यन्तु वय इत्यग्रं जुह्वामुपभृति मध्यं मूलमितरस्याम्' (का० ३ । ६।४-७) इति । इतरस्यां ध्रुवायाम् । वयः पक्षिणः व्यन्तु । 'वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु' । पक्षिरूपापन्नानि गायत्र्यादीनि छन्दांसि गच्छन्तु । प्रस्तरमादायेति शेषः । किंभूताः वयः । अक्तं रिहाणाः । अक्तं घृतलिप्तं प्रस्तरं लिहिनाः आस्वादयन्तः । रलयोरैक्यम् ॥ 'मरुतामिति नीचैर्हृत्वा तृणमादायानुप्रहरति' (का० ३।६। ८) इति । एकं तृणं प्रस्तरात्पृथक्कृत्य प्रस्तरं नीचैर्हृत्वाग्नौ प्रक्षिपेदिति सूत्रार्थः । मरुतामिति प्रस्तरदेवत्या बृहती कपिदृष्टा । चतुर्थः पाद आग्नेयः । हे प्रस्तर, त्वं मरुतां पृषतीर्गच्छ । मरुन्नामकानां देवानां संबन्धिनीः पृषतीर्वाहनरूपा अश्वाश्चित्रवर्णा गच्छ प्राप्नुहि । वायुवाहनवद्वेगेन गच्छेत्यर्थः । अन्तरिक्षं वशापृश्निर्भूत्वा । वशा स्वाधीना पृश्निरल्पतनुर्गौर्भूत्वा दिवं गच्छ । कामधेनुवत्तृप्तिकरी भूत्वा स्वर्गं गच्छेत्यर्थः । ततः स्वर्गप्राप्तेरनन्तरं नोऽस्मदर्थं वृष्टिमावह भूलोके वृष्टिमानय । यद्वा । 'इयं वै वशापृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशापृश्निः' (१।८।३ । १५) इति श्रुतेर्वशापृश्निशब्देन भूमिरुच्यते । वशापृश्निर्भूत्वा पृथिवी भूत्वा दिवं गच्छ । पृथिवीसंबन्धिभागानादाय द्युलोकं तर्पयेत्यर्थः । हे प्रस्तर, त्वमन्तरिक्षं गत्वा तत्रस्थान्मरुतः सवाहनान्संतर्प्य स्वर्गं गत्वा देवांश्च संतर्प्य पृथिव्यां वृष्टिं कुर्वित्याहुतिपरिणामः सूचित इति भावः । 'चक्षुष्पा इत्यात्मानमालभते' (का० ३।६।१५) इति । हे अग्ने, त्वं यतश्चक्षुष्पा असि । चक्षुः पातीति चक्षुष्पाः । ज्वालयान्धकारं