पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० यजुर्भिराप्यन्ते । यजुर्भिः यजूंषि आप्यन्ते । ग्रहा ग्रहैराप्यन्ते । स्तोमाश्च विष्टुतीश्च छन्दोभिः उक्थशस्त्राणि साम्नावभृथ आप्यते । साम्ना साम आप्यते अवभृथेनावभृथः ॥ २८ ॥
म० यजुर्भिः यजूंषि आप्यन्ते । ग्रहा ग्रहैराप्यन्ते स्तोमैः स्तोमा आप्यन्ते । विष्टुतिभिर्विविधस्तुतिभिर्विष्टुतीर्विष्टुतय आप्यन्ते । छन्दोभिरुक्थाशस्त्राणि उक्थानि शस्त्राणि चाप्यन्ते। साम्ना सामाप्यते । अवभृथेनावभृथ आप्यते ॥ २८ ॥

एकोनत्रिंशी ।
इडा॑भिर्भ॒क्षाना॑प्नोति सूक्तवा॒केना॒शिष॑: । शं॒युना॑ पत्नीसंया॒जान्त्स॑मिष्टय॒जुषा॑ स॒ᳪस्थाम् ।। २९ ।।
उ० इडाभिर्भक्षान् । इडाभिः इडामाप्नोति । भक्षैर्भक्षानाप्नोति । सूक्तवाकेन सूक्तवाकम् । आशीर्भिराशिषः । शंयुना शंयुमाप्नोति । पनीसंयाजैः पत्नीसंयाजानाप्नोति । समिष्टयजुषा समिष्टयजुराप्नोति। संस्थया संस्थामाप्नोति २९
म० इडाभिरिडामाप्नोति । भक्षैर्भक्षानाप्नोति । सूक्तवाकेन सूक्तवाकमाप्नोति । आशीर्भिराशिष आप्नोति । शंयुना होमविशेषेण शंयुमाप्नोति । पत्नीसंयाजैः पत्नीसंयाजानाप्नोति । समिष्टयजुषा समिष्टयजुराप्नोति । संस्थया संस्थामाप्नोति । इडादीनामुभयत्र सद्भावात् ॥ २९॥

त्रिंशी ।
व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑ऽऽप्नोति॒ दक्षि॑णाम् । दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते ।। ३० ।।
उ० व्रतेन। हुतोच्छिष्टभक्षश्चतूरात्रिमग्निहोत्रं जुहोतीति । अनेन व्रतेन दीक्षामाप्नोति । दीक्षया दक्षिणामाप्नोति । दक्षिणा दक्षिणयेति विभक्तिव्यत्ययः । श्रद्धामाप्नोति । अदिति सत्यनामसु पठितम् । तदस्यां धीयते आस्तिक्येनैवमेतदिति सा श्रद्धा पुण्यकृतां मनोविशेषः । श्रद्धया सौत्रामण्या सत्यमाप्यते । सत्यम् ज्ञानमनन्तं ब्रह्म । त्रयीलक्षणं वा ॥ ३०॥
म० हुतोच्छिष्टभक्षश्चतूरात्रिमग्निहोत्रं जुहोतीति । व्रतेन दीक्षामाप्नोति । दीक्षया दक्षिणामाप्नोति । दक्षिणा विभक्तिलोपः । दक्षिणया श्रद्धामाप्नोति । श्रदिति सत्यनाम । श्रत् सत्यं धीयते यस्यां सा श्रद्धा आस्तिक्यबुद्धिः पुण्यवतां मनोविशेषः । श्रद्धया सत्यं ज्ञानमनन्तं ब्रह्माप्यते प्राप्यते । श्रद्धां विना ज्ञानाभावात् ॥३०॥

एकत्रिंशी।
ए॒ताव॑द्रू॒पं य॒ज्ञस्य॒ यद्दे॒वैर्ब्रह्म॑णा कृ॒तम् । तदे॒तत्सर्व॑माप्नोति य॒ज्ञे सौ॑त्राम॒णी सु॒ते ।। ३१ ।।
उ० एतावत् । यत्परिमाणं रूपं सोमयज्ञस्य । यद्देवैश्च ब्रह्मणा च प्रजापतिना कृतं दृष्टम् । दर्शनकरणयोः को विशेष इतिचेत् । स्वमप्रतिबुद्धन्यायेन दर्शनम् । करणं तु बुद्धिपूर्वकम् । यदेतत्सर्वमाप्नोति यज्ञे सौत्रामणी । पूर्वसवर्णदीर्घ आदेशश्छान्दसः । सौत्रामण्याख्ये सुते सुरासोमाभिषुते ॥ ३१॥
म० यज्ञस्य सोमयज्ञस्य एतावत् एतत्परिमाणं रूपम् देवैर्ब्रह्मणा प्रजापतिना च यद्रूपं कृतं दृष्टम् । दर्शनकरणयोः को भेदः । सुप्तप्रतिबुद्धन्यायो दर्शनं । बुद्धिपूर्वं तु करणम् । सौत्रामणी । सप्तम्येकवचनस्य पूर्वसवर्णदीर्घः । सौत्रामणी सौत्रामण्यां यज्ञे सुते सुरासोमेऽभिषुते सति तदेतत्सोमयागरूपं सर्वमाप्नोति ॥ ३१॥

द्वात्रिंशी।
सुरा॑वन्तं बर्हि॒षद॑ᳪ सु॒वीरं॑ य॒ज्ञᳪ हि॑न्वन्ति महि॒षा नमो॑भिः ।
दधा॑ना॒: सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रँ॒ यज॑मानाः स्व॒र्काः ।। ३२ ।।

उ० पयोग्रहाञ्जुहोति । सुरावन्तम् । त्रिष्टुबश्विसरस्वतीदेवत्या । यत् सुरावन्तं बर्हिषदम् 'सुरावान्वा एष बर्हिषद्यज्ञो यः सौत्रामणी' । सुवीरं कल्याणवीरम् यज्ञं हिन्वन्ति | वर्धयन्ति प्रापयन्ति वा । महिषा ऋत्विजः । नमोभिः नमस्कारैः अन्नैर्वा । दधानाः धारयन्तः। सोमं दिवि देवतासु । तत्र मदेम वयम् इन्द्रं यजमानाः । स्वर्काः शोभनार्चनाः कल्याणं मन्त्रा वा ॥ ३२ ॥
म० 'सुरावन्तमिति जुहोति' ( का० १९ । ३ । ८)। | अध्वर्युस्त्रीनपि पयोग्रहान्सहैव जुहोतीत्यर्थः । एवं सौत्रामण्याः सोमसंपत्तिमापाद्य प्रकृतमनुसरति । चतस्रस्त्रिष्टुभोऽश्विसरस्वतीन्द्रदेवत्याः । महिषा महान्तः ऋत्विजो यज्ञं सौत्रामणीसंज्ञं हिन्वन्ति वर्धयन्ति प्रापयन्ति वा । किंभूतं यज्ञम् । बर्हिषदं बर्हिषि सीदन्ति देवा यत्र स बर्हिषत्तम् । तथा सुरावन्तं सुरा विद्यते यत्र स सुरावान् तम् । 'सुरावान्वा एष बर्हिषद्यज्ञो यत्सौत्रामणी' ( १२ । ८।१।२) इति श्रुतेः । सुवीरं शोभना वीरा यत्र शोभनर्त्विजम् । कीदृशाः । महिषाः नमोभिरन्नैर्नमस्कारैर्वा सह दिवि स्वर्गे वर्तमानासु देवतासु सोमं दधानाः धारयन्तः । तत्र यज्ञे इन्द्रं यजमानाः यजन्तः सन्तो वयं मदेम हृष्येम । किंभूता वयम् । स्वर्काः शोभनोऽर्कोऽर्चनं मन्त्रा वा येषां ते स्वर्काः । यद्वा शोभनोऽर्कोऽन्नं येषां ते स्वर्का इति 'अर्को वै देवानामन्नमन्नं यज्ञो यज्ञेनैवैनमन्नाद्येन समर्धयन्ति' ( १२ । ८।१।२) इति श्रुतेः । 'अर्को देवो भवति यदेनमर्चन्ति अर्को मन्त्रो भवति यदेनेनार्चन्ति अर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति संवृतः कटुकिम्न' (निरु० ५।४) इति यास्कः । महिषशब्दो यद्यपि महन्नामसु